तृतीयः सर्गः
श्रीराम उवाच
वालिसुग्रीवयोर्जन्म श्रोतुमिच्छामि तत्त्वतः।
रवीन्द्रौ वानराकारौ जज्ञाताविति नः श्रुतम्॥१॥
अगस्त्य उवाच
मेरोः स्वर्णमयस्याद्रेर्मध्यशृङ्गे मणिप्रभे।
तस्मिन् सभाऽऽस्ते विस्तीर्णा ब्रह्मणः शतयोजना॥२॥
तस्यां चतुर्मुखः साक्षात्कदाचिद्योगमास्थितः।
नेत्राभ्यां पतितं दिव्यमानन्दसलिलं बहु॥३॥
तद्गृहीत्वा करे ब्रह्मा ध्यात्वा किञ्चित्तदत्यजत्।
भूमौ पतितमात्रेण तस्माज्जातो महाकपिः॥४॥
तमाह द्रुहिणो वत्स किञ्चित्कालं वसात्र मे।
समीपे सर्वशोभाढ्ये ततः श्रेयो भविष्यति॥५॥
इत्युक्तो न्यवसत् तत्र ब्रह्मणा वानरोत्तमः।
एवं बहुतिथे काले गते ऋक्षाधिपः सुधीः॥६॥
कदाचित्पर्यटन्नद्रौ फलमूलार्थमुद्यतः।
अपश्यद्दिव्यसलिलां वापीं मणिशिलान्विताम्॥७॥
पानीयं पातुमागच्छत् तत्र छायामयं कपिम्।
दृष्ट्वा प्रतिकपिं मत्वा निपपात जलान्तरे॥८॥
तत्रादृष्ट्वा हरिं शीघ्रं पुनरुत्प्लुत्य वानरः।
अपश्यत्सुन्दरीं रामामात्मानं विस्मयं गतः॥९॥
ततः सुरेशो देवेशं पूजयित्वा चतुर्मुखम्।
गच्छन् मध्याह्नसमये दृष्ट्वा नारीं मनोरमाम्॥१०॥
कन्दर्पशरविद्धाङ्गस्त्यक्तवान् वीर्यमुत्तमम्।
तामप्राप्यैव तद्बीजं वालदेशेऽपतद् भुवि॥११॥
वाली समभवत् तत्र शक्रतुल्यपराक्रमः।
तस्य दत्त्वा सुरेशानः स्वर्णमालां दिवं गतः॥१२॥
भानुरप्यागतस्तत्र तदानीमेव भामिनीम्।
दृष्ट्वा कामवशो भूत्वा ग्रीवादेशेऽसृजन्महत्॥१३॥
बीजं तस्यास्ततः सद्यो महाकायोऽभवद्धरिः।
तस्य दत्त्वा हनूमन्तं सहायार्थं गतो रविः॥१४॥
पुत्रद्वयं समादाय गत्वा सा निद्रिता क्वचित्।
प्रभातेऽपश्यदात्मानं पूर्ववद् वानराकृतिम्॥१५॥
फलमूलादिभिः सार्धं पुत्राभ्यां सहितः कपिः।
नत्वा चतुर्मुखस्याग्रे ऋक्षराजः स्थितः सुधीः॥१६॥
ततोऽब्रवीत्समाश्वास्य बहुशः कपिकुञ्जरम्।
तत्रैकं देवतादूतमाहूयामरसन्निभम्॥१७॥
गच्छ दूत मयाऽऽदिष्टो गृहीत्वा वानरोत्तमम्।
किष्किन्धां दिव्यनगरीं निर्मितां विश्वकर्मणा॥१८॥
सर्वसौभाग्यवलितां देवैरपि दुरासदाम्।
तस्यां सिंहासने वीरं राजानमभिषेचय॥१९॥
सप्तद्वीपगता ये ये वानराः सन्ति दुर्जयाः।
सर्वे ते ऋक्षराजस्य भविष्यन्ति वशेऽनुगाः॥२०॥
यदा नारायणः साक्षाद्रामो भूत्वा सनातनः।
भूभारासुरनाशाय सम्भविष्यति भूतले॥२१॥
तदा सर्वे सहायार्थे तस्य गच्छन्तु वानराः।
इत्युक्तो ब्रह्मणा दूतो देवानां स महामतिः॥२२॥
यथाऽऽज्ञप्तस्तथा चक्रे ब्रह्मणा तं हरीश्वरम्।
देवदूतस्ततो गत्वा ब्रह्मणे तन्न्यवेदयत्॥२३॥
तदादि वानराणां सा किष्किन्धाऽभून्नृपाश्रयः॥२४॥
सर्वेश्वरस्त्वमेवासीरिदानीं ब्रह्मणार्थितः।
भूमेर्भारो हृतः कृत्स्नस्त्वया लीलानृदेहिना।
सर्वभूतान्तरस्थस्य नित्यमुक्तचिदात्मनः॥२५॥
अखण्डानन्तरूपस्य कियानेष पराक्रमः।
तथाऽपि वर्ण्यते सद्भिर्लीलामानुषरूपिणः॥२६॥
यशस्ते सर्वलोकानां पापहत्यै सुखाय च।
य इदं कीर्तयेन् मर्त्यो वालिसुग्रीवयोर्महत्॥२७॥
जन्म त्वदाश्रयत्वात्स मुच्यते सर्वपातकैः॥२८॥
अथान्यां सम्प्रवक्ष्यामि कथां राम त्वदाश्रयाम्।
सीता हृता यदर्थं सा रावणेन दुरात्मना॥२९॥
पुरा कृतयुगे राम प्रजापतिसुतं विभुम्।
सनत्कुमारमेकान्ते समासीनं दशाननः।
विनयावनतो भूत्वा ह्यभिवाद्येदमब्रवीत्॥३०॥
को न्वस्मिन् प्रवरो लोके देवानां बलवत्तरः।
देवाश्च यं समाश्रित्य युद्धे शत्रुं जयन्ति हि॥३१॥
कं यजन्ति द्विजा नित्यं कं ध्यायन्ति च योगिनः।
एतन्मे शंस भगवन् प्रश्नं प्रश्नविदां वर॥३२॥
ज्ञात्वा तस्य हृदिस्थं यत्तदशेषेण योगदृक्।
दशाननमुवाचेदं शृणु वक्ष्यामि पुत्रक॥३३॥
भर्ता यो जगतां नित्यं यस्य जन्मादिकं न हि।
सुरासुरैर्नुतो नित्यं हरिर्नारायणोऽव्ययः॥३४॥
यन्नाभिपङ्कजाज्जातो ब्रह्मा विश्वसृजां पतिः।
सृष्टं येनैव सकलं जगत्स्थावरजङ्गमम्॥३५॥
तं समाश्रित्य विबुधा जयन्ति समरे रिपून्।
योगिनो ध्यानयोगेन तमेवानुजपन्ति हि॥३६॥
महर्षेर्वचनं श्रुत्वा प्रत्युवाच दशाननः।
दैत्यदानवरक्षांसि विष्णुना निहतानि च॥३७॥
कां वा गतिं प्रपद्यन्ते प्रेत्य ते मुनिपुङ्गव।
तमुवाच मुनिश्रेष्ठो रावणं राक्षसाधिपम्॥३८॥
दैवतैर्निहता नित्यं गत्वा स्वर्गमनुत्तमम्।
भोगक्षये पुनस्तस्माद्भ्रष्टा भूमौ भवन्ति ते॥३९॥
पूर्वार्जितैः पुण्यपापैर्म्रियन्ते चोद्भवन्ति च।
विष्णुना ये हतास्ते तु प्राप्नुवन्ति हरेर्गतिम्॥४०॥
श्रुत्वा मुनिमुखात्सर्वं रावणो हृष्टमानसः।
योत्स्येऽहं हरिणा सार्धमिति चिन्तापरोऽभवत्॥४१॥
मनःस्थितं परिज्ञाय रावणस्य महामुनिः।
उवाच वत्स तेऽभीष्टं भविष्यति न संशयः॥४२॥
कञ्चित्कालं प्रतीक्षस्व सुखी भव दशानन।
एवमुक्त्वा महाबाहो मुनिः पुनरुवाच तम्॥४३॥
तस्य स्वरूपं वक्ष्यामि ह्यरूपस्यापि मायिनः।
स्थावरेषु च सर्वेषु नदेषु च नदीषु च॥४४॥
ओङ्कारश्चैव सत्यं च सावित्री पृथिवी च सः।
समस्तजगदाधारः शेषरूपधरो हि सः॥४५॥
सर्वे देवाः समुद्राश्च कालः सूर्यश्च चन्द्रमाः।
सूर्योदयो दिवारात्री यमश्चैव तथाऽनिलः॥४६॥
अग्निरिन्द्रस्तथा मृत्युः पर्जन्यो वसवस्तथा।
ब्रह्मा रुद्रादयश्चैव ये चान्ये देवदानवाः॥४७॥
विद्योतते ज्वलत्येष पाति चात्तीति विश्वकृत्।
क्रीडां करोत्यव्ययात्मा सोऽयं विष्णुः सनातनः॥४८॥
तेन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम्।
नीलोत्पलदलश्यामो विद्युद्वर्णाम्बरावृतः॥४९॥
शुद्धजाम्बूनदप्रख्यां श्रियं वामाङ्कसंस्थिताम्।
सदानपायिनीं देवीं पश्यन्नालिङ्ग्य तिष्ठति॥५०॥
द्रष्टुं न शक्यते कैश्चिद् देवदानवपन्नगैः।
यस्य प्रसादं कुरुते स चैनं द्रष्टुमर्हति॥५१॥
न च यज्ञतपोभिर्वा न दानाध्ययनादिभिः।
शक्यते भगवान् द्रष्टुमुपायैरितरैरपि॥५२॥
तद् भक्तैस्तद्गतप्राणैस्तच्चित्तैर्धूतकल्मषैः।
शक्यते भगवान् विष्णुर्वेदान्तामलदृष्टिभिः॥५३॥
अथवा द्रष्टुमिच्छा ते शृणु त्वं परमेश्वरम्।
त्रेतायुगे स देवेशो भविता नृपविग्रहः॥५४॥
हितार्थं देवमर्त्यानामिक्ष्वाकूणां कुले हरिः।
रामो दाशरथिर्भूत्वा महासत्त्वपराक्रमः॥५५॥
पितुर्नियोगात्स भ्रात्रा भार्यया दण्डके वने।
विचरिष्यति धर्मात्मा जगन्मात्रा स्वमायया॥५६॥
एवं ते सर्वमाख्यातं मया रावण विस्तरात्।
भजस्व भक्तिभावेन सदा रामं श्रिया युतम्॥५७॥
अगस्त्य उवाच
एवं श्रुत्वाऽसुराध्यक्षो ध्यात्वा किञ्चिद् विचार्य च।
त्वया सह विरोधेप्सुर्मुमुदे रावणो महान्॥५८॥
युद्धार्थी सर्वतो लोकान् पर्यटन् समवस्थितः।
एतदर्थं महाराज रावणोऽतीव बुद्धिमान्।
हृतवान् जानकीं देवीं त्वयाऽऽत्मवधकाङ्क्षया॥५९॥
इमां कथां यः शृणुयात्पठेद् वा
संश्रावयेद् वा श्रवणार्थिनां सदा।
आयुष्यमारोग्यमनन्तसौख्यं
प्राप्नोति लाभं धनमक्षयं च॥६०॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे तृतीयः सर्गः॥
❀