सप्तमः सर्गः

श्री-महादेव उवाच

वाल्मीकिना बोधितोऽसौ कुशः सद्योगतभ्रमः।
अन्तर्मुक्तो बहिः सर्वमनुकुर्वंश्चकार सः॥१॥
वाल्मीकिरपि तौ प्राह सीतापुत्रौ महाधियौ।
तत्र तत्र च गायन्तौ पुरे वीथिषु सर्वतः॥२॥
रामस्याग्रे प्रगायेतं शुश्रूषुर्यदि राघवः।
न ग्राह्यं वै युवाभ्यां तद्यदि किञ्चित्प्रदास्यति॥३॥
इति तौ चोदितौ तत्र गायमानौ विचेरतुः।
यथोक्तमृषिणा पूर्वं तत्र तत्राभ्यगायताम्॥४॥
तां स शुश्राव काकुत्स्थः पूर्वचर्यां ततस्ततः।
अपूर्वपाठजातिं च गेयेन समभिप्लुताम्॥५॥
बालयो राघवः श्रुत्वा कौतूहलमुपेयिवान्।
अथ कर्मान्तरे राजा समाहूय महामुनीन्॥६॥
राज्ञश्चैव नरव्याघ्रः पण्डितांश्चैव नैगमान्।
पौराणिकान् शब्दविदो ये च वृद्धा द्विजातयः॥७॥
एतान् सर्वान् समाहूय गायकौ समवेशयत्।
ते सर्वे हृष्टमनसो राजानो ब्राह्मणादयः॥८॥
रामं तौ दारकौ दृष्ट्वा विस्मिताः ह्यनिमेषणाः।
अवोचन् सर्व एवैते परस्परमथागताः॥९॥
इमौ रामस्य सदृशौ बिम्बाद्बिम्बमिवोदितौ।
जटिलौ यदि न स्यातां न च वल्कलधारिणौ॥१०॥
विशेषं नाधिगच्छामो राघवस्यानयोस्तदा।
एवं संवदतां तेषां विस्मितानां परस्परम्॥११॥
उपचक्रमतुर्गातुं तावुभौ मुनिदारकौ।
ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम्॥१२॥
श्रुत्वा तन्मधुरं गीतमपराह्णे रघूत्तमः।
उवाच भरतं चाभ्यां दीयतामयुतं वसु॥१३॥
दीयमानं सुवर्णं तु न तज्जगृहतुस्तदा।
किमनेन सुवर्णेन राजन्नौ वन्यभोजनौ॥१४॥
इति सन्त्यज्य सन्दत्तं जग्मतुर्मुनिसन्निधिम्।
एवं श्रुत्वा तु चरितं रामः स्वस्यैव विस्मितः॥१५॥
ज्ञात्वा सीताकुमारौ तौ शत्रुघ्नं चेदमब्रवीत्।
हनूमन्तं सुषेणं च विभीषणमथाङ्गदम्॥१६॥
भगवन्तं महात्मानं वाल्मीकिं मुनिसत्तमम्।
आनयध्वं मुनिवरं ससीतं देवसम्मितम्॥१७॥
अस्यास्तु पर्षदो मध्ये प्रत्ययं जनकात्मजा।
करोतु शपथं सर्वे जानन्तु गतकल्मषाम्॥१८॥
सीतां तद्वचनं श्रुत्वा गताः सर्वेऽतिविस्मिताः।
ऊचुर्यथोक्तं रामेण वाल्मीकिं रामपार्षदाः॥१९॥
रामस्य हृद्गतं सर्वं ज्ञात्वा वाल्मीकिरब्रवीत्।
श्वः करिष्यति वै सीता शपथं जनसंसदि॥२०॥
योषितां परमं दैवं पतिरेव न संशयः।
तच्छ्रुत्वा सहसा गत्वा सर्वे प्रोचुर्मुनेर्वचः॥२१॥
राघवस्यापि रामोऽपि श्रुत्वा मुनिवचस्तथा।
राजानो मुनयः सर्वे शृणुध्वमिति चाब्रवीत्॥२२॥
सीतायाः शपथं लोका विजानन्तु शुभाशुभम्।
इत्युक्ता राघवेणाथ लोकाः सर्वे दिदृक्षवः॥२३॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महर्षयः।
वानराश्च समाजग्मुः कौतूहलसमन्विताः॥२४॥
ततो मुनिवरस्तूर्णं ससीतः समुपागमत्।
अग्रतस्तमृषिं कृत्वाऽऽयान्ती किञ्चिदवाङ्मुखी॥२५॥
कृताञ्जलिर्बाष्पकण्ठा सीता यज्ञं विवेश तम्।
दृष्ट्वा लक्ष्मीमिवायान्तीं ब्रह्माणमनुयायिनीम्॥२६॥
वाल्मीकेः पृष्ठतः सीतां साधुवादो महानभूत्।
तदा मध्ये जनौघस्य प्रविश्य मुनिपुङ्गवः॥२७॥
सीतासहायो वाल्मीकिरिति प्राह च राघवम्।
इयं दाशरथे सीता सुव्रता धर्मचारिणी॥२८॥
अपापा ते पुरा त्यक्ता ममाश्रमसमीपतः।
लोकापवादभीतेन त्वया राम महावने॥२९॥
प्रत्ययं दास्यते सीता तदनुज्ञातुमर्हसि।
इमौ तु सीतातनयाविमौ यमलजातकौ॥३०॥
सुतौ तु तव दुर्धर्षौ तथ्यमेतद्ब्रवीमि ते।
प्रचेतसोऽहं दशमः पुत्रो रघुकुलोद्वह॥३१॥
अनृतं न स्मराम्युक्तं तथेमौ तव पुत्रकौ।
बहून् वर्षगणान् सम्यक् तपश्चर्या मया कृता॥३२॥
नोपाश्नीयां फलं तस्या दुष्टेयं यदि मैथिली।
वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषत॥३३॥
एवमेतन्महाप्राज्ञ यथा वदसि सुव्रत।
प्रत्ययो जनितो मह्यं तव वाक्यैरकिल्बिषैः॥३४॥
लङ्कायामपि दत्तो मे वैदेह्या प्रत्ययो महान्।
देवानां पुरतस्तेन मन्दिरे सम्प्रवेशिता॥३५॥
सेयं लोकभयाद्ब्रह्मन्नपापाऽपि सती पुरा।
सीता मया परित्यक्ता भवांस्तत्क्षन्तुमर्हति॥३६॥
ममैव जातौ जानामि पुत्रावेतौ कुशीलवौ।
शुद्धायां जगतीमध्ये सीतायां प्रीतिरस्तु मे॥३७॥
देवाः सर्वे परिज्ञाय रामाभिप्रायमुत्सुकाः।
ब्रह्माणमग्रतः कृत्वा समाजग्मुः सहस्रशः॥३८॥
प्रजाः समागमन् हृष्टाः सीता कौशेयवासिनी।
उदङ्मुखी ह्यधोदृष्टिः प्राञ्जलिर्वाक्यमब्रवीत्॥३९॥
रामादन्यं यथाऽहं वै मनसाऽपि न चिन्तये।
तथा मे धरणी देवी विवरं दातुमर्हति॥४०॥
तथा शपन्त्याः सीतायाः प्रादुरासीन्महाद्भुतम्।
भूतलाद्दिव्यमत्यर्थं सिंहासनमनुत्तमम्॥४१॥
नागेन्द्रैर्ध्रियमाणं च दिव्यदेहै रविप्रभम्।
भूदेवी जानकीं दोर्भ्यां गृहीत्वा स्नेहसंयुता॥४२॥
स्वागतं तामुवाचैनामासने सन्न्यवेशयत्।
सिंहासनस्थां वैदेहीं प्रविशन्तीं रसातलम्॥४३॥
निरन्तरा पुष्पवृष्टिर्दिव्या सीतामवाकिरत्।
साधुवादश्च सुमहान् देवानां परमाद्भुतः॥४४॥
ऊचुश्च बहुधा वाचो ह्यन्तरिक्षगताः सुराः।
अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः॥४५॥
वानराश्च महाकायाः सीताशपथकारणात्।
केचिच्चिन्तापरास्तस्य केचिद्ध्यानपरायणाः॥४६॥
केचिद्रामं निरीक्षन्तः केचित्सीतामचेतसः।
मुहूर्तमात्रं तत्सर्वं तूष्णीम्भूतमचेतनम्॥४७॥
सीताप्रवेशनं दृष्ट्वा सर्वं सम्मोहितं जगत्।
रामस्तु सर्वं ज्ञात्वैव भविष्यत्कार्यगौरवम्॥४८॥
अजानन्निव दुःखेन शुशोच जनकात्मजाम्।
ब्रह्मणा ऋषिभिः सार्धं बोधितो रघुनन्दनः॥४९॥
प्रतिबुद्ध इव स्वप्नाच्चकारानन्तराः क्रियाः।
विससर्ज ऋषीन् सर्वानृत्विजो ये समागताः॥५०॥
तान् सर्वान् धनरत्नाद्यैस्तोषयामास भूरिशः।
उपादाय कुमारौ तावयोध्यामगमत्प्रभुः॥५१॥
तदादि निःस्पृहो रामः सर्वभोगेषु सर्वदा।
आत्मचिन्तापरो नित्यमेकान्ते समुपस्थितः॥५२॥
एकान्ते ध्याननिरते एकदा राघवे सति।
ज्ञात्वा नारायणं साक्षात्कौसल्या प्रियवादिनी॥५३॥
भक्त्याऽऽगत्य प्रसन्नं तं प्रणता प्राह हृष्टधीः।
राम त्वं जगतामादिरादिमध्यान्तवर्जितः॥५४॥
परमात्मा परानन्दः पूर्णः पुरुष ईश्वरः।
जातोऽसि मे गर्भगृहे मम पुण्यातिरेकतः॥५५॥
अवसाने ममाप्यद्य समयोऽभूद् रघूत्तम।
नाद्याप्यबोधजः कृत्स्नो भवबन्धो निवर्तते॥५६॥
इदानीमपि मे ज्ञानं भवबन्धनिवर्तकम्।
यथा सङ्क्षेपतो भूयात्तथा बोधय मां विभो॥५७॥
निर्वेदवादिनीमेवं मातरं मातृवत्सलः।
दयालुः प्राह धर्मात्मा जराजर्जरितां शुभाम्॥५८॥
मार्गास्त्रयो मया प्रोक्ताः पुरा मोक्षाप्तिसाधकाः।
कर्मयोगो ज्ञानयोगो भक्तियोगश्च शाश्वतः॥५९॥
भक्तिर्विभिद्यते मातस्त्रिविधा गुणभेदतः।
स्वभावो यस्य यस्तेन तस्य भक्तिर्विभिद्यते॥६०॥
यस्तु हिंसां समुद्दिश्य दम्भं मात्सर्यमेव वा।
भेददृष्टिश्च संरम्भी भक्तो मे तामसः स्मृतः॥६१॥
फलाभिसन्धिर्भोगार्थी धनकामो यशस्तथा।
अर्चादौ भेदबुद्ध्या मां पूजयेत्स तु राजसः॥६२॥
परस्मिन्नर्पितं यस्तु कर्मनिर्हरणाय वा।
कर्तव्यमिति वा कुर्याद्भेदबुद्ध्या स सात्त्विकः॥६३॥
मद्गुणाश्रयणादेव मय्यनन्तगुणालये।
अविच्छिन्ना मनोवृत्तिर्यथा गङ्गाम्बुनोऽम्बुधौ॥६४॥
तदेव भक्तियोगस्य लक्षणं निर्गुणस्य हि।
अहैतुक्यव्यवहिता या भक्तिर्मयि जायते॥६५॥
सा मे सालोक्यसामीप्यसार्ष्टिसायुज्यमेव वा।
ददात्यपि न गृह्णन्ति भक्ता मत्सेवनं विना॥६६॥
स एवात्यन्तिको योगो भक्तिमार्गस्य भामिनि।
मद्भावं प्राप्नुयात्तेन अतिक्रम्य गुणत्रयम्॥६७॥
महता कामहीनेन स्वधर्माचरणेन च।
कर्मयोगेन शस्तेन वर्जितेन विहिंसनात्॥६८॥
मद्दर्शनस्तुतिमहापूजाभिः स्मृतिवन्दनैः।
भूतेषु मद्भावनया सङ्गेनासत्यवर्जनैः॥६९॥
बहुमानेन महतां दुःखिनामनुकम्पया।
स्वसमानेषु मैत्र्या च यमादीनां निषेवया॥७०॥
वेदान्तवाक्यश्रवणान्मम नामानुकीर्तनात्।
सत्सङ्गेनार्जवेनैव ह्यहमः परिवर्जनात्॥७१॥
काङ्क्षया मम धर्मस्य परिशुद्धान्तरो जनः।
मद्गुणश्रवणादेव याति मामञ्जसा जनः॥७२॥
यथा वायुवशाद्गन्धः स्वाश्रयाद्घ्राणमाविशेत्।
योगाभ्यासरतं चित्तमेवमात्मानमाविशेत्॥७३॥
सर्वेषु प्राणिजातेषु ह्यहमात्मा व्यवस्थितः।
तमज्ञात्वा विमूढात्मा कुरुते केवलं बहिः॥७४॥
क्रियोत्पन्नैर्नैकभेदैर्द्रव्यैर्मे नाम्ब तोषणम्।
भूतावमानिनार्चायामर्चितोऽहं न पूजितः॥७५॥
तावन्मामर्चयेद् देवं प्रतिमादौ स्वकर्मभिः।
यावत्सर्वेषु भूतेषु स्थितं चात्मनि न स्मरेत्॥७६॥
यस्तु भेदं प्रकुरुते स्वात्मनश्च परस्य च।
भिन्नदृष्टेर्भयं मृत्युस्तस्य कुर्यान्न संशयः॥७७॥
मामतः सर्वभूतेषु परिच्छिन्नेषु संस्थितम्।
एकं ज्ञानेन मानेन मैत्र्या चार्चेदभिन्नधीः॥७८॥
चेतसैवानिशं सर्वभूतानि प्रणमेत्सुधीः।
ज्ञात्वा मां चेतनं शुद्धं जीवरूपेण संस्थितम्॥७९॥
तस्मात्कदाचिन्नेक्षेत भेदमीश्वरजीवयोः।
भक्तियोगो ज्ञानयोगो मया मातरुदीरितः॥८०॥
आलम्ब्यैकतरं वाऽपि पुरुषः शुभमृच्छति।
ततो मां भक्तियोगेन मातः सर्वहृदि स्थितम्॥८१॥
पुत्ररूपेण वा नित्यं स्मृत्वा शान्तिमवाप्स्यसि।
श्रुत्वा रामस्य वचनं कौसल्याऽऽनन्दसंयुता॥८२॥
रामं सदा हृदि ध्यात्वा छित्त्वा संसारबन्धनम्।
अतिक्रम्य गतीस्तिस्रोऽप्यवाप परमां गतिम्॥८३॥
कैकेयी चापि योगं रघुपतिगदितं पूर्वमेवाधिगम्य
श्रद्धाभक्तिप्रशान्ता हृदि रघुतिलकं भावयन्ती गतासुः।
गत्वा स्वर्गं स्फुरन्ती दशरथसहिता मोदमानावतस्थे
माता श्रीलक्ष्मणस्याप्यतिविमलमतिः प्राप भर्तुः समीपम्॥८४॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे सप्तमः सर्गः॥