तृतीयः सर्गः

श्री-महादेव उवाच

उद्बन्धनेन वा मोक्ष्ये शरीरं राघवं विना।
जीवितेन फलं किं स्यान्मम रक्षोऽधिमध्यतः॥१॥
दीर्घा वेणी ममात्यर्थमुद्बन्धाय भविष्यति।
एवं निश्चितबुद्धिं तां मरणायाथ जानकीम्॥२॥
विलोक्य हनुमान् किञ्चिद् विचार्यैतदभाषत।
शनैः शनैः सूक्ष्मरूपो जानक्याः श्रोत्रगं वचः॥३॥
इक्ष्वाकुवंशसम्भूतो राजा दशरथो महान्।
अयोध्याधिपतिस्तस्य चत्वारो लोकविश्रुताः॥४॥
पुत्रा देवसमाः सर्वे लक्षणैरुपलक्षिताः।
रामश्च लक्ष्मणश्चैव भरतश्चैव शत्रुहा॥५॥
ज्येष्ठो रामः पितुर्वाक्याद् दण्डकारण्यमागतः।
लक्ष्मणेन सह भ्रात्रा सीतया भार्यया सह॥६॥
उवास गौतमीतीरे पञ्चवट्यां महामनाः।
तत्र नीता महाभागा सीता जनकनन्दिनी॥७॥
रहिते रामचन्द्रेण रावणेन दुरात्मना।
ततो रामोऽतिदुःखार्तो मार्गमाणोऽथ जानकीम्॥८॥
जटायुषं पक्षिराजमपश्यत् पतितं भुवि।
तस्मै दत्त्वा दिवं शीघ्रमृष्यमूकमुपागमत्॥९॥
सुग्रीवेण कृता मैत्री रामस्य विदितात्मनः।
तद्भार्याहारिणं हत्वा वालिनं रघुनन्दनः॥१०॥
राज्येऽभिषिच्य सुग्रीवं मित्रकार्यं चकार सः।
सुग्रीवस्तु समानाय्य वानरान् वानरप्रभुः॥११॥
प्रेषयामास परितो वानरान् परिमार्गणे।
सीतायास्तत्र चैकोऽहं सुग्रीवसचिवो हरिः॥१२॥
सम्पातिवचनाच्छीघ्रमुल्लङ्घ्य शतयोजनम्।
समुद्रं नगरीं लङ्कां विचिन्वन् जानकीं शुभाम्॥१३॥
शनैरशोकवनिकां विचिन्वन् शिंशपातरुम्।
अद्राक्षं जानकीमत्र शोचन्तीं दुःखसम्प्लुताम्॥१४॥
रामस्य महिषीं देवीं कृतकृत्योऽहमागतः।
इत्युक्त्वोपररामाथ मारुतिर्बुद्धिमत्तरः॥१५॥
सीता क्रमेण तत्सर्वं श्रुत्वा विस्मयमाययौ।
किमिदं मे श्रुतं व्योम्नि वायुना समुदीरितम्॥१६॥
स्वप्नो वा मे मनोभ्रान्तिर्यदि वा सत्यमेव तत्।
निद्रा मे नास्ति दुःखेन जानाम्येतत्कुतो भ्रमः॥१७॥
येन मे कर्णपीयुषं वचनं समुदीरितम्।
स दृश्यतां महाभागः प्रियवादी ममाग्रतः॥१८॥
श्रुत्वा तज्जानकीवाक्यं हनुमान् पत्रखण्डतः।
अवतीर्य शनैः सीतापुरतः समवस्थितः॥१९॥
कलविङ्कप्रमाणाङ्गो रक्तास्यः पीतवानरः।
ननाम शनकैः सीतां प्राञ्जलिः पुरतः स्थितः॥२०॥
दृष्ट्वा तं जानकी भीता रावणोऽयमुपागतः।
मां मोहयितुमायातो मायया वानराकृतिः॥२१॥
इत्येवं चिन्तयित्वा सा तूष्णीमासीदधोमुखी।
पुनरप्याह तां सीतां देवि यत्त्वं विशङ्कसे॥२२॥
नाहं तथाविधो मातस्त्यज शङ्कां मयि स्थिताम्।
दासोऽहं कोसलेन्द्रस्य रामस्य परमात्मनः॥२३॥
सचिवोऽहं हरीन्द्रस्य सुग्रीवस्य शुभप्रदे।
वायोः पुत्रोऽहमखिलप्राणभूतस्य शोभने॥२४॥
तच्छ्रुत्वा जानकी प्राह हनूमन्तं कृताञ्जलिम्।
वानराणां मनुष्याणां सङ्गतिर्घटते कथम्॥२५॥
यथा त्वं रामचन्द्रस्य दासोऽहमिति भाषसे।
तामाह मारुतिः प्रीतो जानकीं पुरतः स्थितः॥२६॥
ऋष्यमूकमगाद्रामः शबर्या नोदितः सुधीः।
सुग्रीवो ऋष्यमूकस्थो दृष्टवान् रामलक्ष्मणौ॥२७॥
भीतो मां प्रेषयामास ज्ञातुं रामस्य हृद्गतम्।
ब्रह्मचारिवपुर्धृत्वा गतोऽहं रामसन्निधिम्॥२८॥
ज्ञात्वा रामस्य सद्भावं स्कन्धोपरि निधाय तौ।
नीत्वा सुग्रीवसामीप्यं सख्यं चाकरवं तयोः॥२९॥
सुग्रीवस्य हृता भार्या वालिना तं रघूत्तमः।
जघानैकेन बाणेन ततो राज्येऽभ्यषेचयत्॥३०॥
सुग्रीवं वानराणां स प्रेषयामास वानरान्।
दिग्भ्यो महाबलान् वीरान् भवत्याः परिमार्गणे॥३१॥
गच्छन्तं राघवो दृष्ट्वा मामभाषत सादरम्॥३२॥
त्वयि कार्यमशेषं मे स्थितं मारुतनन्दन।
ब्रूहि मे कुशलं सर्वं सीतायै लक्ष्मणस्य च॥३३॥
अङ्गुलीयकमेतन्मे परिज्ञानार्थमुत्तमम्।
सीतायै दीयतां साधु मन्नामाक्षरमुद्रितम्॥३४॥
इत्युक्त्वा प्रददौ मह्यं कराग्रादङ्गुलीयकम्।
प्रयत्नेन मयाऽऽनीतं देवि पश्याङ्गुलीयकम्॥३५॥
इत्युक्त्वा प्रददौ देव्यै मुद्रिकां मारुतात्मजः।
नमस्कृत्य स्थितो दूराद्बद्धाञ्जलिपुटो हरिः॥३६॥
दृष्ट्वा सीता प्रमुदिता रामनामाङ्कितां तदा।
मुद्रिकां शिरसा धृत्वा स्रवदानन्दनेत्रजा॥३७॥
कपे मे प्राणदाता त्वं बुद्धिमानसि राघवे।
भक्तोऽसि प्रियकारी त्वं विश्वासोऽस्ति तवैव हि॥३८॥
नो चेन्मत्सन्निधिं चान्यं पुरुषं प्रेषयेत्कथम्।
हनूमन् दृष्टमखिलं मम दुःखादिकं त्वया॥३९॥
सर्वं कथय रामाय यथा मे जायते दया।
मासद्वयावधि प्राणाः स्थास्यन्ति मम सत्तम॥४०॥
नाऽऽगमिष्यति चेद्रामो भक्षयिष्यति मां खलः।
अतः शीघ्रं कपीन्द्रेण सुग्रीवेण समन्वितः॥४१॥
वानरानीकपैः सार्धं हत्वा रावणमाहवे।
सपुत्रं सबलं रामो यदि मां मोचयेत्प्रभुः॥४२॥
तत्तस्य सदृशं वीर्यं वीर वर्णय वर्णितम्।
यथा मां तारयेद्रामो हत्वा शीघ्रं दशाननम्॥४३॥
तथा यतस्व हनुमन् वाचा धर्ममवाप्नुहि।
हनुमानपि तामाह देवि दृष्टो यथा मया॥४४॥
रामः सलक्ष्मणः शीघ्रमागमिष्यति सायुधः।
सुग्रीवेण ससैन्येन हत्वा दशमुखं बलात्॥४५॥
समानेष्यति देवि त्वामयोध्यां नात्र संशयः।
तमाह जानकी रामः कथं वारिधिमाततम्॥४६॥
तीर्त्वाऽऽयास्यत्यमेयात्मा वानरानीकपैः सह।
हनुमानाह मे स्कन्धावारुह्य पुरुषर्षभौ॥४७॥
आयास्यतः ससैन्यश्च सुग्रीवो वानरेश्वरः।
विहायसा क्षणेनैव तीर्त्वा वारिधिमाततम्॥४८॥
निर्दहिष्यति रक्षौघांस्त्वत्कृते नात्र संशयः।
अनुज्ञां देहि मे देवि गच्छामि त्वरयान्वितः॥४९॥
द्रष्टुं रामं सह भ्रात्रा त्वरयामि तवान्तिकम्।
देवि किञ्चिदभिज्ञानं देहि मे येन राघवः॥५०॥
विश्वसेन्मां प्रयत्नेन ततो गन्ता समुत्सुकः।
ततः किञ्चिद् विचार्याथ सीता कमललोचना॥५१॥
विमुच्य केशपाशान्ते स्थितं चूडामणिं ददौ।
अनेन विश्वसेद्रामस्त्वां कपीन्द्र सलक्ष्मणः॥५२॥
अभिज्ञानार्थमन्यच्च वदामि तव सुव्रत।
चित्रकूटगिरौ पूर्वमेकदा रहसि स्थितः।
मदङ्के शिर आधाय निद्राति रघुनन्दनः॥५३॥
ऐन्द्रः काकस्तदाऽऽगत्य नखैस्तुण्डेन चासकृत्।
मत्पादाङ्गुष्ठमारक्तं विददारामिषाशया॥५४॥
ततो रामः प्रबुद्ध्याथ दृष्ट्वा पादं कृतव्रणम्।
केन भद्रे कृतं चैतद्विप्रियं मे दुरात्मना॥५५॥
इत्युक्त्वा पुरतोऽपश्यद् वायसं मां पुनः पुनः।
अभिद्रवन्तं रक्ताक्तनखतुण्डं चुकोप ह॥५६॥
तृणमेकमुपादाय दिव्यास्त्रेणाभियोज्य तत्।
चिक्षेप लीलया रामो वायसोपरि तज्ज्वलन्॥५७॥
अभ्यद्रवद् वायसश्च भीतो लोकान् भ्रमन् पुनः।
इन्द्रब्रह्मादिभिश्चापि न शक्यो रक्षितुं तदा॥५८॥
रामस्य पादयोरग्रेऽपतद् भीत्या दयानिधेः।
शरणागतमालोक्य रामस्तमिदमब्रवीत्॥५९॥
अमोघमेतदस्त्रं मे दत्वैकाक्षिमितो व्रज।
सव्यं दत्त्वा गतः काक एवं पौरुषवानपि॥६०॥
उपेक्षते किमर्थं मामिदानीं सोऽपि राघवः।
हनुमानपि तामाह श्रुत्वा सीतानुभाषितम्॥६१॥
देवि त्वां यदि जानाति स्थितामत्र रघूत्तमः।
करिष्यति क्षणाद्भस्म लङ्कां राक्षसमण्डिताम्॥६२॥
जानकी प्राह तं वत्स कथं त्वं योत्स्यसेऽसुरैः।
अतिसूक्ष्मवपुः सर्वे वानराश्च भवादृशाः॥६३॥
श्रुत्वा तद्वचनं देव्यै पूर्वरूपमदर्शयत्।
मेरुमन्दरसङ्काशं रक्षोगणविभीषणम्॥६४॥
दृष्ट्वा सीता हनूमन्तं महापर्वतसन्निभम्।
हर्षेण महताऽऽविष्टा प्राह तं कपिकुञ्जरम्॥६५॥
समर्थोऽसि महासत्त्व द्रक्ष्यन्ति त्वां महाबलम्।
राक्षस्यस्ते शुभः पन्था गच्छ रामान्तिकं द्रुतम्॥६६॥
बुभुक्षितः कपिः प्राह दर्शनात्पारणं मम।
भविष्यति फलैः सर्वैस्तव दृष्टौ स्थितैर्हि मे॥६७॥
तथेत्युक्तः स जानक्या भक्षयित्वा फलं कपिः।
ततः प्रस्थापितोऽगच्छज्जानकीं प्रणिपत्य सः।
किञ्चिद् दूरमथो गत्वा स्वात्मन्येवान्वचिन्तयत्॥६८॥
कार्यार्थमागतो दूतः स्वामिकार्याविरोधतः।
अन्यत्किञ्चिदसम्पाद्य गच्छत्यधम एव सः॥६९॥
अतोऽहं किञ्चिदन्यच्च कृत्वा दृष्ट्वाऽथ रावणम्।
सम्भाष्य च ततो रामदर्शनार्थं व्रजाम्यहम्॥७०॥
इति निश्चित्य मनसा वृक्षखण्डान् महाबलः।
उत्पाट्याशोकवनिकां निर्वृक्षामकरोत्क्षणात्॥७१॥
सीताऽऽश्रयनगं त्यक्त्वा वनं शून्यं चकार सः।
उत्पाटयन्तं विपिनं दृष्ट्वा राक्षसयोषितः॥७२॥
अपृच्छन् जानकीं कोऽसौ वानराकृतिरुद्भटः॥७३॥

जानक्युवाच

भवत्य एव जानन्ति मायां राक्षसनिर्मिताम्।
नाहमेनं विजानामि दुःखशोकसमाकुला॥७४॥
इत्युक्तास्त्वरितं गत्वा राक्षस्यो भयपीडिताः।
हनूमता कृतं सर्वं रावणाय न्यवेदयन्॥७५॥
देव कश्चिन्महासत्त्वो वानराकृतिदेहभृत्।
सीतया सह सम्भाष्य ह्यशोकवनिकां क्षणात्।
उत्पाट्य चैत्यप्रासादं बभञ्जामितविक्रमः॥७६॥
प्रासादरक्षिणः सर्वान् हत्वा तत्रैव तस्थिवान्।
तच्छ्रुत्वा तूर्णमुत्थाय वनभङ्गं महाऽप्रियम्॥७७॥
किङ्करान् प्रेषयामास नियुतं राक्षसाधिपः।
निभग्नचैत्यप्रासादप्रथमान्तरसंस्थितः॥७८॥
हनुमान् पर्वताकारो लोहस्तम्भकृतायुधः।
किञ्चिल्लाङ्गूलचलनो रक्तास्यो भीषणाकृतिः॥७९॥
आपतन्तं महासङ्घं राक्षसानां ददर्श सः।
चकार सिंहनादं च श्रुत्वा ते मुमुहुर्भृशम्॥८०॥
हनुमन्तमथो दृष्ट्वा राक्षसा भीषणाकृतिम्।
निर्जघ्नुर्विविधास्त्रौघैः सर्वराक्षसघातिनम्॥८१॥
तत उत्थाय हनुमान् मुद्गरेण समन्ततः।
निष्पिपेष क्षणादेव मशकानिव यूथपः॥८२॥
निहतान् किङ्करान् श्रुत्वा रावणः क्रोधमूर्च्छितः।
पञ्च सेनापतींस्तत्र प्रेषयामास दुर्मदान्॥८३॥
हनूमानपि तान् सर्वांल्लोहस्तम्भेन चाहनत्।
ततः क्रुद्धो मन्त्रिसुतान् प्रेषयामास सप्त सः॥८४॥
आगतानपि तान् सर्वान् पूर्ववद् वानरेश्वरः।
क्षणान्निःशेषतो हत्वा लोहस्तम्भेन मारुतिः॥८५॥
पूर्वस्थानमुपाश्रित्य प्रतीक्षन् राक्षसान् स्थितः।
ततो जगाम बलवान् कुमारोऽक्षः प्रतापवान्॥८६॥
तमुत्पपात हनुमान् दृष्ट्वाऽऽकाशे समुद्गरः।
गगनात्त्वरितो मूर्ध्नि मुद्गरेण व्यताडयत्॥८७॥
हत्वा तमक्षं निःशेषं बलं सर्वं चकार सः॥८८॥
ततः श्रुत्वा कुमारस्य वधं राक्षसपुङ्गवः।
क्रोधेन महताऽऽविष्ट इन्द्रजेतारमब्रवीत्॥८९॥
पुत्र गच्छाम्यहं तत्र यत्राऽऽस्ते पुत्रहा रिपुः।
हत्वा तमथवा बद्ध्वा आनयिष्यामि तेऽन्तिकम्॥९०॥
इन्द्रजित्पितरं प्राह त्यज शोकं महामते।
मयि स्थिते किमर्थं त्वं भाषसे दुःखितं वचः॥९१॥
बद्ध्वाऽऽनेष्ये द्रुतं तात वानरं ब्रह्मपाशतः।
इत्युक्त्वा रथमारुह्य राक्षसैर्बहुभिर्वृतः॥९२॥
जगाम वायुपुत्रस्य समीपं वीरविक्रमः।
ततोऽतिगर्जितं श्रुत्वा स्तम्भमुद्यस्य वीर्यवान्॥९३॥
उत्पपात नभोदेशं गरुत्मानिव मारुतिः।
ततो भ्रमन्तं नभसि हनूमन्तं शिलीमुखैः॥९४॥
विद्ध्वा तस्य शिरोभागमिषुभिश्चाष्टभिः पुनः।
हृदयं पादयुगलं षड्भिरेकेन वालधिम्॥९५॥
भेदयित्वा ततो घोरं सिंहनादमथाकरोत्।
ततोऽतिहर्षाद्धनुमान् स्तम्भमुद्यस्य वीर्यवान्॥९६॥
जघान सारथिं साश्वं रथं चाचूर्णयत्क्षणात्।
ततोऽन्यं रथमादाय मेघनादो महाबलः॥९७॥
शीघ्रं ब्रह्मास्त्रमादाय बद्ध्वा वानरपुङ्गवम्।
निनाय निकटं राज्ञो रावणस्य महाबलः॥९८॥
यस्य नाम सततं जपन्ति ये-
ऽज्ञानकर्मकृतबन्धनं क्षणात्।
सद्य एव परिमुच्य तत्पदं
यान्ति कोटिरविभासुरं शिवम्॥९९॥
तस्यैव रामस्य पदाम्बुजं सदा
हृत्पद्ममध्ये सुनिधाय मारुतिः।
सदैव निर्मुक्तसमस्तबन्धनः
किं तस्य पाशैरितरैश्च बन्धनैः॥१००॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे सुन्दरकाण्डे तृतीयः सर्गः॥