चतुर्थः सर्गः

श्री-महादेव उवाच

यान्तं कपीन्द्रं धृतपाशबन्धनं
विलोकयन्तं नगरं विभीतवत्।
अताडयन्मुष्टितलैः सुकोपनाः
पौराः समन्तादनुयान्त ईक्षितुम्॥१॥
ब्रह्मास्त्रमेनं क्षणमात्रसङ्गमं
कृत्वा गतं ब्रह्मवरेण सत्वरम्।
ज्ञात्वा हनूमानपि फल्गुरज्जुभिः
धृतो ययौ कार्यविशेषगौरवात्॥२॥
सभान्तरस्थस्य च रावणस्य तं
पुरो निधायाऽऽह बलारिजित्तदा।
बद्धो मया ब्रह्मवरेण वानरः
समागतोऽनेन हता महासुराः॥३॥
यदुक्तमत्रार्य विचार्य मन्त्रिभिः
विधीयतामेष न लौकिको हरिः।
ततो विलोक्याऽऽह स राक्षसेश्वरः
प्रहस्तमग्रे स्थितमञ्जनाद्रिभम्॥४॥
प्रहस्त पृच्छैनमसौ किमागतः
किमत्र कार्यं कुत एव वानरः।
वनं किमर्थं सकलं विनाशितं
हताः किमर्थं मम राक्षसा बलात्॥५॥
ततः प्रहस्तो हनुमन्तमादरात्
पप्रच्छ केन प्रहितोऽसि वानर।
भयं च ते माऽस्तु विमोक्ष्यसे मया
सत्यं वदस्वाखिलराजसन्निधौ॥६॥
ततोऽतिहर्षात्पवनात्मजो रिपुं
निरीक्ष्य लोकत्रयकण्टकासुरम्।
वक्तुं प्रचक्रे रघुनाथसत्कथां
क्रमेण रामं मनसा स्मरन्मुहुः॥७॥
शृणु स्फुटं देवगणाद्यमित्र हे
रामस्य दूतोऽहमशेषहृत्स्थितेः।
यस्याखिलेशस्य हृताऽधुना त्वया
भार्या स्वनाशाय शुनेव सद्धविः॥८॥
स राघवोऽभ्येत्य मतङ्गपर्वतं
सुग्रीवमैत्रीमनलस्य सन्निधौ।
कृत्वैकबाणेन निहत्य वालिनं
सुग्रीवमेवाधिपतिं चकार तम्॥९॥
स वानराणामधिपो महाबली
महाबलैर्वानरयूथकोटिभिः।
रामेण सार्धं सह लक्ष्मणेन भोः
प्रवर्षणेऽमर्षयुतोऽवतिष्ठते॥१०॥
सञ्चोदितास्तेन महाहरीश्वरा
धरासुतां मार्गयितुं दिशो दश।
तत्राहमेकः पवनात्मजः कपिः
सीतां विचिन्वन् शनकैः समागतः॥११॥
दृष्टा मया पद्मपलाशलोचना
सीता कपित्वाद्विपिनं विनाशितम्।
दृष्ट्वा ततोऽहं रभसा समागतान्
मां हन्तुकामान् धृतचापसायकान्॥१२॥
मया हतास्ते परिरक्षितं वपुः
प्रियो हि देहोऽखिलदेहिनां प्रभो।
ब्रह्मास्त्रपाशेन निबध्य मां ततः
समागमन्मेघनिनादनामकः॥१३॥
स्पृष्ट्वैव मां ब्रह्मवरप्रभावतः
त्यक्त्वा गतं सर्वमवैमि रावण।
तथाऽप्यहं बद्ध इवाऽऽगतो हितं
प्रवक्तुकामः करुणारसार्द्रधीः॥१४॥
विचार्य लोकस्य विवेकतो गतिं
न राक्षसीं बुद्धिमुपैहि रावण।
दैवीं गतिं संसृतिमोक्षहैतुकीं
समाश्रयात्यन्तहिताय देहिनः॥१५॥
त्वं ब्रह्मणो ह्युत्तमवंशसम्भवः
पौलस्त्यपुत्रोऽसि कुबेरबान्धवः।
देहात्मबुद्ध्याऽपि च पश्य राक्षसो
नास्यात्मबुद्ध्या किमु राक्षसो नहि॥१६॥
शरीरबुद्धीन्द्रियदुःखसन्ततिः
न ते न च त्वं तव निर्विकारतः।
अज्ञानहेतोश्च तथैव सन्ततेः
असत्त्वमस्याः स्वपतो हि दृश्यवत्॥१७॥
इदं तु सत्यं तव नास्ति विक्रिया
विकारहेतुर्न च तेऽद्वयत्वतः।
यथा नभः सर्वगतं न लिप्यते
तथा भवान् देहगतोऽपि सूक्ष्मकः॥१८॥
देहेन्द्रियप्राणशरीरसङ्गतः
त्वात्मेति बद्ध्वाखिलबन्धभाग्भवेत्।
चिन्मात्रमेवाहमजोऽहमक्षरो
ह्यानन्दभावोऽहमिति प्रमुच्यते॥१९॥
देहोऽप्यनात्मा पृथिवीविकारजो
न प्राण आत्माऽनिल एष एव सः।
मनोऽप्यहङ्कारविकार एव नो
न चापि बुद्धिः प्रकृतेर्विकारजा॥२०॥
आत्मा चिदानन्दमयोऽविकारवान्
देहादिसङ्घाद्व्यतिरिक्त ईश्वरः।
निरञ्जनो मुक्त उपाधितः सदा
ज्ञात्वैवमात्मानमितो विमुच्यते॥२१॥
अतोऽहमात्यन्तिकमोक्षसाधनं
वक्ष्ये शृणुष्वावहितो महामते।
विष्णोर्हि भक्तिः सुविशोधनं धियः
ततो भवेज्ज्ञानमतीव निर्मलम्॥२२॥
विशुद्धतत्त्वानुभवो भवेत्ततः
सम्यग्विदित्वा परमं पदं व्रजेत्।
अतो भजस्वाद्य हरिं रमापतिं
रामं पुराणं प्रकृतेः परं विभुम्॥२३॥
विसृज्य मौर्ख्यं हृदि शत्रुभावनां
भजस्व रामं शरणागतप्रियम्।
सीतां पुरस्कृत्य सपुत्रबान्धवो
रामं नमस्कृत्य विमुच्यसे भयात्॥२४॥
रामं परात्मानमभावयन् जनो
भक्त्या हृदिस्थं सुखरूपमद्वयम्।
कथं परं तीरमवाप्नुयाज्जनो
भवाम्बुधेर्दुःखतरङ्गमालिनः॥२५॥
नो चेत्त्वमज्ञानमयेन वह्निना
ज्वलन्तमात्मानमरक्षितारिवत्।
नयस्यधोऽधः स्वकृतैश्च पातकैः
विमोक्षशङ्का न च ते भविष्यति॥२६॥
श्रुत्वाऽमृतास्वादसमानभाषितं
तद् वायुसूनोर्दशकन्धरोऽसुरः।
अमृष्यमाणोऽतिरुषा कपीश्वरं
जगाद रक्तान्तविलोचनो ज्वलन्॥२७॥
कथं ममाग्रे विलपस्यभीतवत्
प्लवङ्गमानामधमोऽसि दुष्टधीः।
क एष रामः कतमो वनेचरो
निहन्मि सुग्रीवयुतं नराधमम्॥२८॥
त्वां चाद्य हत्वा जनकात्मजां ततो
निहन्मि रामं सहलक्ष्मणं ततः।
सुग्रीवमग्रे बलिनं कपीश्वरं
सवानरं हन्म्यचिरेण वानर॥२९॥
श्रुत्वा दशग्रीववचः स मारुतिः
विवृद्धकोपेन दहन्निवासुरम्।
न मे समा रावणकोटयोऽधम
रामस्य दासोऽहमपारविक्रमः॥३०॥
श्रुत्वाऽतिकोपेन हनूमतो वचो
दशाननो राक्षसमेवमब्रवीत्।
पार्श्वे स्थितं मारय खण्डशः कपिं
पश्यन्तु सर्वेऽसुरमित्रबान्धवाः॥३१॥
निवारयामास ततो विभीषणो
महासुरं सायुधमुद्यतं वधे।
राजन् वधार्हो न भवेत्कथञ्चन
प्रतापयुक्तैः परराजवानरः॥३२॥
हतेऽस्मिन् वानरे दूते वार्ता को वा निवेदयेत्।
रामाय त्वं यमुद्दिश्य वधाय समुपस्थितः॥३३॥
अतो वधसमं किञ्चिदन्यच्चिन्तय वानरे।
सचिह्नो गच्छतु हरिर्यं दृष्ट्वाऽऽयास्यति द्रुतम्॥३४॥
रामः सुग्रीवसहितस्ततो युद्धं भवेत् तव।
विभीषणवचः श्रुत्वा रावणोऽप्येतदब्रवीत्॥३५॥
वानराणां हि लाङ्गूले महामानो भवेत्किल।
अतो वस्त्रादिभिः पुच्छं वेष्टयित्वा प्रयत्नतः॥३६॥
वह्निना योजयित्वैनं भ्रामयित्वा पुरेऽभितः।
विसर्जयत पश्यन्तु सर्वे वानरयूथपाः॥३७॥
तथेति शणपट्टैश्च वस्त्रैरन्यैरनेकशः।
तैलाक्तैर्वेष्टयामासुर्लाङ्गूलं मारुतेर्दृढम्॥३८॥
पुच्छाग्रे किञ्चिदनलं दीपयित्वाऽथ राक्षसाः।
रज्जुभिः सुदृढं बद्ध्वा धृत्वा तं बलिनोऽसुराः॥३९॥
समन्ताद्भ्रामयामासुश्चोरोऽयमिति वादिनः।
तूर्यघोषैर्घोषयन्तस्ताडयन्तो मुहुर्मुहुः॥४०॥
हनूमताऽपि तत्सर्वं सोढं किञ्चिच्चिकीर्षुणा।
गत्वा तु पश्चिमद्वारसमीपं तत्र मारुतिः॥४१॥
सूक्ष्मो बभूव बन्धेभ्यो निःसृतः पुनरप्यसौ।
बभूव पर्वताकारस्तत उत्प्लुत्य गोपुरम्॥४२॥
तत्रैकं स्तम्भमादाय हत्वा तान् रक्षिणः क्षणात्।
विचार्य कार्यशेषं स प्रासादाग्राद्गृहाद्गृहम्॥४३॥
उत्प्लुत्योप्लुत्य सन्दीप्तपुच्छेन महता कपिः।
ददाह लङ्कामखिलां साट्टप्रासादतोरणाम्॥४४॥
हा तात पुत्र नाथेति क्रन्दमानाः समन्ततः।
व्याप्ताः प्रासादशिखरेऽप्यारूढा दैत्ययोषितः॥४५॥
देवता इव दृश्यन्ते पतन्त्यः पावकेऽखिलाः।
विभीषणगृहं त्यक्त्वा सर्वं भस्मीकृतं पुरम्॥४६॥
तत उत्प्लुत्य जलधौ हनुमान्मारुतात्मजः।
लाङ्गूलं मज्जयित्वाऽन्तः स्वस्थचित्तो बभूव सः॥४७॥
वायोः प्रियसखित्वाच्च सीतया प्रार्थितोऽनलः।
न ददाह हरेः पुच्छं बभूवात्यन्तशीतलः॥४८॥
यन्नामसंस्मरणधूतसमस्तपापाः
तापत्रयानलमपीह तरन्ति सद्यः।
तस्यैव किं रघुवरस्य विशिष्टदूतः
सन्तप्यते कथमसौ प्रकृताऽनलेन॥४९॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे सुन्दरकाण्डे चतुर्थः सर्गः॥