षष्ठः सर्गः

श्री-महादेव उवाच

एकदा मुनयः सर्वे यमुनातीरवासिनः।
आजग्मू राघवं द्रष्टुं भयाल्लवणरक्षसः॥१॥
कृत्वाऽग्रे तु मुनिश्रेष्ठं भार्गवं च्यवनं द्विजाः।
असङ्ख्याताः समायाता रामादभयकाङ्क्षिणः॥२॥
तान् पूजयित्वा परया भक्त्या रघुकुलोत्तमः।
उवाच मधुरं वाक्यं हर्षयन् मुनिमण्डलम्॥३॥
करवाणि मुनिश्रेष्ठाः किमागमनकारणम्।
धन्योऽस्मि यदि यूयं मां प्रीत्या द्रष्टुमिहागताः॥४॥
दुष्करं चापि यत्कार्यं भवतां तत्करोम्यहम्।
आज्ञापयन्तु मां भृत्यं ब्राह्मणा दैवतं हि मे॥५॥
तच्छ्रुत्वा सहसा हृष्टश्च्यवनो वाक्यमब्रवीत्।
मधुनामा महादैत्यः पुरा कृतयुगे प्रभो॥६॥
आसीदतीव धर्मात्मा देवब्राह्मणपूजकः।
तस्य तुष्टो महादेवो ददौ शूलमनुत्तमम्॥७॥
प्राह चानेन यं हंसि स तु भस्मीभविष्यति।
रावणस्यानुजा भार्या तस्य कुम्भीनसी श्रुता॥८॥
तस्यां तु लवणो नाम राक्षसो भीमविक्रमः।
आसीद्दुरात्मा दुर्धर्षो देवब्राह्मणहिंसकः॥९॥
पीडितास्तेन राजेन्द्र वयं त्वां शरणं गताः।
तच्छ्रुत्वा राघवोऽप्याह मा भीर्वो मुनिपुङ्गवाः॥१०॥
लवणं नाशयिष्यामि गच्छन्तु विगतज्वराः।
इत्युक्त्वा प्राह रामोऽपि भ्रातॄन् को वा हनिष्यति॥११॥
लवणं राक्षसं दद्यात् ब्राह्मणेभ्योऽभयं महत्।
तच्छ्रुत्वा प्राञ्जलिः प्राह भरतो राघवाय वै॥१२॥
अहमेव हनिष्यामि देवाज्ञापय मां प्रभो।
ततो रामं नमस्कृत्य शत्रुघ्नो वाक्यमब्रवीत्॥१३॥
लक्ष्मणेन महत्कार्यं कृतं राघव संयुगे।
नन्दिग्रामे महाबुद्धिर्भरतो दुःखमन्वभूत्॥१४॥
अहमेव गमिष्यामि लवणस्य वधाय च।
त्वत्प्रसादाद् रघुश्रेष्ठ हन्यां तं राक्षसं युधि॥१५॥
तच्छ्रुत्वा स्वाङ्कमारोप्य शत्रुघ्नं शत्रुसूदनः।
प्राहाद्यैवाभिषेक्ष्यामि मथुराराज्यकारणात्॥१६॥
आनाय्य च सुसम्भारान् लक्षमणेनाभिषेचने।
अनिच्छन्तमपि स्नेहादभिषेकमकारयत्॥१७॥
दत्त्वा तस्मै शरं दिव्यं रामः शत्रुघ्नमब्रवीत्।
अनेन जहि बाणेन लवणं लोककण्टकम्॥१८॥
स तु सम्पूज्य तच्छूलं गेहे गच्छति काननम्।
भक्षणार्थं तु जन्तूनां नानाप्राणिवधाय च॥१९॥
स तु नाऽऽयाति सदनं यावद्वनचरो भवेत्।
तावदेव पुरद्वारि तिष्ठ त्वं धृतकार्मुकः॥२०॥
योत्स्यते स त्वया क्रुद्धस्तदा वध्यो भविष्यति।
तं हत्वा लवणं क्रूरं तद्वनं मधुसंज्ञितम्॥२१॥
निवेश्य नगरं तत्र तिष्ठ त्वं मेऽनुशासनात्।
अश्वानां पञ्चसाहस्रं रथानां च तदर्धकम्॥२२॥
गजानां षट् शतानीह पत्तीनामयुतत्रयम्।
आगमिष्यति पश्चात्त्वमग्रे साधय राक्षसम्॥२३॥
इत्युक्त्वा मूर्ध्न्यवघ्राय प्रेषयामास राघवः।
शत्रुघ्नं मुनिभिः सार्धमाशीर्भिरभिनन्द्य च॥२४॥
शत्रुघ्नोऽपि तथा चक्रे यथा रामेण चोदितः।
हत्वा मधुसुतं युद्धे मथुरामकरोत्पुरीम्॥२५॥
स्फीतां जनपदां चक्रे मथुरां दानमानतः।
सीताऽपि सुषुवे पुत्रौ द्वौ वाल्मीकेरथाऽऽश्रमे॥२६॥
मुनिस्तयोर्नाम चक्रे कुशो ज्येष्ठोऽनुजो लवः।
क्रमेण विद्यासम्पन्नौ सीतापुत्रौ बभूवतुः॥२७॥
उपनीतौ च मुनिना वेदाध्ययनतत्परौ।
कृत्स्नं रामायणं प्राह काव्यं बालकयोर्मुनिः॥२८॥
शङ्करेण पुरा प्रोक्तं पार्वत्यै पुरहारिणा।
वेदोपबृंहनार्थाय तावग्राहयत प्रभुः॥२९॥
कुमारौ स्वरसम्पन्नौ सुन्दरावश्विनाविव।
तन्त्रीतालसमायुक्तौ गायन्तौ चेरतुर्वने॥३०॥
तत्र तत्र मुनीनां तौ समाजे सुररूपिणौ।
गायन्तावभितो दृष्ट्वा विस्मिता मुनयोऽब्रुवन्॥३१॥
गन्धर्वेष्विव किन्नरेषु भुवि वा देवेषु देवालये
पातालेष्वथवा चतुर्मुखगृहे लोकेषु सर्वेषु च।
अस्माभिश्चिरजीविभिश्चिरतरं दृष्ट्वा दिशः सर्वतो
नाज्ञायीदृशगीतवाद्यगरिमा नादर्शि नाश्रावि च॥३२॥
एवं स्तुवद्भिरखिलैर्मुनिभिः प्रतिवासरम्।
आसाते सुखमेकान्ते वाल्मीकेराश्रमे चिरम्॥३३॥
अथ रामोऽश्वमेधादींश्चकार बहुदक्षिणान्।
यज्ञान् स्वर्णमयीं सीतां विधाय विपुलद्युतिः॥३४॥
तस्मिन् विताने ऋषयः सर्वे राजर्षयस्तथा।
ब्राह्मणाः क्षत्रिया वैश्याः समाजग्मुर्दिदृक्षवः॥३५॥
वाल्मीकिरपि सङ्गृह्य गायन्तौ तौ कुशीलवौ।
जगाम ऋषिवाटस्य समीपं मुनिपुङ्गवः॥३६॥
तत्रैकान्ते स्थितं शान्तं समाधिविरमे मुनिम्।
कुशः पप्रच्छ वाल्मीकिं ज्ञानशास्त्रं कथान्तरे॥३७॥
भगवन् श्रोतुमिच्छामि सङ्क्षेपाद्भवतोऽखिलम्।
देहिनः संसृतिर्बन्धः कथमुत्पद्यते दृढः॥३८॥
कथं विमुच्यते देही दृढबन्धाद्भवाभिधात्।
वक्तुमर्हसि सर्वज्ञ मह्यं शिष्याय ते मुने॥३९॥

वाल्मीकिरुवाच

शृणु वक्ष्यामि ते सर्वं सङ्क्षेपाद्बन्धमोक्षयोः।
स्वरूपं साधनं चापि मत्तः श्रुत्वा यथोदितम्॥४०॥
तथैवाऽऽचर भद्रं ते जीवन्मुक्तो भविष्यसि।
देह एव महागेहमदेहस्य चिदात्मनः॥४१॥
तस्याहङ्कार एवास्मिन्मन्त्री तेनैव कल्पितः।
देहगेहाभिमानं स्वं समारोप्य चिदात्मनि॥४२॥
तेन तादात्म्यमापन्नः स्वचेष्टितमशेषतः।
विदधाति चिदानन्दे तद् वासितवपुः स्वयम्॥४३॥
तेन सङ्कल्पितो देही सङ्कल्पनिगडावृतः।
पुत्रदारगृहादीनि सङ्कल्पयति चानिशम्॥४४॥
सङ्कल्पयन् स्वयं देही परिशोचति सर्वदा।
त्रयस्तस्याहमो देहा अधमोत्तममध्यमाः॥४५॥
तमः सत्त्वरजः संज्ञा जगतः कारणं स्थितेः।
तमोरूपाद्धि सङ्कल्पान्नित्यं तामसचेष्टया॥४६॥
अत्यन्तं तामसो भूत्वा कृमिकीटत्वमाप्नुयात्।
सत्त्वरूपो हि सङ्कल्पो धर्मज्ञानपरायणः॥४७॥
अदूरमोक्षसाम्राज्यः सुखरूपो हि तिष्ठति।
रजोरूपो हि सङ्कल्पो लोके स व्यवहारवान्॥४८॥
परितिष्ठति संसारे पुत्रदारानुरञ्जितः।
त्रिविधं तु परित्यज्य रूपमेतन्महामते॥४९॥
सङ्कल्पं परमाप्नोति पदमात्मपरिक्षये।
दृष्टीः सर्वाः परित्यज्य नियम्य मनसा मनः॥५०॥
सबाह्याभ्यन्तरार्थस्य सङ्कल्पस्य क्षयं कुरु।
यदि वर्षसहस्राणि तपश्चरसि दारुणम्॥५१॥
पातालस्थस्य भूस्थस्य स्वर्गस्थस्यापि तेऽनघ।
नान्यः कश्चिदुपायोऽस्ति सङ्कल्पोपशमादृते॥५२॥
अनाबाधेऽविकारे स्वे सुखे परमपावने।
सङ्कल्पोपशमे यत्नं पौरुषेण परं कुरु॥५३॥
सङ्कल्पतन्तौ निखिला भावाः प्रोताः किलानघ।
छिन्ने तन्तौ न जानीमः क्व यान्ति विभवाः पराः॥५४॥
निःसङ्कल्पो यथाप्राप्तव्यवहारपरो भव।
क्षये सङ्कल्पजालस्य जीवो ब्रह्मत्वमाप्नुयात्॥५५॥
अधिगतपरमार्थतामुपेत्य प्रसभमपास्य विकल्पजालमुच्चैः।
अधिगमय पदं तदद्वितीयं विततसुखाय सुषुप्तचित्तवृत्तिः॥५६॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे षष्ठः सर्गः॥