नवमः सर्गः

श्री-महादेव उवाच

गते विहायसा गृध्रराजे वानरपुङ्गवाः।
हर्षेण महताऽऽविष्टाः सीतादर्शनलालसाः॥१॥
ऊचुः समुद्रं पश्यन्तो नक्रचक्रभयङ्करम्।
तरङ्गादिभिरुन्नद्धमाकाशमिव दुर्ग्रहम्॥२॥
परस्परमवोचन् वै कथमेनं तरामहे।
उवाच चाङ्गदस्तत्र शृणुध्वं वानरोत्तमाः॥३॥
भवन्तोऽत्यन्तबलिनः शूराश्च कृतविक्रमाः।
को वात्र वारिधिं तीर्त्वा राजकार्यं करिष्यति॥४॥
एतेषां वानराणां स प्राणदाता न संशयः।
तदुत्तिष्ठतु मे शीघ्रं पुरतो यो महाबलः॥५॥
वानराणां च सर्वेषां रामसुग्रीवयोरपि।
स एव पालको भूयान्नात्र कार्या विचारणा॥६॥
इत्युक्ते युवराजेन तूष्णीं वानरसैनिकाः।
आसन्नोचुः किञ्चिदपि परस्परविलोकिनः॥७॥

अङ्गद उवाच

उच्यतां वै बलं सर्वैः प्रत्येकं कार्यसिद्धये।
केन वा साध्यते कार्यं जानीमस्तदनन्तरम्॥८॥
अङ्गदस्य वचः श्रुत्वा प्रोचुर्वीरा बलं पृथक्।
योजनानां दशारभ्य दशोत्तरगुणं जगुः॥९॥
शतादर्वाग्जाम्बवांस्तु प्राह मध्ये वनौकसाम्।
पुरा त्रिविक्रमे देवे पादं भूमानलक्षणम्॥१०॥
त्रिःसप्तकृत्वोऽहमगां प्रदक्षिणविधानतः।
इदानीं वार्धकग्रस्तो न शक्नोमि विलङ्घितुम्॥११॥
अङ्गदोऽप्याह मे गन्तुं शक्यं पारं महोदधेः।
पुनर्लङ्घनसामर्थ्यं न जानाम्यस्ति वा न वा॥१२॥
तमाह जाम्बवान् वीरस्त्वं राजा नो नियामकः।
न युक्तं त्वां नियोक्तुं मे त्वं समर्थोऽसि यद्यपि॥१३॥

अङ्गद उवाच

एवं चेत्पूर्ववत्सर्वे स्वप्स्यामो दर्भविष्टरे।
केनापि न कृतं कार्यं जीवितुं च न शक्यते॥१४॥
तमाह जाम्बवान् वीरो दर्शयिष्यामि ते सुत।
येनास्माकं कार्यसिद्धिर्भविष्यत्यचिरेण च॥१५॥
इत्युक्त्वा जाम्बवान् प्राह हनूमन्तमवस्थितम्।
हनूमन् किं रहस्तूष्णीं स्थीयते कार्यगौरवे॥१६॥
प्राप्तेऽज्ञेनेव सामर्थ्यं दर्शयाद्य महाबल।
त्वं साक्षाद् वायुतनयो वायुतुल्यपराक्रमः॥१७॥
रामकार्यार्थमेव त्वं जनितोऽसि महात्मना।
जातमात्रेण ते पूर्वं दृष्ट्वोद्यन्तं विभावसुम्॥१८॥
पक्वं फलं जिघृक्षामीत्युत्प्लुतं बालचेष्टया।
योजनानां पञ्चशतं पतितोऽसि ततो भुवि॥१९॥
अतस्त्वद्बलमाहात्म्यं को वा शक्नोति वर्णितुम्।
उत्तिष्ठ कुरु रामस्य कार्यं नः पाहि सुव्रत॥२०॥
श्रुत्वा जाम्बवतो वाक्यं हनूमानतिहर्षितः।
चकार नादं सिंहस्य ब्रह्माण्डं स्फोटयन्निव॥२१॥
बभूव पर्वताकारस्त्रिविक्रम इवापरः।
लङ्घयित्वा जलनिधिं कृत्वा लङ्कां च भस्मसात्॥२२॥
रावणं सकुलं हत्वाऽऽनेष्ये जनकनन्दिनीम्।
यद् वा बद्ध्वा गले रज्ज्वा रावणं वामपाणिना॥२३॥
लङ्कां सपर्वतां धृत्वा रामस्याग्रे क्षिपाम्यहम्।
यद् वा दृष्ट्वैव यास्यामि जानकीं शुभलक्षणाम्॥२४॥
श्रुत्वा हनुमतो वाक्यं जाम्बवानिदमब्रवीत्।
दृष्ट्वैवाऽऽगच्छ भद्रं ते जीवन्तीं जानकीं शुभाम्॥२५॥
पश्चाद्रामेण सहितो दर्शयिष्यसि पौरुषम्।
कल्याणं भवताद्भद्र गच्छतस्ते विहायसा॥२६॥
गच्छन्तं रामकार्यार्थं वायुस्त्वामनुगच्छतु।
इत्याशीर्भिः समामन्त्र्य विसृष्टः प्लवगाधिपैः॥२७॥
महेन्द्राद्रिशिरो गत्वा बभूवाद्भुतदर्शनः॥२८॥
महानगेन्द्रप्रतिमो महात्मा
सुवर्णवर्णोऽरुणचारुवक्त्रः।
महाफणीन्द्राभसुदीर्घबाहु-
र्वातात्मजोऽदृश्यत सर्वभूतैः॥२९॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे नवमः सर्गः॥

इति श्रीमदध्यात्मरामायणे किष्किन्धाकाण्डः समाप्तः॥

❀ ❀ ❀