षष्ठः सर्गः
दृष्ट्वा रामं समासीनं गुहाद्वारि शिलातले।
चैलाजिनधरं श्यामं जटामौलिविराजितम्॥१॥
विशालनयनं शान्तं स्मितचारुमुखाम्बुजम्।
सीताविरहसन्तप्तं पश्यन्तं मृगपक्षिणः॥२॥
रथाद्दूरात्समुत्पत्य वेगात्सुग्रीवलक्ष्मणौ।
रामस्य पादयोरग्रे पेततुर्भक्तिसंयुतौ॥३॥
रामः सुग्रीवमालिङ्ग्य पृष्ट्वाऽनामयमन्तिके।
स्थापयित्वा यथान्यायं पूजयामास धर्मवित्॥४॥
ततोऽब्रवीद् रघुश्रेष्ठं सुग्रीवो भक्तिनम्रधीः।
देव पश्य समायान्तीं वानराणां महाचमूम्॥५॥
कुलाचलाद्रिसम्भूता मेरुमन्दरसन्निभाः।
नानाद्वीपसरिच्छैलवासिनः पर्वतोपमाः॥६॥
असङ्ख्याताः समायान्ति हरयः कामरूपिणः।
सर्वे देवांशसम्भूताः सर्वे युद्धविशारदाः॥७॥
अत्र केचिद्गजबलाः केचिद्दशगजोपमाः।
गजायुतबलाः केचिदन्येऽमितबलाः प्रभो॥८॥
केचिदञ्जनकूटाभाः केचित्कनकसन्निभाः।
केचिद्रक्तान्तवदना दीर्घवालास्तथाऽपरे॥९॥
शुद्धस्फटिकसङ्काशाः केचिद्राक्षससन्निभाः।
गर्जन्तः परितो यान्ति वानरा युद्धकाङ्क्षिणः॥१०॥
त्वदाज्ञाकारिणः सर्वे फलमूलाशनाः प्रभो।
ऋक्षाणामधिपो वीरो जाम्बवान्नाम बुद्धिमान्॥११॥
एष मे मन्त्रिणां श्रेष्ठः कोटिभल्लूकवृन्दपः।
हनूमानेष विख्यातो महासत्त्वपराक्रमः॥१२॥
वायुपुत्रोऽतितेजस्वी मन्त्री बुद्धिमतां वरः।
नलो नीलश्च गवयो गवाक्षो गन्धमादनः॥१३॥
शरभो मैन्दवश्चैव गजः पनस एव च।
वलीमुखो दधिमुखः सुषेणस्तार एव च॥१४॥
केसरी च महासत्त्वः पिता हनुमतो बली।
एते ते यूथपा राम प्राधान्येन मयोदिताः॥१५॥
महात्मानो महावीर्याः शक्रतुल्यपराक्रमाः।
एते प्रत्येकतः कोटिकोटिवानरयूथपाः॥१६॥
तवाज्ञाकारिणः सर्वे सर्वे देवांशसम्भवाः।
एष वालिसुतः श्रीमानङ्गदो नाम विश्रुतः॥१७॥
वालितुल्यबलो वीरो राक्षसानां बलान्तकः।
एते चान्ये च बहवस्त्वदर्थे त्यक्तजीविताः॥१८॥
योद्धारः पर्वताग्रैश्च निपुणाः शत्रुघातने।
आज्ञापय रघुश्रेष्ठ सर्वे ते वशवर्तिनः॥१९॥
रामः सुग्रीवमालिङ्ग्य हर्षपूर्णाश्रुलोचनः।
प्राह सुग्रीव जानासि सर्वं त्वं कार्यगौरवम्॥२०॥
मार्गणार्थं हि जानक्या नियुङ्क्ष्व यदि रोचते।
श्रुत्वा रामस्य वचनं सुग्रीवः प्रीतमानसः॥२१॥
प्रेषयामास बलिनो वानरान् वानरर्षभः।
दिक्षु सर्वासु विविधान् वानरान् प्रेष्य सत्वरम्॥२२॥
दक्षिणां दिशमत्यर्थं प्रयत्नेन महाबलान्।
युवराजं जाम्बवन्तं हनूमन्तं महाबलम्॥२३॥
नलं सुषेणं शरभं मैन्दं द्विविदमेव च।
प्रेषयामास सुग्रीवो वचनं चेदमब्रवीत्॥२४॥
विचिन्वन्तु प्रयत्नेन भवन्तो जानकीं शुभाम्।
मासादर्वाङ्निवर्तध्वं मच्छासनपुरःसराः॥२५॥
सीतामदृष्ट्वा यदि वो मासादूर्ध्वं दिनं भवेत्।
तदा प्राणान्तिकं दण्डं मत्तः प्राप्स्यथ वानराः॥२६॥
इति प्रस्थाप्य सुग्रीवो वानरान् भीमविक्रमान्।
रामस्य पार्श्वे श्रीरामं नत्वा चोपविवेश सः॥२७॥
गच्छन्तं मारुतिं दृष्ट्वा रामो वचनमब्रवीत्।
अभिज्ञानार्थमेतन्मे ह्यङ्गुलीयकमुत्तमम्॥२८॥
मन्नामाक्षरसंयुक्तं सीतायै दीयतां रहः।
अस्मिन् कार्ये प्रमाणं हि त्वमेव कपिसत्तम।
जानामि सत्त्वं ते सर्वं गच्छ पन्थाः शुभस्तव॥२९॥
एवं कपीनां राज्ञा ते विसृष्टाः परिमार्गणे।
सीताया अङ्गदमुखा बभ्रमुस्तत्र तत्र ह॥३०॥
भ्रमन्तो विन्ध्यगहने ददृशुः पर्वतोपमम्।
राक्षसं भीषणाकारं भक्षयन्तं मृगान् गजान्॥३१॥
रावणोऽयमिति ज्ञात्वा केचिद् वानरपुङ्गवाः।
जघ्नुः किलकिलाशब्दं मुञ्चन्तो मुष्टिभिः क्षणात्॥३२॥
नायं रावण इत्युक्त्वा ययुरन्यन्महद्वनम्।
तृषार्ता सलिलं तत्र नाविन्दन् हरिपुङ्गवाः॥३३॥
विभ्रमन्तो महारण्ये शुष्ककण्ठोष्ठतालुकाः।
ददृशुर्गह्वरं तत्र तृणगुल्मावृतं महत्॥३४॥
आर्द्रपक्षान् क्रौञ्चहंसान्निःसृतान् ददृशुस्ततः।
अत्रास्ते सलिलं नूनं प्रविशामो महागुहाम्॥३५॥
इत्युक्त्वा हनुमानग्रे प्रविवेश तमन्वयुः।
सर्वे परस्परं धृत्वा बाहून् बाहुभिरुत्सुकाः॥३६॥
अन्धकारे महद्दूरं गत्वाऽपश्यन् कपीश्वराः।
जलाशयान् मणिनिभतोयान् कल्पद्रुमोपमान्॥३७॥
वृक्षान् पक्वफलैर्नम्रान् मधुद्रोणसमन्वितान्।
गृहान् सर्वगुणोपेतान् मणिवस्त्रादिपूरितान्॥३८॥
दिव्यभक्ष्यान्नसहितान् मानुषैः परिवर्जितान्।
विस्मितास्तत्र भवने दिव्ये कनकविष्टरे॥३९॥
प्रभया दीप्यमानां तु ददृशुः स्त्रियमेककाम्।
ध्यायन्तीं चीरवसनां योगिनीं योगमास्थिताम्॥४०॥
प्रणेमुस्तां महाभागां भक्त्या भीत्या च वानराः।
दृष्ट्वा तान् वानरान् देवी प्राह यूयं किमागताः॥४१॥
कुतो वा कस्य दूता वा मत्स्थानं किं प्रधर्षथ।
तच्छ्रुत्वा हनुमानाह शृणु वक्ष्यामि देवि ते॥४२॥
अयोध्याधिपतिः श्रीमान् राजा दशरथः प्रभुः।
तस्य पुत्रो महाभागो ज्येष्ठो राम इति श्रुतः॥४३॥
पितुराज्ञां पुरस्कृत्य सभार्यः सानुजो वनम्।
गतस्तत्र हृता भार्या तस्य साध्वी दुरात्मना॥४४॥
रावणेन ततो रामः सुग्रीवं सानुजो ययौ।
सुग्रीवो मित्रभावेन रामस्य प्रियवल्लभाम्॥४५॥
मृगयध्वमिति प्राह ततो वयमुपागताः।
ततो वनं विचिन्वन्तो जानकीं जलकाङ्क्षिणः॥४६॥
प्रविष्टा गह्वरं घोरं दैवादत्र समागताः।
त्वं वा किमर्थमत्रासि का वा त्वं वद नः शुभे॥४७॥
योगिनी च तथा दृष्ट्वा वानरान् प्राह हृष्टधीः।
यथेष्टं फलमूलानि जग्ध्वा पीत्वाऽमृतं पयः॥४८॥
आगच्छत ततो वक्ष्ये मम वृत्तान्तमादितः।
तथेति भुक्त्वा पीत्वा च हृष्टास्ते सर्ववानराः॥४९॥
देव्याः समीपं गत्वा ते बद्धाञ्जलिपुटाः स्थिताः।
ततः प्राह हनूमन्तं योगिनी दिव्यदर्शना॥५०॥
हेमा नाम पुरा दिव्यरूपिणी विश्वकर्मणः।
पुत्री महेशं नृत्येन तोषयामास भामिनी॥५१॥
तुष्टो महेशः प्रददाविदं दिव्यपुरं महत्।
अत्र स्थिता सा सुदती वर्षाणामयुतायुतम्॥५२॥
तस्या अहं सखी विष्णुतत्परा मोक्षकाङ्क्षिणी।
नाम्ना स्वयम्प्रभा दिव्यगन्धर्वतनया पुरा॥५३॥
गच्छन्ती ब्रह्मलोकं सा मामाहेदं तपश्चर।
अत्रैव निवसन्ती त्वं सर्वप्राणिविवर्जिते॥५४॥
त्रेतायुगे दाशरथिर्भूत्वा नारायणोऽव्ययः।
भूभारहरणार्थाय विचरिष्यति कानने॥५५॥
मार्गन्तो वानरास्तस्य भार्यामायान्ति ते गुहाम्।
पूजयित्वाऽथ तान् नत्वा रामं स्तुत्वा प्रयत्नतः॥५६॥
यातासि भवनं विष्णोर्योगिगम्यं सनातनम्।
इतोऽहं गन्तुमिच्छामि रामं द्रष्टुं त्वरान्विता॥५७॥
यूयं पिदध्वमक्षीणि गमिष्यथ बहिर्गुहाम्।
तथैव चक्रुस्ते वेगाद्गताः पूर्वस्थितं वनम्॥५८॥
साऽपि त्यक्त्वा गुहां शीघ्रं ययौ राघवसन्निधिम्।
तत्र रामं ससुग्रीवं लक्ष्मणं च ददर्श ह॥५९॥
कृत्वा प्रदक्षिणं रामं प्रणम्य बहुशः सुधीः।
आह गद्गदया वाचा रोमाञ्चिततनूरुहा॥६०॥
दासी तवाहं राजेन्द्र दर्शनार्थमिहाऽऽगता।
बहुवर्षसहस्राणि तप्तं मे दुश्चरं तपः॥६१॥
गुहायां दर्शनार्थं ते फलितं मेऽद्य तत्तपः।
अद्य हि त्वां नमस्यामि मायायाः परतः स्थितम्॥६२॥
सर्वभूतेषु चालक्ष्यं बहिरन्तरवस्थितम्।
योगमायाजवनिकाच्छन्नो मानुषविग्रहः॥६३॥
न लक्ष्यसेऽज्ञानदृशां शैलूष इव रूपधृक्।
महाभागवतानां त्वं भक्तियोगविधित्सया॥६४॥
अवतीर्णोऽसि भगवन् कथं जानामि तामसी।
लोके जानातु यः कश्चित् तव तत्त्वं रघूत्तम॥६५॥
ममैतदेव रूपं ते सदा भातु हृदालये।
राम ते पादयुगलं दर्शितं मोक्षदर्शनम्॥६६॥
अदर्शनं भवार्णानां सन्मार्गपरिदर्शनम्।
धनपुत्रकलत्रादिविभूतिपरिदर्पितः।
अकिञ्चनधनं त्वाऽद्य नाभिधातुं जनोऽर्हति॥६७॥
निवृत्तगुणमार्गाय निष्किञ्चनधनाय ते॥६८॥॥६८॥
नमः स्वात्माभिरामाय निर्गुणाय गुणात्मने।
कालरूपिणमीशानमादिमध्यान्तवर्जितम्॥६९॥
समं चरन्तं सर्वत्र मन्ये त्वां पुरुषं परम्।
देव ते चेष्टितं कश्चिन्न वेद नृविडम्बनम्॥७०॥
न तेऽस्ति कश्चिद्दयितो द्वेष्यो वाऽपर एव च।
त्वन्मायापिहितात्मानस्त्वां पश्यन्ति तथाविधम्॥७१॥
अजस्याकर्तुरीशस्य देवतिर्यङ्नरादिषु।
जन्मकर्मादिकं यद्यत्तदत्यन्तविडम्बनम्॥७२॥
त्वामाहुरक्षरं जातं कथाश्रवणसिद्धये।
केचित्कोसलराजस्य तपसः फलसिद्धये॥७३॥
कौसल्यया प्रार्थ्यमानं जातमाहुः परे जनाः।
दुष्टराक्षसभूभारहरणायार्थितो विभुः॥७४॥
ब्रह्मणा नररूपेण जातोऽयमिति केचन।
शृण्वन्ति गायन्ति च ये कथास्ते रघुनन्दन॥७५॥
पश्यन्ति तव पादाब्जं भवार्णवसुतारणम्।
त्वन्मायागुणबद्धाहं व्यतिरिक्तं गुणाश्रयम्॥७६॥
कथं त्वां देव जानीयां स्तोतुं वाऽविषयं विभुम्।
नमस्यामि रघुश्रेष्ठं बाणासनशरान्वितम्।
लक्ष्मणेन सह भ्रात्रा सुग्रीवादिभिरन्वितम्॥७७॥
एवं स्तुतो रघुश्रेष्ठः प्रसन्नः प्रणताघहृत्।
उवाच योगिनीं भक्तां किं ते मनसि काङ्क्षितम्॥७८॥
सा प्राह राघवं भक्त्या भक्तिं ते भक्तवत्सल।
यत्र कुत्रापि जाताया निश्चलां देहि मे प्रभो॥७९॥
त्वद्भक्तेषु सदा सङ्गो भूयान्मे प्राकृतेषु न।
जिह्वा मे रामरामेति भक्त्या वदतु सर्वदा॥८०॥
मानसं श्यामलं रूपं सीतालक्ष्मणसंयुतम्।
धनुर्बाणधरं पीतवाससं मुकुटोज्ज्वलम्॥८१॥
अङ्गदैर्नूपुरैर्मुक्ताहारैः कौस्तुभकुण्डलैः।
भान्तं स्मरतु मे राम वरं नान्यं वृणे प्रभो॥८२॥
श्रीराम उवाच
भवत्वेवं महाभागे गच्छ त्वं बदरीवनम्।
तत्रैव मां स्मरन्ती त्वं त्यक्त्वेदं भूतपञ्चकम्।
मामेव परमात्मानमचिरात्प्रतिपद्यसे॥८३॥
श्रुत्वा रघूत्तमवचोऽमृतसारकल्पं
गत्वा तदैव बदरीतरुखण्डजुष्टम्।
तीर्थं तदा रघुपतिं मनसा स्मरन्ती
त्यक्त्वा कलेवरमवाप परं पदं सा॥८४॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे षष्ठः सर्गः॥
❀