प्रथमः सर्गः
श्री-महादेव उवाच
शतयोजनविस्तीर्णं समुद्रं मकरालयम्।
लिलङ्घयिषुरानन्दसन्दोहो मारुतात्मजः॥१॥
ध्यात्वा रामं परात्मानमिदं वचनमब्रवीत्।
पश्यन्तु वानराः सर्वे गच्छन्तं मां विहायसा॥२॥
अमोघं रामनिर्मुक्तं महाबाणमिवाखिलाः।
पश्याम्यद्यैव रामस्य पत्नीं जनकनन्दिनीम्॥३॥
कृतार्थोऽहं कृतार्थोऽहं पुनः पश्यामि राघवम्।
प्राणप्रयाणसमये यस्य नाम सकृत्स्मरन्॥४॥
नरस्तीर्त्वा भवाम्भोधिमपारं याति तत्पदम्।
किं पुनस्तस्य दूतोऽहं तदङ्गाङ्गुलिमुद्रिकः॥५॥
तमेव हृदये ध्यात्वा लङ्घयाम्यल्पवारिधिम्।
इत्युक्त्वा हनुमान् बाहू प्रसार्यायतवालधिः॥६॥
ऋजुग्रीवोर्ध्वदृष्टिः सन्नाकुञ्चितपदद्वयः।
दक्षिणाभिमुखस्तूर्णं पुप्लुवेऽनिलविक्रमः॥७॥
आकाशात्त्वरितं देवैर्वीक्ष्यमाणो जगाम सः।
दृष्ट्वाऽनिलसुतं देवा गच्छन्तं वायुवेगतः॥८॥
परीक्षणार्थं सत्त्वस्य वानरस्येदमब्रुवन्।
गच्छत्येष महासत्त्वो वानरो वायुविक्रमः॥९॥
लङ्कां प्रवेष्टुं शक्तो वा न वा जानीमहे बलम्।
एवं विचार्य नागानां मातरं सुरसाभिधाम्॥१०॥
अब्रवीद् देवतावृन्दः कौतूहलसमन्वितः।
गच्छ त्वं वानरेन्द्रस्य किञ्चिद् विघ्नं समाचर॥११॥
ज्ञात्वा तस्य बलं बुद्धिं पुनरेहि त्वरान्विता।
इत्युक्ता सा ययौ शीघ्रं हनुमद्विघ्नकारणात्॥१२॥
आवृत्य मार्गं पुरतः स्थित्वा वानरमब्रवीत्।
एहि मे वदनं शीघ्रं प्रविशस्व महामते॥१३॥
देवैस्त्वं कल्पितो भक्ष्यः क्षुधासम्पीडितात्मनः।
तामाह हनुमान् मातरहं रामस्य शासनात्॥१४॥
गच्छामि जानकीं द्रष्टुं पुनरागम्य सत्वरः।
रामाय कुशलं तस्याः कथयित्वा त्वदाननम्॥१५॥
निवेक्ष्ये देहि मे मार्गं सुरसायै नमोऽस्तु ते।
इत्युक्ता पुनरेवाह सुरसा क्षुधितािऽस्म्यहम्॥१६॥
प्रविश्य गच्छ मे वक्त्रं नो चेत्त्वां भक्षयाम्यहम्।
इत्युक्तो हनुमानाह मुखं शीघ्रं विदारय॥१७॥
प्रविश्य वदनं तेऽद्य गच्छामि त्वरयान्वितः।
इत्युक्त्वा योजनायामदेहो भूत्वा पुरः स्थितः॥१८॥
दृष्ट्वा हनूमतो रूपं सुरसा पञ्चयोजनम्।
मुखं चकार हनुमान् द्विगुणं रूपमादधत्॥१९॥
ततश्चकार सुरसा योजनानां च विंशतिम्।
वक्त्रं चकार हनुमान्स्त्रिंशद्योजनसम्मितम्॥२०॥
ततश्चकार सुरसा पञ्चाशद्योजनायतम्।
वक्त्रं तदा हनूमांस्तु बभूवाङ्गुष्ठसन्निभः॥२१॥
प्रविश्य वदनं तस्याः पुनरेत्य पुरः स्थितः।
प्रविष्टो निर्गतोऽहं ते वदनं देवि ते नमः॥२२॥
एवं वदन्तं दृष्ट्वा सा हनूमन्तमथाब्रवीत्।
गच्छ साधय रामस्य कार्यं बुद्धिमतां वर॥२३॥
देवैः सम्प्रेषिताऽहं ते बलं जिज्ञासुभिः कपे।
दृष्ट्वा सीतां पुनर्गत्वा रामं द्रक्ष्यसि गच्छ भोः॥२४॥
इत्युक्त्वा सा ययौ देवलोकं वायुसुतः पुनः।
जगाम वायुमार्गेण गरुत्मानिव पक्षिराट्॥२५॥
समुद्रोऽप्याह मैनाकं मणिकाञ्चनपर्वतम्।
गच्छत्येष महासत्त्वो हनुमान्मारुतात्मजः॥२६॥
रामस्य कार्यसिद्ध्यर्थं तस्य त्वं सचिवो भव।
सगरैर्वर्द्धितो यस्मात्पुराहं सागरोऽभवम्॥२७॥
तस्यान्वये बभूवासौ रामो दाशरथिः प्रभुः।
तस्य कार्यार्थसिद्ध्यर्थं गच्छत्येष महाकपिः॥२८॥
त्वमुत्तिष्ठ जलात्तूर्णं त्वयि विश्रम्य गच्छतु।
स तथेति प्रादुरभूज्जलमध्यान्महोन्नतः॥२९॥
नानामणिमयैः शृङ्गैस्तस्योपरि नराकृतिः।
प्राह यान्तं हनूमन्तं मैनाकोऽहं महाकपे॥३०॥
समुद्रेण समादिष्टस्त्वद्विश्रामाय मारुते।
आगच्छामृतकल्पानि जग्ध्वा पक्वफलानि मे॥३१॥
विश्रम्यात्र क्षणं पश्चाद्गमिष्यसि यथासुखम्।
एवमुक्तोऽथ तं प्राह हनुमान्मारुतात्मजः॥३२॥
गच्छतो रामकार्यार्थं भक्षणं मे कथं भवेत्।
विश्रामो वा कथं मे स्याद्गन्तव्यं त्वरितं मया॥३३॥
इत्युक्त्वा स्पृष्टशिखरः कराग्रेण ययौ कपिः।
किञ्चिद् दूरं गतस्यास्य छायां छायाग्रहोऽग्रहीत्॥३४॥
सिंहिका नाम सा घोरा जलमध्ये स्थिता सदा।
आकाशगामिनां छायामाक्रम्याऽऽकृष्य भक्षयेत्॥३५॥
तया गृहीतो हनुमान्श्चिन्तयामास वीर्यवान्।
केनेदं मे कृतं वेगरोधनं विघ्नकारिणा॥३६॥
दृश्यते नैव कोऽप्यत्र विस्मयो मे प्रजायते।
एवं विचिन्त्य हनुमानधो दृष्टिं प्रसारयत्॥३७॥
तत्र दृष्ट्वा महाकायां सिंहिकां घोररूपिणीम्।
पपात सलिले तूर्णं पद्भ्यामेवाहनद्रुषा॥३८॥
पुनरुत्प्लुत्य हनुमान् दक्षिणाभिमुखो ययौ।
ततो दक्षिणमासाद्य कूलं नानाफलद्रुमम्॥३९॥
नानापक्षिमृगाकीर्णं नानापुष्पलतावृतम्।
ततो ददर्श नगरं त्रिकूटाचलमूर्धनि॥४०॥
प्राकारैर्बहुभिर्युक्तं परिखाभिश्च सर्वतः।
प्रवेक्ष्यामि कथं लङ्कामिति चिन्तापरोऽभवत्॥४१॥
रात्रौ वेक्ष्यामि सूक्ष्मोऽहं लङ्कां रावणपालिताम्।
एवं विचिन्त्य तत्रैव स्थित्वा लङ्कां जगाम सः॥४२॥
धृत्वा सूक्ष्मं वपुर्द्वारं प्रविवेश प्रतापवान्।
तत्र लङ्कापुरी साक्षाद्राक्षसीवेषधारिणी॥४३॥
प्रविशन्तं हनूमन्तं दृष्ट्वा लङ्का व्यतर्जयत्।
कस्त्वं वानररूपेण मामनादृत्य लङ्किनीम्॥४४॥
प्रविश्य चोरवद्रात्रौ किं भवान् कर्तुमिच्छति।
इत्युक्त्वा रोषताम्राक्षी पादेनाभिजघान तम्॥४५॥
हनुमानपि तां वाममुष्टिनाऽवज्ञयाऽहनत्।
तदैव पतिता भूमौ रक्तमुद्वमती भृशम्॥४६॥
उत्थाय प्राह सा लङ्का हनूमन्तं महाबलम्।
हनूमन् गच्छ भद्रं ते जिता लङ्का त्वयाऽनघ॥४७॥
पुराहं ब्रह्मणा प्रोक्ता ह्यष्टाविंशतिपर्यये।
त्रेतायुगे दाशरथी रामो नारायणोऽव्ययः॥४८॥
जनिष्यते योगमाया सीता जनकवेश्मनि।
भूभारहरणार्थाय प्रार्थितोऽयं मया क्वचित्॥४९॥
सभार्यो राघवो भ्रात्रा गमिष्यति महावनम्।
तत्र सीतां महामायां रावणोऽपहरिष्यति॥५०॥
पश्चाद्रामेण साचिव्यं सुग्रीवस्य भविष्यति।
सुग्रीवो जानकीं द्रष्टुं वानरान् प्रेषयिष्यति॥५१॥
तत्रैको वानरो रात्रावागमिष्यति तेऽन्तिकम्।
त्वया च भर्त्सितः सोऽपि त्वां हनिष्यति मुष्टिना॥५२॥
तेनाहता त्वं व्यथिता भविष्यसि यदाऽनघे।
तदैव रावणस्यान्तो भविष्यति न संशयः॥५३॥
तस्मात् त्वया जिता लङ्का जितं सर्वं त्वयाऽनघ।
रावणान्तःपुरवरे क्रीडाकाननमुत्तमम्॥५४॥
तन्मध्येऽशोकवनिका दिव्यपादपसङ्कुला।
अस्ति तस्यां महावृक्षः शिंशपा नाम मध्यगः॥५५॥
तत्राऽऽस्ते जानकी घोरराक्षसीभिः सुरक्षिता।
दृष्ट्वैव गच्छ त्वरितं राघवाय निवेदय॥५६॥
धन्याऽहमप्यद्य चिराय राघव-
स्मृतिर्ममाऽऽसीद्भवपाशमोचिनी।
तद्भक्तसङ्गोऽप्यतिदुर्लभो मम
प्रसीदतां दाशरथिः सदा हृदि॥५७॥
उल्लङ्घितेऽब्धौ पवनात्मजेन
धरासुतायाश्च दशाननस्य।
पुस्फोर वामाक्षि भुजश्च तीव्रं
रामस्य दक्षाङ्गमतीन्द्रियस्य॥५८॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे सुन्दरकाण्डे प्रथमः सर्गः॥
❀