प्रथमः सर्गः
श्री-महादेव उवाच
जयति रघुवंशतिलकः कौसल्याहृदयनन्दनो रामः।
दशवदननिधनकारी दाशरथिः पुण्डरीकाक्षः॥१॥
पार्वत्युवाच
अथ रामः किमकरोत्कौसल्यानन्दवर्धनः।
हत्वा मृधे रावणादीन् राक्षसान् भीमविक्रमः॥२॥
अभिषिक्तस्त्वयोध्यायां सीतया सह राघवः।
मायामानुषतां प्राप्य कति वर्षाणि भूतले॥३॥
स्थितवान् लीलया देवः परमात्मा सनातनः।
अत्यजन्मानुषं लोकं कथमन्ते रघूद्वहः॥४॥
एतदाख्याहि भगवन् श्रद्दधत्या मम प्रभो।
कथापीयुषमास्वाद्य तृष्णा मेऽतीव वर्धते।
रामचन्द्रस्य भगवन् ब्रूहि विस्तरशः कथाम्॥५॥
श्री-महादेव उवाच
राक्षसानां वधं कृत्वा राज्ये राम उपस्थिते।
आययुर्मुनयः सर्वे श्रीराममभिवन्दितुम्॥६॥
विश्वामित्रोऽसितः कण्वो दुर्वासा भृगुरङ्गिराः।
कश्यपो वामदेवोऽत्रिस्तथा सप्तर्षयोऽमलाः॥७॥
अगस्त्यः सह शिष्यैश्च मुनिभिः सहितोऽभ्यगात्।
द्वारमासाद्य रामस्य द्वारपालमथाब्रवीत्॥८॥
ब्रूहि रामाय मुनयः समागत्य बहिःस्थिताः।
अगस्त्यप्रमुखाः सर्वे आशीर्भिरभिनन्दितुम्॥९॥
प्रतीहारस्ततो राममगस्त्यवचनाद् द्रुतम्।
नमस्कृत्याब्रवीद् वाक्यं विनयावनतः प्रभुम्॥१०॥
कृताञ्जलिरुवाचेदमगस्त्यो मुनिभिः सह।
देव त्वद्दर्शनार्थाय प्राप्तो बहिरुपस्थितः॥११॥
तमुवाच द्वारपालं प्रवेशय यथासुखम्।
पूजिता विविशुर्वेश्म नानारत्नविभूषितम्॥१२॥
दृष्ट्वा रामो मुनीन् शीघ्रं प्रत्युत्थाय कृताञ्जलिः।
पाद्यार्घ्यादिभिरापूज्य गां निवेद्य यथाविधि॥१३॥
नत्वा तेभ्यो ददौ दिव्यान्यासनानि यथार्हतः।
उपविष्टा प्रहृष्टाश्च मुनयो रामपूजिताः॥१४॥
सम्पृष्टकुशलाः सर्वे रामं कुशलमब्रुवन्।
कुशलं ते महाबाहो सर्वत्र रघुनन्दन॥१५॥
दिष्ट्येदानीं प्रपश्यामो हतशत्रुमरिन्दम।
न हि भारः स ते राम रावणो राक्षसेश्वरः॥१६॥
सधनुस्त्वं हि लोकांस्त्रीन् विजेतुं शक्त एव हि।
दिष्ट्या त्वया हताः सर्वे राक्षसा रावणादयः॥१७॥
सह्यमेतन्महाबाहो रावणस्य निबर्हणम्।
असह्यमेतत्सम्प्राप्तं रावणेर्यन्निषूदनम्॥१८॥
अन्तकप्रतिमाः सर्वे कुम्भकर्णादयो मृधे।
अन्तकप्रतिमैर्बाणैर्हतास्ते रघुसत्तम॥१९॥
दत्ता चेयं त्वयाऽस्माकं पुरा ह्यभयदक्षिणा।
हत्वा रक्षोगणान् सङ्ख्ये कृतकृत्योऽद्य जीवसि॥२०॥
श्रुत्वा तु भाषितं तेषां मुनीनां भावितात्मनाम्।
विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत्॥२१॥
रावणादीनतिक्रम्य कुम्भकर्णादिराक्षसान्।
त्रिलोकजयिनो हित्वा किं प्रशंसथ रावणिम्॥२२॥
ततस्तद्वचनं श्रुत्वा राघवस्य महात्मनः।
कुम्भयोनिर्महातेजा रामं प्रीत्या वचोऽब्रवीत्॥२३॥
शृणु राम यथा वृत्तं रावणे रावणस्य च।
जन्म कर्म वरादानं सङ्क्षेपाद्वदतो मम॥२४॥
पुरा कृतयुगे राम पुलस्त्यो ब्रह्मणः सुतः।
तपस्तप्तुं गतो विद्वान् मेरोः पार्श्वं महामतिः॥२५॥
तृणबिन्दोराश्रमेऽसौ न्यवसन्मुनिपुङ्गवः।
तपस्तेपे महातेजाः स्वाध्यायनिरतः सदा॥२६॥
तत्राऽऽश्रमे महारम्ये देवगन्धर्वकन्यकाः।
गायन्त्यो ननृतुस्तत्र हसन्त्यो वादयन्ति च॥२७॥
पुलस्त्यस्य तपोविघ्नं चक्रुः सर्वा अनिन्दिताः।
ततः क्रुद्धो महातेजा व्याजहार वचो महत्॥२८॥
या मे दृष्टिपथं गच्छेत् सा गर्भं धारयिष्यति।
ताः सर्वाः शापसंविग्ना न तं देशं प्रचक्रमुः॥२९॥
तृणबिन्दोस्तु राजर्षेः कन्या तन्नाशृणोद्वचः।
विचचार मुनेरग्रे निर्भया तं प्रपश्यती॥३०॥
बभूव पाण्डुरतनुर्व्यञ्जितान्तःशरीरजा।
दृष्ट्वा सा देहवैवर्ण्यं भीता पितरमन्वगात्॥३१॥
तृणबिन्दुश्च तां दृष्ट्वा राजर्षिरमितद्युतिः।
ध्यात्वा मुनिकृतं सर्वमवैद्विज्ञानचक्षुषा॥३२॥
तां कन्यां मुनिवर्याय पुलस्त्याय ददौ पिता।
तां प्रगृह्याब्रवीत्कन्यां बाढमित्येव स द्विजः॥३३॥
शुश्रूषणपरां दृष्ट्वा मुनिः प्रीतोऽब्रवीद् वचः।
दास्यामि पुत्रमेकं ते उभयोर्वंशवर्धनम्॥३४॥
ततः प्रासूत सा पुत्रं पुलस्त्याल्लोकविश्रुतम्।
विश्रवा इति विख्यातः पौलस्त्यो ब्रह्मविन्मुनिः॥३५॥
तस्य शीलादिकं दृष्ट्वा भरद्वाजो महामुनिः।
भार्यार्थं स्वां दुहितरं ददौ विश्रवसे मुदा॥३६॥
तस्यां तु पुत्रः सञ्जज्ञे पौलस्त्याल्लोकसम्मतः।
पितृतुल्यो वैश्रवणो ब्रह्मणा चानुमोदितः॥३७॥
ददौ तत्तपसा तुष्टो ब्रह्मा तस्मै वरं शुभम्।
मनोऽभिलषितं तस्य धनेशत्वमखण्डितम्॥३८॥
ततो लब्धवरः सोऽपि पितरं द्रष्टुमागतः।
पुष्पकेण धनाध्यक्षो ब्रह्मदत्तेन भास्वता॥३९॥
नमस्कृत्याथ पितरं निवेद्य तपसः फलम्।
प्राह मे भगवान् ब्रह्मा दत्त्वा वरमनिन्दितम्॥४०॥
निवासाय न मे स्थानं दत्तवान् परमेश्वरः।
ब्रूहि मे नियतं स्थानं हिंसा यत्र न कस्यचित्॥४१॥
विश्रवा अपि तं प्राह लङ्कानाम पुरी शुभा।
राक्षसानां निवासाय निर्मिता विश्वकर्मणा॥४२॥
त्यक्त्वा विष्णुभयाद्दैत्या विविशुस्ते रसातलम्।
सा पुरी दुष्प्रधर्षान्यैर्मध्येसागरमास्थिता॥४३॥
तत्र वासाय गच्छ त्वं नान्यैः साधिष्ठिता पुरा।
पित्रादिष्टस्त्वसौ गत्वा तां पुरीं धनदोऽविशत्॥४४॥
स तत्र सुचिरं कालमुवास पितृसम्मतः।
कस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः॥४५॥
रसातलान्मर्त्यलोकं चचार पिशिताशनः।
गृहीत्वा तनयां कन्यां साक्षाद् देवीमिव श्रियम्॥४६॥
अपश्यद्धनदं देवं चरन्तं पुष्पकेण सः।
हिताय चिन्तयामास राक्षसानां महामनाः॥४७॥
उवाच तनयां तत्र कैकसीं नाम नामतः।
वत्से विवाहकालस्ते यौवनं चातिवर्तते॥४८॥
प्रत्याख्यानाच्च भीतैस्त्वं न वरैर्गृह्यसे शुभे।
सा त्वं वरय भद्रं ते मुनिं ब्रह्मकुलोद्भवम्॥४९॥
स्वयमेव ततः पुत्रा भविष्यन्ति महाबलाः।
ईदृशाः सर्वशोभाढ्या धनदेन समाः शुभे॥५०॥
तथेति साऽऽश्रमं गत्वा मुनेरग्रे व्यवस्थिता।
लिखन्ती भुवमग्रेण पादेनाधोमुखी स्थिता॥५१॥
तामपृच्छन्मुनिः का त्वं कन्याऽसि वरवर्णिनि।
साऽब्रवीत्प्राञ्जलिर्ब्रह्मन् ध्यानेन ज्ञातुमर्हसि॥५२॥
ततो ध्यात्वा मुनिः सर्वं ज्ञात्वा तां प्रत्यभाषत।
ज्ञातं तवाभिलषितं मत्तः पुत्रानभीप्स्यसि॥५३॥
दारुणायां तु वेलायामागताऽसि सुमध्यमे।
अतस्ते दारुणौ पुत्रौ राक्षसौ सम्भविष्यतः॥५४॥
साऽब्रवीन्मुनिशार्दूल त्वत्तोऽप्येवंविधौ सुतौ।
तामाह पश्चिमो यस्ते भविष्यति महामतिः॥५५॥
महाभागवतः श्रीमान् रामभक्त्येकतत्परः।
इत्युक्ता सा तथा काले सुषुवे दशकन्धरम्॥५६॥
रावणं विंशतिभुजं दशशीर्षं सुदारुणम्।
तद्रक्षोजातमात्रेण चचाल च वसुन्धरा॥५७॥
बभूवुर्नाशहेतूनि निमित्तान्यखिलान्यपि।
कुम्भकर्णस्ततो जातो महापर्वतसन्निभः॥५८॥
ततः शूर्पणखा नाम जाता रावणसोदरी।
ततो विभीषणो जातः शान्तात्मा सौम्यदर्शनः॥५९॥
स्वाध्यायी नियताहारो नित्यकर्मपरायणः।
कुम्भकर्णस्तु दुष्टात्मा द्विजान् सन्तुष्टचेतसः॥६०॥
भक्षयन्नृषिसङ्घांश्च विचचारातिदारुणः।
रावणोऽपि महासत्त्वो लोकानां भयदायकः।
ववृधे लोकनाशाय ह्यामयो देहिनामिव॥६१॥
राम त्वं सकलान्तरस्थमभितो जानासि विज्ञानदृक्
साक्षी सर्वहृदि स्थितो हि परमो नित्योदितो निर्मलः।
त्वं लीलामनुजाकृतिः स्वमहिमन् मायागुणैर्नाज्यसे
लीलार्थं प्रतिचोदितोऽद्य भवता वक्ष्यामि रक्षोद्भवम्॥६२॥
जानामि केवलमनन्तमचिन्त्यशक्तिं
चिन्मात्रमक्षरमजं विदितात्मतत्त्वम्।
त्वां राम गूढनिजरूपमनुप्रवृत्तो
मूढोऽप्यहं भवदनुग्रहतश्चरामि॥६३॥
एवं वदन्तमिनवंशपवित्रकीर्तिः
कुम्भोद्भवं रघुपतिः प्रहसन् बभाषे।
मायाश्रितं सकलमेतदनन्यकत्वात्
मत्कीर्तनं जगति पापहरं निबोध॥६४॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे प्रथमः सर्गः॥
❀