द्वितीयः सर्गः
श्री-महादेव उवाच
ततो जगाम हनुमान् लङ्कां परमशोभनाम्।
रात्रौ सूक्ष्मतनुर्भूत्वा बभ्राम परितः पुरीम्॥१॥
सीतान्वेषणकार्यार्थी प्रविवेश नृपालयम्।
तत्र सर्वप्रदेशेषु विविच्य हनुमान् कपिः॥२॥
नापश्यज्जानकीं स्मृत्वा ततो लङ्काभिभाषितम्।
जगाम हनुमान् शीघ्रमशोकवनिकां शुभाम्॥३॥
सुरपादपसम्बाधां रत्नसोपानवापिकाम्।
नानापक्षिमृगाकीर्णां स्वर्णप्रासादशोभिताम्॥४॥
फलैरानम्रशाखाग्रपादपैः परिवारिताम्।
विचिन्वन् जानकीं तत्र प्रतिवृक्षं मरुत्सुतः॥५॥
ददर्शाभ्रंलिहं तत्र चैत्यप्रासादमुत्तमम्।
दृष्ट्वा विस्मयमापन्नो मणिस्तम्भशतान्वितम्॥६॥
समतीत्य पुनर्गत्वा किञ्चिद् दूरं स मारुतिः।
ददर्श शिंशपावृक्षमत्यन्तनिबिडच्छदम्॥७॥
अदृष्टातपमाकीर्णं स्वर्णवर्णविहङ्गमम्।
तन्मूले राक्षसीमध्ये स्थितां जनकनन्दिनीम्॥८॥
ददर्श हनुमान् वीरो देवतामिव भूतले।
एकवेणीं कृशां दीनां मलिनाम्बरधारिणीम्॥९॥
भूमौ शयानां शोचन्तीं रामरामेति भाषिणीम्।
त्रातारं नाधिगच्छन्तीमुपवासकृशां शुभाम्॥१०॥
शाखान्तच्छदमध्यस्थो ददर्श कपिकुञ्जरः।
कृतार्थोऽहं कृतार्थोऽहं दृष्ट्वा जनकनन्दिनीम्॥११॥
मयैव साधितं कार्यं रामस्य परमात्मनः।
ततः किलकिलाशब्दो बभूवान्तःपुराद्बहिः॥१२॥
किमेतदिति सँल्लीनो वृक्षपत्रेषु मारुतिः।
आयान्तं रावणं तत्र स्त्रीजनैः परिवारितम्॥१३॥
दशास्यं विंशतिभुजं नीलाञ्जनचयोपमम्।
दृष्ट्वा विस्मयमापन्नः पत्रखण्डेष्वलीयत॥१४॥
रावणो राघवेणाशु मरणं मे कथं भवेत्।
सीतार्थमपि नाऽऽयाति रामः किं कारणं भवेत्॥१५॥
इत्येवं चिन्तयन्नित्यं राममेव सदा हृदि।
तस्मिन् दिनेऽपररात्रौ रावणो राक्षसाधिपः॥१६॥
स्वप्ने रामेण सन्दिष्टः कश्चिदागत्य वानरः।
कामरूपधरः सूक्ष्मो वृक्षग्रस्थोऽनुपश्यति॥१७॥
इति दृष्ट्वाऽद्भुतं स्वप्नं स्वात्मन्येवानुचिन्त्य सः।
स्वप्नः कदाचित्सत्यः स्यादेवं तत्र करोम्यहम्॥१८॥
जानकीं वाक्शरैर्विद्ध्वा दुःखितां नितरामहम्।
करोमि दृष्ट्वा रामाय निवेदयतु वानरः॥१९॥
इत्येवं चिन्तयन् सीतासमीपमगमद्द्रुतम्।
नूपुराणां किङ्किणीनां श्रुत्वा शिञ्जितमङ्गना॥२०॥
सीता भीता लीयमाना स्वात्मन्येव सुमध्यमा।
अधोमुख्यश्रुनयना स्थिता रामार्पितान्तरा॥२१॥
रावणोऽपि तदा सीतामालोक्याऽऽह सुमध्यमे।
मां दृष्ट्वा किं वृथा सुभ्रु स्वात्मन्येव विलीयसे॥२२॥
रामो वनचराणां हि मध्ये तिष्ठति सानुजः।
कदाचिद्दृश्यते कैश्चित्कदाचिन्नैव दृश्यते॥२३॥
मया तु बहुधा लोकाः प्रेषितास्तस्य दर्शने।
न पश्यन्ति प्रयत्नेन वीक्षमाणाः समन्ततः॥२४॥
किं करिष्यसि रामेण निःस्पृहेण सदा त्वयि।
त्वया सदाऽऽलिङ्गितोऽपि समीपस्थोऽपि सर्वदा॥२५॥
हृदयेऽस्य न च स्नेहस्त्वयि रामस्य जायते।
त्वत्कृतान् सर्वभोगांश्च त्वद्गुणानपि राघवः॥२६॥
भुञ्जानोऽपि न जानाति कृतघ्नो निर्गुणोऽधमः।
त्वमानीता मया साध्वी दुःखशोकसमाकुला॥२७॥
इदानीमपि नाऽऽयाति भक्तिहीनः कथं व्रजेत्।
निःसत्त्वो निर्ममो मानी मूढः पण्डितमानवान्॥२८॥
नराधमं त्वद्विमुखं किं करिष्यसि भामिनि।
त्वय्यतीव समासक्तं मां भजस्वासुरोत्तमम्॥२९॥
देवगन्धर्वनागानां यक्षकिन्नरयोषिताम्।
भविष्यसि नियोक्त्री त्वं यदि मां प्रतिपद्यसे॥३०॥
रावणस्य वचः श्रुत्वा सीताऽमर्षसमन्विता।
उवाचाधोमुखी भूत्वा निधाय तृणमन्तरे॥३१॥
राघवाद्बिभ्यता नूनं भिक्षुरूपं त्वया धृतम्।
रहिते राघवाभ्यां त्वं शुनीव हविरध्वरे॥३२॥
हृतवानसि मां नीच तत्फलं प्राप्स्यसेऽचिरात्।
यदा रामशराघातविदारितवपुर्भवान्॥३३॥
ज्ञास्यसेऽमानुषं रामं गमिष्यसि यमान्तिकम्।
समुद्रं शोषयित्वा वा शरैर्बद्ध्वाऽथ वारिधिम्॥३४॥
हन्तुं त्वां समरे रामो लक्ष्मणेन समन्वितः।
आगमिष्यत्यसन्देहो द्रक्ष्यसे राक्षसाधम॥३५॥
त्वां सपुत्रं सहबलं हत्वा नेष्यति मां पुरम्।
श्रुत्वा रक्षःपतिः क्रुद्धो जानक्याः परुषाक्षरम्॥३६॥
वाक्यं क्रोधसमाविष्टः खड्गमुद्यम्य सत्वरः।
हन्तुं जनकराजस्य तनयां ताम्रलोचनः॥३७॥
मन्दोदरी निवार्याह पतिं पतिहिते रता।
त्यजैनां मानुषीं दीनां दुःखितां कृपणां कृशाम्॥३८॥
देवगन्धर्वनागानां बह्व्यः सन्ति वराङ्गनाः।
त्वामेव वरयन्त्युच्चैर्मदमत्तविलोचनाः॥३९॥
ततोऽब्रवीद् दशग्रीवो राक्षसीर्विकृताननाः।
यथा मे वशगा सीता भविष्यति सकामना।
तथा यतध्वं त्वरितं तर्जनादरणादिभिः॥४०॥
द्विमासाभ्यन्तरे सीता यदि मे वशगा भवेत्।
तदा सर्वसुखोपेता राज्यं भोक्ष्यति सा मया॥४१॥
यदि मासद्वयादूर्ध्वं मच्छय्यां नाभिनन्दति।
तदा मे प्रातराशाय हत्वा कुरुत मानुषीम्॥४२॥
इत्युक्त्वा प्रययौ स्त्रीभी रावणोऽन्तःपुरालयम्।
राक्षस्यो जानकीमेत्य भीषयन्त्यः स्वतर्जनैः॥४३॥
तत्रैका जानकीमाह यौवनं ते वृथा गतम्।
रावणेन समासाद्य सफलं तु भविष्यति॥४४॥
अपरा चाह कोपेन किं विलम्बेन जानकि।
इदानीं छेद्यतामङ्गं विभज्य च पृथक् पृथक्॥४५॥
अन्या तु खड्गमुद्यम्य जानकीं हन्तुमुद्यता।
अन्या करालवदना विदार्यास्यमभीषयत्॥४६॥
एवं तां भीषयन्तीस्ता राक्षसीर्विकृताननाः।
निवार्य त्रिजटा वृद्धा राक्षसी वाक्यमब्रवीत्॥४७॥
शृणुध्वं दुष्टराक्षस्यो मद्वाक्यं वो हितं भवेत्॥४८॥
न भीषयध्वं रुदतीं नमस्कुरुत जानकीम्।
इदानीमेव मे स्वप्ने रामः कमललोचनः॥४९॥
आरुह्यैरावतं शुभ्रं लक्ष्मणेन समागतः।
दग्ध्वा लङ्कापुरीं सर्वां हत्वा रावणमाहवे॥५०॥
आरोप्य जानकीं स्वाङ्के स्थितो दृष्टोऽगमूर्धनि।
रावणो गोमयह्रदे तैलाभ्यक्तो दिगम्बरः॥५१॥
अगाहत्पुत्रपौत्रैश्च कृत्वा वदनमालिकाम्।
विभीषणस्तु रामस्य सन्निधौ हृष्टमानसः॥५२॥
सेवां करोति रामस्य पादयोर्भक्तिसंयुतः।
सर्वथा रावणं रामो हत्वा सकुलमञ्जसा॥५३॥
विभीषणायाधिपत्यं दत्त्वा सीतां शुभाननाम्।
अङ्के निधाय स्वपुरीं गमिष्यति न संशयः॥५४॥
त्रिजटाया वचः श्रुत्वा भीतास्ता राक्षसस्त्रियः।
तूष्णीमासंस्तत्र तत्र निद्रावशमुपागताः॥५५॥
तर्जिता राक्षसीभिः सा सीता भीतातिविह्वला।
त्रातारं नाधिगच्छन्ती दुःखेन परिमूर्च्छिता॥५६॥
अश्रुभिः पूर्णनयना चिन्तयन्तीदमब्रवीत्।
प्रभाते भक्षयिष्यन्ति राक्षस्यो मां न संशयः।
इदानीमेव मरणं केनोपायेन मे भवेत्॥५७॥
एवं सुदुःखेन परिप्लुता सा
विमुक्तकण्ठं रुदती चिराय।
आलम्ब्य शाखां कृतनिश्चया मृतौ
न जानती कश्चिदुपायमङ्गना॥५८॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे सुन्दरकाण्डे द्वितीयः सर्गः॥
❀