चतुर्थः सर्गः

श्री-महादेव उवाच

एकदा ब्रह्मणो लोकादायान्तं नारदं मुनिम्।
पर्यटन् रावणो लोकान् दृष्ट्वा नत्वाऽब्रवीद् वचः॥१॥
भगवन् ब्रूहि मे योद्धुं कुत्र सन्ति महाबलाः।
योद्धुमिच्छामि बलिभिस्त्वं ज्ञाताऽसि जगत्त्रयम्॥२॥
मुनिर्ध्यात्वाऽऽह सुचिरं श्वेतद्वीपनिवासिनः।
महाबला महाकायास्तत्र याहि महामते॥३॥
विष्णुपूजारता ये वै विष्णुना निहताश्च ये।
त एव तत्र सञ्जाता अजेयाश्च सुरासुरैः॥४॥
श्रुत्वा तद्रावणो वेगान्मन्त्रिभिः पुष्पकेण तान्।
योद्धुकामः समागत्य श्वेतद्वीपसमीपतः॥५॥
तत्प्रभाहततेजस्कं पुष्पकं नाचलत्ततः।
त्यक्त्वा विमानं प्रययौ मन्त्रिणश्च दशाननः॥६॥
प्रविशन्नेव तद्द्वीपं धृतो हस्तेन योषिता।
पृष्टश्च त्वं कुतः कोऽसि प्रेषितः केन वा वद॥७॥
इत्युक्तो लीलया स्त्रीभिर्हसन्तीभिः पुनः पुनः।
कृच्छ्राद्धस्ताद्विनिर्मुक्तस्तासां स्त्रीणां दशाननः॥८॥
आश्चर्यमतुलं लब्ध्वा चिन्तयामास दुर्मतिः।
विष्णुना निहतो यामि वैकुण्ठमिति निश्चितः॥९॥
मयि विष्णुर्यथा कुप्येत्तथा कार्यं करोम्यहम्।
इति निश्चित्य वैदेहीं जहार विपिनेऽसुरः॥१०॥
जानन्नेव परात्मानं स जहारावनीसुताम्।
मातृवत्पालयामास त्वत्तः काङ्क्षन् वधं स्वकम्॥११॥
राम त्वं परमेश्वरोऽसि सकलं जानासि विज्ञानदृग्
भूतं भव्यमिदं त्रिकालकलनासाक्षी विकल्पोज्झितः।
भक्तानामनुवर्तनाय सकलां कुर्वन् क्रियासंहतिं
त्वं शृण्वन्मनुजाकृतिर्मुनिवचो भासीश लोकार्चितः॥१२॥
स्तुत्वैवं राघवं तेन पूजितः कुम्भसम्भवः।
स्वाश्रमं मुनिभिः सार्धं प्रययौ हृष्टमानसः॥१३॥
रामस्तु सीतया सार्धं भ्रातृभिः सह मन्त्रिभिः।
संसारीव रमानाथो रममाणोऽवसद्गृहे॥१४॥
अनासक्तोऽपि विषयान् बुभुजे प्रियया सह।
हनुमत्प्रमुखैः सद्भिर्वानरैः परिवेष्टितः॥१५॥
पुष्पकं चागमद्राममेकदा पूर्ववत्प्रभुम्।
प्राह देव कुबेरेण प्रेषितं त्वामहं ततः॥१६॥
जितं त्वं रावणेनादौ पश्चाद्रामेण निर्जितम्।
अतस्त्वं राघवं नित्यं वह यावद्वसेद्भुवि॥१७॥
यदा गच्छेद् रघुश्रेष्ठो वैकुण्ठं याहि मां तदा।
तच्छ्रुत्वा राघवः प्राह पुष्पकं सूर्यसन्निभम्॥१८॥
यदा स्मरामि भद्रं ते तदाऽऽगच्छ ममान्तिकम्।
तिष्ठान्तर्धाय सर्वत्र गच्छेदानीं ममाऽऽज्ञया॥१९॥
इत्युक्त्वा रामचन्द्रोऽपि पौरकार्याणि सर्वशः।
भ्रातृभिर्मन्त्रिभिः सार्धं यथान्यायं चकार सः॥२०॥
राघवे शासति भुवं लोकनाथे रमापतौ।
वसुधा सस्यसम्पन्ना फलवन्तश्च भूरुहाः॥२१॥
जना धर्मपराः सर्वे पतिभक्तिपराः स्त्रियः।
नापश्यत्पुत्रमरणं कश्चिद्राजनि राघवे॥२२॥
समारुह्य विमानाग्र्यं राघवः सीतया सह।
वानरैर्भ्रातृभिः सार्धं सञ्चचारावनिं प्रभुः॥२३॥
अमानुषाणि कार्याणि चकार बहुशो भुवि।
ब्राह्मणस्य सुतं दृष्ट्वा बालं मृतमकालतः॥२४॥
शोचन्तं ब्राह्मणं चापि ज्ञात्वा रामो महामतिः।
तपस्यन्तं वने शूद्रं हत्वा ब्राह्मणबालकम्॥२५॥
जीवयामास शूद्रस्य ददौ स्वर्गमनुत्तमम्।
लोकानामुपदेशार्थं परमात्मा रघूत्तमः॥२६॥
कोटिशः स्थापयामास शिवलिङ्गानि सर्वशः।
सीतां च रमयामास सर्वभोगैरमानुषैः॥२७॥
शशास रामो धर्मेण राज्यं परमधर्मवित्।
कथां संस्थापयामास सर्वलोकमलापहाम्॥२८॥
दशवर्षसहस्राणि मायामानुषविग्रहः।
चकार राज्यं विधिवल्लोकवन्द्यपदाम्बुजः॥२९॥
एकपत्नीव्रतो रामो राजर्षिः सर्वदा शुचिः।
गृहमेधीयमखिलमाचरन् शिक्षयन् जनान्॥३०॥
सीता प्रेम्णाऽनुवृत्त्या च प्रश्रयेण दमेन च।
भर्तुर्मनोहरा साध्वी भावज्ञा सा ह्रिया भिया॥३१॥
एकदा क्रीडविपिने सर्वभोगसमन्विते।
एकान्ते दिव्यभवने सुखासीनं रघूत्तमम्॥३२॥
नीलमाणिक्यसङ्काशं दिव्याभरणभूषितम्।
प्रसन्नवदनं शान्तं विद्युत्पुञ्जनिभाम्बरम्॥३३॥
सीता कमलपत्राक्षी सर्वाभरणभूषिता।
राममाह कराभ्यां सा लालयन्ती पदाम्बुजे॥३४॥
देवदेव जगन्नाथ परमात्मन् सनातन।
चिदानन्दादिमध्यान्तरहिताशेषकारण॥३५॥
देव देवाः समासाद्य मामेकान्तेऽब्रुवन्वचः।
बहुशोऽर्थयमानास्ते वैकुण्ठागमनं प्रति॥३६॥
त्वया समेतश्चिच्छक्त्या रामस्तिष्ठति भूतले।
विसृज्यास्मान् स्वकं धाम वैकुण्ठं च सनातनम्॥३७॥
आस्ते त्वया जगद्धात्रि रामः कमललोचनः।
अग्रतो याहि वैकुण्ठं त्वं तथा चेद् रघूत्तमः॥३८॥
आगमिष्यति वैकुण्ठं सनाथान्नः करिष्यति।
इति विज्ञापिताऽहं तैर्मया विज्ञापितो भवान्॥३९॥
यद्युक्तं तत्कुरुष्वाद्य नाहमाज्ञापये प्रभो।
सीतायास्तद्वचः श्रुत्वा रामो ध्यात्वाऽब्रवीत्क्षणम्॥४०॥
देवि जानामि सकलं तत्रोपायं वदामि ते।
कल्पयित्वा मिषं देवि लोकवादं त्वदाशयम्॥४१॥
त्यजामि त्वां वने लोकवादाद्भीत इवापरः।
भविष्यतः कुमारौ द्वौ वाल्मीकेराश्रमान्तिके॥४२॥
इदानीं दृश्यते गर्भः पुनरागत्य मेऽन्तिकम्।
लोकानां प्रत्ययार्थं त्वं कृत्वा शपथमादरात्॥४३॥
भूमेर्विवरमात्रेण वैकुण्ठं यास्यसि द्रुतम्।
पश्चादहं गमिष्यामि एष एव सुनिश्चयः॥४४॥
इत्युक्त्वा तां विसृज्याथ रामो ज्ञानैकलक्षणः।
मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्बलमुख्यैश्च संवृतः॥४५॥
तत्रोपविष्टं श्रीरामं सुहृदः पर्युपासत।
हास्यप्रौढकथासुज्ञा हासयन्तः स्थिता हरिम्॥४६॥
कथाप्रसङ्गात्पप्रच्छ रामो विजयनामकम्।
पौरा जानपदा मे किं वदन्तीह शुभाशुभम्॥४७॥
सीतां वा मातरं वा मे भ्रातॄन्वा कैकयीमथ।
न भेतव्यं त्वया ब्रूहि शापितोऽसि ममोपरि॥४८॥
इत्युक्तः प्राह विजयो देव सर्वे वदन्ति ते।
कृतं सुदुष्करं सर्वं रामेण विदितात्मना॥४९॥
किन्तु हत्वा दशग्रीवं सीतामाहृत्य राघवः।
अमर्षं पृष्ठतः कृत्वा स्वं वेश्म प्रत्यपादयत्॥५०॥
कीदृशं हृदये तस्य सीतासम्भोगजं सुखम्।
या हृता विजनेऽरण्ये रावणेन दुरात्मना॥५१॥
अस्माकमपि दुष्कर्म योषितां मर्षणं भवेत्।
यादृग्भवति वै राजा तादृश्यो नियतं प्रजाः॥५२॥
श्रुत्वा तद्वचनं रामः स्वजनान् पर्यपृच्छत।
तेऽपि नत्वाऽब्रुवन् राममेवमेतन्न संशयः॥५३॥
ततो विसृज्य सचिवान् विजयं सुहृदस्तथा।
आहूय लक्ष्मणं रामो वचनं चेदमब्रवीत्॥५४॥
लोकापवादस्तु महान् सीतामाश्रित्य मेऽभवत्।
सीतां प्रातः समानीय वाल्मीकेराश्रमान्तिके॥५५॥
त्यक्त्वा शीघ्रं रथेन त्वं पुनरायाहि लक्ष्मण।
वक्ष्यसे यदि वा किञ्चित्तदा मां हतवानसि॥५६॥
इत्युक्तो लक्ष्मणो भीत्या प्रातरुत्थाय जानकीम्।
सुमन्त्रेण रथे कृत्वा जगाम सहसा वनम्॥५७॥
वाल्मीकेराश्रमस्यान्ते त्यक्त्वा सीतामुवाच सः।
लोकापवादभीत्या त्वां त्यक्तवान् राघवो वने॥५८॥
दोषो न कश्चिन्मे मातर्गच्छाऽऽश्रमपदं मुनेः।
इत्युक्त्वा लक्ष्मणः शीघ्रं गतवान् रामसन्निधिम्॥५९॥
सीताऽपि दुःखसन्तप्ता विललापातिमुग्धवत्।
शिष्यैः श्रुत्वा च वाल्मीकिः सीतां ज्ञात्वा स दिव्यदृक्॥६०॥
अर्घ्यादिभिः पूजयित्वा समाश्वास्य च जानकीम्।
ज्ञात्वा भविष्यं सकलमार्पयन् मुनियोषिताम्॥६१॥
तास्तां सम्पूजयन्ति स्म सीतां भक्त्या दिने दिने।
ज्ञात्वा परात्मनो लक्ष्मीं मुनिवाक्येन योषितः।
सेवां चक्रुः सदा तस्या विनयादिभिरादरात्॥६२॥
रामोऽपि सीतारहितः परात्मा
विज्ञानदृक्केवल आदिदेवः।
सन्त्यज्य भोगानखिलान् विरक्तो
मुनिव्रतोऽभून्मुनिसेविताङ्घ्रिः॥६३॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे चतुर्थः सर्गः॥