द्वितीयः सर्गः

श्री-महादेव उवाच

श्रीरामवचनं श्रुत्वा परमानन्दनिर्भरः।
मुनिः प्रोवाच सदसि सर्वेषां तत्र शृण्वताम्॥१॥
अथ वित्तेश्वरो देवस्तत्र कालेन केनचित्।
आययौ पुष्पकारूढः पितरं द्रष्टुमञ्जसा॥२॥
दृष्ट्वा तं कैकसी तत्र भ्राजमानं महौजसम्।
राक्षसी पुत्रसामीप्यं गत्वा रावणमब्रवीत्॥३॥
पुत्र पश्य धनाध्यक्षं ज्वलन्तं स्वेन तेजसा।
त्वमप्येवं यथा भूयास्तथा यत्नं कुरु प्रभो॥४॥
तच्छ्रुत्वा रावणो रोषात् प्रतिज्ञामकरोद्द्रुतम्।
धनदेन समो वाऽपि ह्यधिको वाऽचिरेण तु॥५॥
भविष्याम्यम्ब मां पश्य सन्तापं त्यज सुव्रते।
इत्युक्त्वा दुष्करं कर्तुं तपः स दशकन्धरः॥६॥
अगमत्फलसिद्ध्यर्थं गोकर्णं तु सहानुजः।
स्वं स्वं नियममास्थाय भ्रातरस्ते तपो महत्॥७॥
आस्थिता दुष्करं घोरं सर्वलोकैकतापनम्।
दशवर्षसहस्राणि कुम्भकर्णोऽकरोत्तपः॥८॥
विभीषणोऽपि धर्मात्मा सत्यधर्मपरायणः।
पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान्॥९॥
दिव्यवर्षसहस्रं तु निराहारो दशाननः।
पूर्णे वर्षसहस्रे तु शीर्षमग्नौ जुहाव सः।
एवं वर्षसहस्राणि नव तस्यातिचक्रमुः॥१०॥
अथ वर्षसहस्रं तु दशमे दशमं शिरः।
छेत्तुकामस्य धर्मात्मा प्राप्तश्चाथ प्रजापतिः।
वत्स वत्स दशग्रीव प्रीतोऽस्मीत्यभ्यभाषत॥११॥
वरं वरय दास्यामि यत्ते मनसि काङ्क्षितम्।
दशग्रीवोऽपि तच्छ्रुत्वा प्रहृष्टेनान्तरात्मना॥१२॥
अमरत्वं वृणोमीश वरदो यदि मे भवान्।
सुपर्णनागयक्षाणां देवतानां तथाऽसुरैः।
अवध्यत्वं तु मे देहि तृणभूता हि मानुषाः॥१३॥
तथाऽस्त्विति प्रजाध्यक्षः पुनराह दशाननम्।
अग्नौ हुतानि शीर्षाणि यानि तेऽसुरपुङ्गव॥१४॥
भविष्यन्ति यथापूर्वमक्षयाणि च सत्तम॥१५॥
एवमुक्त्वा ततो राम दशग्रीवं प्रजापतिः।
विभीषणमुवाचेदं प्रणतं भक्तवत्सलः॥१६॥
विभीषण त्वया वत्स कृतं धर्मार्थमुत्तमम्।
तपस्ततो वरं वत्स वृणीष्वाभिमतं हितम्॥१७॥
विभीषणोऽपि तं नत्वा प्राञ्जलिर्वाक्यमब्रवीत्।
देव मे सर्वदा बुद्धिर्धर्मे तिष्ठतु शाश्वती।
मा रोचयत्वधर्मं मे बुद्धिः सर्वत्र सर्वदा॥१८॥
ततः प्रजापतिः प्रीतो विभीषणमथाब्रवीत्।
वत्स त्वं धर्मशीलोऽसि तथैव च भविष्यसि॥१९॥
अयाचितोऽपि ते दास्ये ह्यमरत्वं विभीषण।
कुम्भकर्णमथोवाच वरं वरय सुव्रत॥२०॥
वाण्या व्याप्तोऽथ तं प्राह कुम्भकर्णः पितामहम्।
स्वप्स्यामि देव षण्मासान् दिनमेकं तु भोजनम्॥२१॥
एवमस्त्विति तं प्राह ब्रह्मा दृष्ट्वा दिवौकसः।
सरस्वती च तद्वक्त्रान्निर्गता प्रययौ दिवम्॥२२॥
कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः।
अनभिप्रेतमेवास्यात्किं निर्गतमहो विधिः॥२३॥
सुमाली वरलब्धांस्तान् ज्ञात्वा पौत्रान् निशाचरान्।
पातालान्निर्भयः प्रायात् प्रहस्तादिभिरन्वितः॥२४॥
दशग्रीवं परिष्वज्य वचनं चेदमब्रवीत्।
दिष्ट्या ते पुत्र संवृत्तो वाञ्छितो मे मनोरथः॥२५॥
यद्भयाच्च वयं लङ्कां त्यक्त्वा याता रसातलम्।
तद्गतं नो महाबाहो महद्विष्णुकृतं भयम्॥२६॥
अस्माभिः पूर्वमुषिता लङ्केयं धनदेन ते।
भ्रात्राक्रान्तामिदानीं त्वं प्रत्यानेतुमिहार्हसि॥२७॥
साम्ना वाऽथ बलेनापि राज्ञां बन्धुः कुतः सुहृत्।
इत्युक्तो रावणः प्राह नार्हस्येवं प्रभाषितुम्॥२८॥
वित्तेशो गुरुरस्माकमेवं श्रुत्वा तमब्रवीत्।
प्रहस्तः प्रश्रितं वाक्यं रावणं दशकन्धरम्॥२९॥
शृणु रावण यत्नेन नैवं त्वं वक्तुमर्हसि।
नाधीता राजधर्मास्ते नीतिशास्त्रं तथैव च॥३०॥
शूराणां न हि सौभ्रात्रं शृणु मे वदतः प्रभो।
कश्यपस्य सुता देवा राक्षसाश्च महाबलाः॥३१॥
परस्परमयुध्यन्त त्यक्त्वा सौहृदमायुधैः।
नैवेदानीन्तनं राजन् वैरं देवैरनुष्ठितम्॥३२॥
प्रहस्तस्य वचः श्रुत्वा दशग्रीवो दुरात्मनः।
तथेति क्रोधताम्राक्षस्त्रिकूटाचलमन्वगात्॥३३॥
दूतं प्रहस्तं सम्प्रेष्य निष्कास्य धनदेश्वरम्।
लङ्कामाक्रम्य सचिवै राक्षसैः सुखमास्थितः॥३४॥
धनदः पितृवाक्येन त्यक्त्वा लङ्कां महायशाः।
गत्वा कैलासशिखरं तपसाऽतोषयच्छिवम्॥३५॥
तेन सख्यमनुप्राप्य तेनैव परिपालितः।
अलकां नगरीं तत्र निर्ममे विश्वकर्मणा॥३६॥
दिक्पालत्वं चकारात्र शिवेन परिपालितः।
रावणो राक्षसैः सार्धमभिषिक्तः सहानुजैः॥३७॥
राज्यं चकारासुराणां त्रिलोकीं बाधयन् खलः।
भगिनीं कालखञ्जाय ददौ विकटरूपिणीम्॥३८॥
विद्युज्जिह्वाय नाम्नासौ महामायी निशाचरः।
ततो मयो विश्वकर्मा राक्षसानां दितेः सुतः॥३९॥
सुतां मन्दोदरीं नाम्ना ददौ लोकैकसुन्दरीम्।
रावणाय पुनः शक्तिममोघां प्रीतमानसः॥४०॥
वैरोचनस्य दौहित्रीं वृत्रज्वालेति विश्रुताम्।
स्वयं दत्तामुदवहत्कुम्भकर्णाय रावणः॥४१॥
गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः।
विभीषणस्य भार्यार्थे धर्मज्ञां समुदावहत्॥४२॥
सरमां नाम सुभगां सर्वलक्षणसंयुताम्।
ततो मन्दोदरी पुत्रं मेघनादमजीजनत्॥४३॥
जातमात्रस्तु यो नादं मेघवत्प्रमुमोच ह।
ततः सर्वेऽब्रुवन्मेघनादोऽयमिति चासकृत्॥४४॥
कुम्भकर्णस्ततः प्राह निद्रा मां बाधते प्रभो।
ततश्च कारयामास गुहां दीर्घां सुविस्तराम्॥४५॥
तत्र सुष्वाप मूढात्मा कुम्भकर्णो विघूर्णितः।
निद्रिते कुम्भकर्णे तु रावणो लोकरावणः॥४६॥
ब्राह्मणान् ऋषिमुख्यांश्च देवदानवकिन्नरान्।
देवश्रियो मनुष्यांश्च निजघ्ने समहोरगान्॥४७॥
धनदोऽपि ततः श्रुत्वा रावणस्याक्रमं प्रभुः।
अधर्मं मा कुरुष्वेति दूतवाक्यैर्न्यवारयत्॥४८॥
ततः क्रुद्धो दशग्रीवो जगाम धनदालयम्।
विनिर्जित्य धनाध्यक्षं जहारोत्तमपुष्पकम्॥४९॥
ततो यमं च वरुणं निर्जित्य समरेऽसुरः।
स्वर्गलोकमगात्तूर्णं देवराजजिघांसया॥५०॥
ततोऽभवन्महद्युद्धमिन्द्रेण सह दैवतैः।
ततो रावणमभ्येत्य बबन्ध त्रिदशेश्वरः॥५१॥
तच्छ्रुत्वा सहसाऽऽगत्य मेघनादः प्रतापवन्।
कृत्वा घोरं महद्युद्धं जित्वा त्रिदशपुङ्गवान्॥५२॥
इन्द्रं गृहीत्वा बध्वाऽसौ मेघनादो महाबलः।
मोचयित्वा तु पितरं गृहीत्वेन्द्रं ययौ पुरम्॥५३॥
ब्रह्मा तु मोचयामास देवेन्द्रं मेघनादतः।
दत्त्वा वरान् बहूंस्तस्मै ब्रह्मा स्वभवनं ययौ॥५४॥
रावणो विजयी लोकान् सर्वान् जित्वा क्रमेण तु।
कैलासं तोलयामास बाहुभिः परिघोपमैः॥५५॥
तत्र नन्दीश्वरेणैवं शप्तोऽयं राक्षसेश्वरः।
वानरैर्मानुषैश्चैव नाशं गच्छेति कोपिना॥५६॥
शप्तोऽप्यगणयन् वाक्यं ययौ हैहयपत्तनम्।
तेन बद्धो दशग्रीवः पुलस्त्येन विमोचितः॥५७॥
ततोऽतिबलमासाद्य जिघांसुर्हरिपुङ्गवम्।
धृतस्तेनैव कक्षेण वालिना दशकन्धरः॥५८॥
भ्रामयित्वा तु चतुरः समुद्रान् रावणं हरिः।
विसर्जयामास ततस्तेन सख्यं चकार सः॥५९॥
रावणः परमप्रीत एवं लोकान् महाबलः।
चकार स्ववशे राम बुभुजे स्वयमेव तान्॥६०॥
एवं प्रभावो राजेन्द्र दशग्रीवः सहेन्द्रजित्।
त्वया विनिहतः सङ्ख्ये रावणो लोकरावणः॥६१॥
मेघनादश्च निहतो लक्ष्मणेन महात्मना।
कुम्भकर्णश्च निहतस्त्वया पर्वतसन्निभः॥६२॥
भवान्नारायणः साक्षाज्जगतामादिकृद्विभुः।
त्वत्स्वरूपमिदं सर्वं जगत्स्थावरजङ्गमम्॥६३॥
त्वन्नाभिकमलोत्पन्नो ब्रह्मा लोकपितामहः।
अग्निस्ते मुखतो जातो वाचा सह रघूत्तम॥६४॥
बाहुभ्यां लोकपालौघाश्चक्षुर्भ्यां चन्द्रभास्करौ।
दिशश्च विदिशश्चैव कर्णाभ्यां ते समुत्थिताः॥६५॥
घ्राणात्प्राणः समुत्पन्नश्चाश्विनौ देवसत्तमौ।
जङ्घाजानूरुजघनाद्भुवर्लोकादयोऽभवन्॥६६॥
कुक्षिदेशात्समुत्पन्नाश्चत्वारः सागरा हरे।
स्तनाभ्यामिन्द्रवरुणौ वालखिल्याश्च रेतसः॥६७॥
मेढ्राद्यमो गुदान्मृत्युर्मन्यो रुद्रस्त्रिलोचनः।
अस्थिभ्यः पर्वता जाताः केशेभ्यो मेघसंहतिः॥६८॥
ओषध्यस्तव रोमेभ्यो नखेभ्यश्च खरादयः।
त्वं विश्वरूपः पुरुषो मायाशक्तिसमन्वितः॥६९॥
नानारूप इवाऽऽभासि गुणव्यतिकरे सति।
त्वामाश्रित्यैव विबुधाः पिबन्त्यमृतमध्वरे॥७०॥
त्वया सृष्टमिदं सर्वं विश्वं स्थावरजङ्गमम्।
त्वामाश्रित्यैव जीवन्ति सर्वे स्थावरजङ्गमाः॥७१॥
त्वद्युक्तमखिलं वस्तु व्यवहारेऽपि राघव।
क्षीरमध्यगतं सर्पिर्यथा व्याप्याखिलं पयः॥७२॥
त्वद्भासा भासतेऽर्कादि न त्वं तेनावभाससे।
सर्वगं नित्यमेकं त्वां ज्ञानचक्षुर्विलोकयेत्॥७३॥
नाज्ञानचक्षुस्त्वां पश्येदन्धदृग् भास्करं यथा।
योगिनस्त्वां विचिन्वन्ति स्वदेहे परमेश्वरम्॥७४॥
अतन्निरसनमुखैर्वेदशीर्षैरहर्निशम्।
त्वत्पादभक्तिलेशेन गृहीता यदि योगिनः॥७५॥
विचिन्वन्तो हि पश्यन्ति चिन्मात्रं त्वां न चान्यथा।
मया प्रलपितं किञ्चित्सर्वज्ञस्य तवाग्रतः।
क्षन्तुमर्हसि देवेश तवानुग्रहभागहम्॥७६॥
दिग्देशकालपरिहीनमनन्यमेकं
चिन्मात्रमक्षरमजं चलनादिहीनम्।
सर्वज्ञमीश्वरमनन्तगुणं व्युदस्त-
मायं भजे रघुपतिं भजतामभिन्नम्॥७७॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे द्वितीयः सर्गः॥