सप्तमः सर्गः
श्री-महादेव उवाच
अथ तत्र समासीना वृक्षखण्डेषु वानराः।
चिन्तयन्तो विमुह्यन्तः सीतामार्गणकर्शिताः॥१॥
तत्रोवाचाङ्गदः कांश्चिद् वानरान् वानरर्षभः।
भ्रमतां गह्वरेऽस्माकं मासो नूनं गतोऽभवत्॥२॥
सीता नाधिगताऽस्माभिर्न कृतं राजशासनम्।
यदि गच्छाम किष्किन्धां सुग्रीवोऽस्मान् हनिष्यति॥३॥
विशेषतः शत्रुसुतं मां मिषान्निहनिष्यति।
मयि तस्य कुतः प्रीतिरहं रामेण रक्षितः॥४॥
इदानीं रामकार्यं मे न कृतं तन्मिषं भवेत्।
तस्य मद्धनने नूनं सुग्रीवस्य दुरात्मनः॥५॥
मातृकल्पां भ्रातृभार्यां पापात्माऽनुभवत्यसौ।
न गच्छेयमतः पार्श्वं तस्य वानरपुङ्गवाः॥६॥
त्यक्ष्यामि जीवितं चात्र येन केनापि मृत्युना।
इत्यश्रुनयनं केचिद्दृष्ट्वा वानरपुङ्गवाः॥७॥
व्यथिताः साश्रुनयना युवराजमथाब्रुवन्॥८॥
किमर्थं तव शोकोऽत्र वयं ते प्राणरक्षकाः।
भवामो निवसामोऽत्र गुहायां भयवर्जिताः॥९॥
सर्वसौभाग्यसहितं पुरं देवपुरोपमम्।
शनैः परस्परं वाक्यं वदतां मारुतात्मजः॥१०॥
श्रुत्वाऽङ्गदं समालिङ्ग्य प्रोवाच नयकोविदः।
विचार्यते किमर्थं ते दुर्विचारो न युज्यते॥११॥
राज्ञोऽत्यन्तप्रियस्त्वं हि तारापुत्रोऽतिवल्लभः।
रामस्य लक्ष्मणात्प्रीतिस्त्वयि नित्यं प्रवर्धते॥१२॥
अतो न राघवाद्भीतिस्तव राज्ञो विशेषतः।
अहं तव हिते सक्तो वत्स नान्यं विचारय॥१३॥
गुहावासश्च निर्भेद्य इत्युक्तं वानरैस्तु यत्।
तदेतद्रामबाणानामभेद्यं किं जगत्त्रये॥१४॥
ये त्वां दुर्बोधयन्त्येते वानरा वानरर्षभ।
पुत्रदारादिकं त्यक्त्वा कथं स्थास्यन्ति ते त्वया॥१५॥
अन्यद्गुह्यतमं वक्ष्ये रहस्यं शृणु मे सुत।
रामो न मानुषो देवः साक्षान्नारायणोऽव्ययः॥१६॥
सीता भगवती माया जनसम्मोहकारिणी।
लक्ष्मणो भुवनाधारः साक्षाच्छेषः फणीश्वरः॥१७॥
ब्रह्मणा प्रार्थिताः सर्वे रक्षोगणविनाशने।
मायामानुषभावेन जाता लोकैकरक्षकाः॥१८॥
वयं च पार्षदाः सर्वे विष्णोर्वैकुण्ठवासिनः।
मनुष्यभावमापन्ने स्वेच्छया परमात्मनि॥१९॥
वयं वानररूपेण जातास्तस्यैव मायया।
वयं तु तपसा पूर्वमाराध्य जगतां पतिम्॥२०॥
तेनैवानुगृहीताः स्मः पार्षदत्वमुपागताः।
इदानीमपि तस्यैव सेवां कृत्वैव मायया॥२१॥
पुनर्वैकुण्ठमासाद्य सुखं स्थास्यामहे वयम्।
इत्यङ्गदमथाऽश्वास्य गता विन्ध्यं महाचलम्॥२२॥
विचिन्वन्तोऽथ शनकैर्जानकीं दक्षिणाम्बुधेः।
तीरे महेन्द्राख्यगिरेः पवित्रं पादमाययुः॥२३॥
दृष्ट्वा समुद्रं दुष्पारमगाधं भयवर्धनम्।
वानरा भयसन्त्रस्ताः किं कुर्म इति वादिनः॥२४॥
निषेदुरुदधेस्तीरे सर्वे चिन्तासमन्विताः।
मन्त्रयामासुरन्योन्यमङ्गदाद्या महाबलाः॥२५॥
भ्रमतो मे वने मासो गतोऽत्रैव गुहान्तरे।
न दृष्टो रावणो वाऽद्य सीता वा जनकात्मजा॥२६॥
सुग्रीवस्तीक्ष्णदण्डोऽस्मान्निहन्त्येव न संशयः।
सुग्रीववधतोऽस्माकं श्रेयः प्रायोपवेशनम्॥२७॥
इति निश्चित्य तत्रैव दर्भानास्तीर्य सर्वतः।
उपाविवेशुस्ते सर्वे मरणे कृतनिश्चयाः॥२८॥
एतस्मिन्नन्तरे तत्र महेन्द्राद्रिगुहान्तरात्।
निर्गत्य शनकैरागाद्गृध्रः पर्वतसन्निभः॥२९॥
दृष्ट्वा प्रायोपवेशेन स्थितान् वानरपुङ्गवान्।
उवाच शनकैर्गृध्रः प्राप्तो भक्ष्योऽद्य मे बहुः॥३०॥
एकैकशः क्रमात्सर्वान् भक्षयामि दिने दिने।
श्रुत्वा तद्गृध्रवचनं वानरा भीतमानसाः॥३१॥
भक्षयिष्यति नः सर्वानसौ गृध्रो न संशयः।
रामकार्यं च नास्माभिः कृतं किञ्चिद् धरीश्वराः॥३२॥
सुग्रीवस्यापि च हितं न कृतं स्वात्मनामपि।
वृथाऽनेन वधं प्राप्ता गच्छामो यमसादनम्॥३३॥
अहो जटायुर्धर्मात्मा रामस्यार्थे मृतः सुधीः।
मोक्षं प्राप दुरावापं योगिनामप्यरिन्दमः॥३४॥
सम्पातिस्तु तदा वाक्यं श्रुत्वा वानरभाषितम्।
के वा यूयं मम भ्रातुः कर्णपीयूषसन्निभम्॥३५॥
जटायुरिति नामाद्य व्याहरन्तः परस्परम्।
उच्यतां वो भयं मा भून्मत्तः प्लवगसत्तमाः॥३६॥
तमुवाचाङ्गदः श्रीमानुत्थितो गृध्रसन्निधौ।
रामो दाशरथिः श्रीमान् लक्ष्मणेन समन्वितः॥३७॥
सीतया भार्यया सार्धं विचचार महावने।
तस्य सीता हृता साध्वी रावणेन दुरात्मना॥३८॥
मृगयां निर्गते रामे लक्ष्मणे च हृता बलात्।
रामरामेति क्रोशन्ती श्रुत्वा गृध्रः प्रतापवान्॥३९॥
जटायुर्नाम पक्षीन्द्रो युद्धं कृत्वा सुदारुणम्।
रावणेन हतो वीरो राघवार्थं महाबलः॥४०॥
रामेण दग्धो रामस्य सायुज्यमगमत्क्षणात्।
रामः सुग्रीवमासाद्य सख्यं कृत्वाऽग्निसाक्षिकम्॥४१॥
सुग्रीवचोदितो हत्वा वालिनं सुदुरासदम्।
राज्यं ददौ वानराणां सुग्रीवाय महाबलः॥४२॥
सुग्रीवः प्रेषयामास सीतायाः परिमार्गणे।
अस्मान् वानरवृन्दान् वै महासत्त्वान् महाबलः॥४३॥
मासादर्वाङ्निवर्तध्वं नो चेत्प्राणान् हरामि वः।
इत्याज्ञया भ्रमन्तोऽस्मिन् वने गह्वरमध्यगाः॥४४॥
गतो मासो न जानीमः सीतां वा रावणं च वा।
मर्तुं प्रायोपविष्टा स्मस्तीरे लवणवारिधेः॥४५॥
यदि जानासि हे पक्षिन् सीतां कथय नः शुभाम्।
अङ्गदस्य वचः श्रुत्वा सम्पातिर्हृष्टमानसः॥४६॥
उवाच मत्प्रियो भ्राता जटायुः प्लवगेश्वराः।
बहुवर्षसहस्रान्ते भ्रातृवार्ता श्रुता मया॥४७॥
वाक्साहाय्यं करिष्येऽहं भवतां प्लवगेश्वराः।
भ्रातुः सलिलदानाय नयध्वं मां जलान्तिकम्॥४८॥
पश्चात्सर्वं शुभं वक्ष्ये भवतां कार्यसिद्धये।
तथेति निन्युस्ते तीरं समुद्रस्य विहङ्गमम्॥४९॥
सोऽपि तत्सलिले स्नात्वा भ्रातुर्दत्त्वा जलाञ्जलिम्।
पुनः स्वस्थानमासाद्य स्थितो नीतो हरीश्वरैः।
सम्पातिः कथयामास वानरान् परिहर्षयन्॥५०॥
लङ्का नाम नगर्यास्ते त्रिकूटगिरिमूर्धनि।
तत्राशोकवने सीता राक्षसीभिः सुरक्षिता॥५१॥
समुद्रमध्ये सा लङ्का शतयोजनदूरतः।
दृश्यते मे न सन्देहः सीता च परिदृश्यते॥५२॥
गृध्रत्वाद्दूरदृष्टिर्मे नात्र संशयितुं क्षमम्।
शतयोजनविस्तीर्णं समुद्रं यस्तु लङ्घयेत्॥५३॥
स एव जानकीं दृष्ट्वा पुनरायास्यति ध्रुवम्।
अहमेव दुरात्मानं रावणं हन्तुमुत्सहे।
भ्रातुर्हन्तारमेकाकी किन्तु पक्षविवर्जितः॥५४॥
यतध्वमतियत्नेन लङ्घितुं सरितां पतिम्।
ततो हन्ता रघुश्रेष्ठो रावणं राक्षसाधिपम्॥५५॥
उल्लङ्घ्य सिन्धुं शतयोजनायतं
लङ्कां प्रविश्याथ विदेहकन्यकाम्।
दृष्ट्वा समाभाष्य च वारिधिं पुनः
तर्तुं समर्थः कतमो विचार्यताम्॥५६॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे सप्तमः सर्गः॥
❀