पञ्चमः सर्गः
श्री-महादेव उवाच
ततः सीतां नमस्कृत्य हनूमानब्रवीद् वचः।
आज्ञापयतु मां देवि भवती रामसन्निधिम्॥१॥
गच्छामि रामस्त्वां द्रष्टुमागमिष्यति सानुजः।
इत्युक्त्वा त्रिःपरिक्रम्य जानकीं मारुतात्मजः॥२॥
प्रणम्य प्रस्थितो गन्तुमिदं वचनमब्रवीत्।
देवि गच्छामि भद्रं ते तूर्णं द्रक्ष्यसि राघवम्॥३॥
लक्ष्मणं च ससुग्रीवं वानरायुतकोटिभिः।
ततः प्राह हनूमन्तं जानकी दुःखकर्शिता॥४॥
त्वां दृष्ट्वा विस्मृतं दुःखमिदानीं त्वं गमिष्यसि।
इतः परं कथं वर्ते रामवार्ताश्रुतिं विना॥५॥
मारुतिरुवाच
यद्येवं देवि मे स्कन्धमारोह क्षणमात्रतः।
रामेण योजयिष्यामि मन्यसे यदि जानकि॥६॥
सीतोवाच
रामः सागरमाशोष्य बद्ध्वा वा शरपञ्जरैः।
आगत्य वानरैः सार्धं हत्वा रावणमाहवे॥७॥
मां नयेद्यदि रामस्य कीर्तिर्भवति शाश्वती।
अतो गच्छ कथं चापि प्राणान् सन्धारयाम्यहम्॥८॥
इति प्रस्थापितो वीरः सीतया प्रणिपत्य ताम्।
जगाम पर्वतस्याग्रे गन्तुं पारं महोदधेः॥९॥
तत्र गत्वा महासत्त्वः पादाभ्यां पीडयन् गिरिम्।
जगाम वायुवेगेन पर्वतश्च महीतलम्॥१०॥
गतो महीसमानत्वं त्रिंशद्योजनमुच्छ्रितः।
मारुतिर्गगनान्तःस्थो महाशब्दं चकार सः॥११॥
तं श्रुत्वा वानराः सर्वे ज्ञात्वा मारुतिमागतम्।
हर्षेण महताऽऽविष्टाः शब्दं चक्रुर्महास्वनम्॥१२॥
शब्देनैव विजानीमः कृतकार्यः समागतः।
हनूमानेव पश्यध्वं वानरा वानरर्षभम्॥१३॥
एवं ब्रुवत्सु वीरेषु वानरेषु स मारुतिः।
अवतीर्य गिरेर्मूर्ध्नि वानरानिदमब्रवीत्॥१४॥
दृष्टा सीता मया लङ्का धर्षिता च सकानना।
सम्भाषितो दशग्रीवस्ततोऽहं पुनरागतः॥१५॥
इदानीमेव गच्छामो रामसुग्रीवसन्निधिम्।
इत्युक्ता वानराः सर्वे हर्षेणालिङ्ग्य मारुतिम्॥१६॥
केचिच्चुचुम्बुर्लाङ्गूलं ननृतुः केचिदुत्सुकाः।
हनूमता समेतास्ते जग्मुः प्रस्रवणं गिरिम्॥१७॥
गच्छन्तो ददृशुर्वीरा वनं सुग्रीवरक्षितम्।
मधुसंज्ञं तदा प्राहुरङ्गदं वानरर्षभाः॥१८॥
क्षुधिताः स्मो वयं वीर देह्यनुज्ञां महामते।
भक्षयामः फलान्यद्य पिबामोऽमृतवन्मधु॥१९॥
सन्तुष्टा राघवं द्रष्टुं गच्छामोऽद्यैव सानुजम्॥२०॥
अङ्गद उवाच
हनुमान् कृतकार्योऽयं पिबतैतत्प्रसादतः।
जक्षध्वं फलमूलानि त्वरितं हरिसत्तमाः॥२१॥
ततः प्रविश्य हरयः पातुमारेभिरे मधु।
रक्षिणस्ताननादृत्य दधिवक्त्रेण नोदितान्॥२२॥
पिबतस्ताडयामासुर्वानरान् वानरर्षभाः।
ततस्तान् मुष्टिभिः पादैश्चूर्णयित्वा पपुर्मधु॥२३॥
ततो दधिमुखः क्रुद्धः सुग्रीवस्य स मातुलः।
जगाम रक्षिभिः सार्धं यत्र राजा कपीश्वरः॥२४॥
गत्वा तमब्रवीद् देव चिरकालाभिरक्षितम्।
नष्टं मधुवनं तेऽद्य कुमारेण हनूमता॥२५॥
श्रुत्वा दधिमुखेनोक्तं सुग्रीवो हृष्टमानसः।
दृष्ट्वाऽऽगतो न सन्देहः सीतां पवननन्दनः॥२६॥
नो चेन्मधुवनं द्रष्टुं समर्थः को भवेन्मम।
तत्रापि वायुपुत्रेण कृतं कार्यं न संशयः॥२७॥
श्रुत्वा सुग्रीववचनं हृष्टो रामस्तमब्रवीत्।
किमुच्यते त्वया राजन् वचः सीताकथान्वितम्॥२८॥
सुग्रीवस्त्वब्रवीद् वाक्यं देव दृष्टाऽवनीसुता।
हनुमत्प्रमुखाः सर्वे प्रविष्टा मधुकाननम्॥२९॥
भक्षयन्ति स्म सकलं ताडयन्ति स्म रक्षिणः।
अकृत्वा देवकार्यं ते द्रष्टुं मधुवनं मम॥३०॥
न समर्थास्ततो देवी दृष्टा सीतेति निश्चितम्।
रक्षिणो वो भयं माऽस्तु गत्वा ब्रूत ममाऽऽज्ञया॥३१॥
वानरानङ्गदमुखानानयध्वं ममान्तिकम्।
श्रुत्वा सुग्रीववचनं गत्वा ते वायुवेगतः॥३२॥
हनूमत्प्रमुखानूचुर्गच्छतेश्वरशासनात्।
द्रष्टुमिच्छति सुग्रीवः सरामो लक्ष्मणान्वितः॥३३॥
युष्मानतीव हृष्टास्ते त्वरयन्ति महाबलाः।
तथेत्यम्बरमासाद्य ययुस्ते वानरोत्तमाः॥३४॥
हनूमन्तं पुरस्कृत्य युवराजं तथाऽङ्गदम्।
रामसुग्रीवयोरग्रे निपेतुर्भुवि सत्वरम्॥३५॥
हनुमान् राघवं प्राह दृष्टा सीता निरामया।
साष्टाङ्गं प्रणिपत्याग्रे रामं पश्चाद्धरीश्वरम्॥३६॥
कुशलं प्राह राजेन्द्र जानकी त्वां शुचान्विता।
अशोकवनिकामध्ये शिंशपामूलमाश्रिता॥३७॥
राक्षसीभिः परिवृता निराहारा कृशा प्रभो।
हा राम राम रामेति शोचन्ती मलिनाम्बरा॥३८॥
एकवेणी मया दृष्टा शनैराश्वासिता शुभा।
वृक्षशाखान्तरे स्थित्वा सूक्ष्मरूपेण ते कथाम्॥३९॥
जन्मारभ्य तवात्यर्थं दण्डकागमनं तथा।
दशाननेन हरणं जानक्या रहिते त्वयि॥४०॥
सुग्रीवेण यथा मैत्री कृत्वा वालिनिबर्हणम्।
मार्गणार्थं च वैदेह्या सुग्रीवेण विसर्जिताः॥४१॥
महाबला महासत्त्वा हरयो जितकाशिनः।
गताः सर्वत्र सर्वे वै तत्रैकोऽहमिहागतः॥४२॥
अहं सुग्रीवसचिवो दासोऽहं राघवस्य हि।
दृष्टा यज्जानकी भाग्यात्प्रयासः फलितोऽद्य मे॥४३॥
इत्युदीरितमाकर्ण्य सीता विस्फारितेक्षणा।
केन वा कर्णपीयुषं श्रावितं मे शुभाक्षरम्॥४४॥
यदि सत्यं तदायातु मद्दर्शनपथं तु सः।
ततोऽहं वानराकारः सूक्ष्मरूपेण जानकीम्॥४५॥
प्रणम्य प्राञ्जलिर्भूत्वा दूरादेव स्थितः प्रभो।
पृष्टोऽहं सीतया कस्त्वमित्यादि बहुविस्तरम्॥४६॥
मया सर्वं क्रमेणैव विज्ञापितमरिन्दम।
पश्चान्मयाऽर्पितं देव्यै भवद्दत्ताङ्गुलीयकम्॥४७॥
तेन मामतिविश्वस्ता वचनं चेदमब्रवीत्।
यथा दृष्टाऽस्मि हनुमन् पीड्यमाना दिवानिशम्॥४८॥
राक्षसीनां तर्जनैस्तत्सर्वं कथय राघवे।
मयोक्तं देवि रामोऽपि त्वच्चिन्तापरिनिष्ठितः॥४९॥
परिशोचत्यहोरात्रं त्वद्वार्तां नाधिगम्य सः।
इदानीमेव गत्वाऽहं स्थितिं रामाय ते ब्रुवे॥५०॥
रामः श्रवणमात्रेण सुग्रीवेण सलक्ष्मणः।
वानरानीकपैः सार्धमागमिष्यति तेऽन्तिकम्॥५१॥
रावणं सकुलं हत्वा नेष्यति त्वां स्वकं पुरम्।
अभिज्ञां देहि मे देवि यथा मां विश्वसेद्विभुः॥५२॥
इत्युक्ता सा शिरोरत्नं चूडापाशे स्थितं प्रियम्।
दत्त्वा काकेन यद्वृत्तं चित्रकूटगिरौ पुरा॥५३॥
तदप्याहाश्रुपूर्णाक्षी कुशलं ब्रूहि राघवम्।
लक्ष्मणं ब्रूहि मे किञ्चिद् दुरुक्तं भाषितं पुरा॥५४॥
तत्क्षमस्वाज्ञभावेन भाषितं कुलनन्दन।
तारयेन्मां यथा रामस्तथा कुरु कृपान्वितः॥५५॥
इत्युक्त्वा रुदती सीता दुःखेन महताऽऽवृता।
मयाऽप्याश्वासिता राम वदता सर्वमेव ते॥५६॥
ततः प्रस्थापितो राम त्वत्समीपमिहागतः।
तदागमनवेलायामशोकवनिकां प्रियाम्॥५७॥
उत्पाट्य राक्षसांस्तत्र बहून् हत्वा क्षणादहम्।
रावणस्य सुतं हत्वा रावणेनाभिभाष्य च॥५८॥
लङ्कामशेषतो दग्ध्वा पुनरप्यागमं क्षणात्।
श्रुत्वा हनूमतो वाक्यं रामोऽत्यन्तप्रहृष्टधीः॥५९॥
हनूमंस्ते कृतं कार्यं देवैरपि सुदुष्करम्।
उपकारं न पश्यामि तव प्रत्युपकारिणः॥६०॥
इदानीं ते प्रयच्छामि सर्वस्वं मम मारुते।
इत्यालिङ्ग्य समाकृष्य गाढं वानरपुङ्गवम्॥६१॥
सार्द्रनेत्रो रघुश्रेष्ठः परां प्रीतिमवाप सः।
हनूमन्तमुवाचेदं राघवो भक्तवत्सलः॥६२॥
परिरम्भो हि मे लोके दुर्लभः परमात्मनः।
अतस्त्वं मम भक्तोऽसि प्रियोऽसि हरिपुङ्गव॥६३॥
यत्पादपद्मयुगलं तुलसीदलाद्यैः
सम्पूज्य विष्णुपदवीमतुलां प्रयान्ति।
तेनैव किं पुनरसौ परिरब्धमूर्ती
रामेण वायुतनयः कृतपुण्यपुञ्जः॥६४॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे सुन्दरकाण्डे पञ्चमः सर्गः॥
❀
इति श्रीमदध्यात्मरामायणे सुन्दरकाण्डः समाप्तः॥
❀ ❀ ❀