पञ्चमः सर्गः

रामस्तु पर्वतस्याग्रे मणिसानौ निशामुखे।
सीताविरहजं शोकमसहन्निदमब्रवीत्॥१॥
पश्य लक्ष्मण मे सीता राक्षसेन हृता बलात्।
मृताऽमृता वा निश्चेतुं न जानेऽद्यापि भामिनीम्॥२॥
जीवतीति मम ब्रूयात्कश्चिद् वा प्रियकृत् स मे।
यदि जानामि तां साध्वीं जीवन्तीं यत्र कुत्र वा॥३॥
हठादेवाहरिष्यामि सुधामिव पयोनिधेः।
प्रतिज्ञां शृणु मे भ्रातर्येन मे जनकात्मजा॥४॥
नीता तं भस्मसात्कुर्यां सपुत्रबलवाहनम्।
हे सीते चन्द्रवदने वसन्ती राक्षसालये॥५॥
दुःखार्त्ता मामपश्यन्ती कथं प्राणान् धरिष्यसि।
चन्द्रोऽपि भानुवद्भाति मम चन्द्राननां विना॥६॥
चन्द्र त्वं जानकीं स्पृष्ट्वा करैर्मां स्पृश शीतलैः।
सुग्रीवोऽपि दयाहीनो दुःखितं मां न पश्यति॥७॥
राज्यं निष्कण्टकं प्राप्य स्त्रीभिः परिवृतो रहः।
कृतघ्नो दृश्यते व्यक्तं पानासक्तोऽतिकामुकः॥८॥
नाऽऽयाति शरदं पश्यन्नपि मार्गयितुं प्रियाम्।
पूर्वोपकारिणं दुष्टः कृतघ्नो विस्मृतो हि माम्॥९॥
हन्मि सुग्रीवमप्येवं सपुरं सहबान्धवम्।
वाली यथा हतो मेऽद्य सुग्रीवोऽपि तथा भवेत्॥१०॥
इति रुष्टं समालोक्य राघवं लक्ष्मणोऽब्रवीत्।
इदानीमेव गत्वाऽहं सुग्रीवं दुष्टमानसम्॥११॥
मामाज्ञापय हत्वा तमायास्ये राम तेऽन्तिकम्।
इत्युक्त्वा धनुरादाय स्वयं तूणीरमेव च॥१२॥
गन्तुमभ्युद्यतं वीक्ष्य रामो लक्ष्मणमब्रवीत्।
न हन्तव्यस्त्वया वत्स सुग्रीवो मे प्रियः सखा॥१३॥
किन्तु भीषय सुग्रीवं वालिवत्त्वं हनिष्यसे।
इत्युक्त्वा शीघ्रमादाय सुग्रीवप्रतिभाषितम्॥१४॥
आगत्य पश्चाद्यत्कार्यं तत्करिष्याम्यसंशयम्।
तथेति लक्ष्मणोऽगच्छत्त्वरितो भीमविक्रमः॥१५॥
किष्किन्धां प्रति कोपेन निर्दहन्निव वानरान्।
सर्वज्ञो नित्यलक्ष्मीको विज्ञानात्माऽपि राघवः॥१६॥
सीतामनुशुशोचार्त्तः प्राकृतः प्राकृतामिव।
बुद्ध्यादिसाक्षिणस्तस्य मायाकार्यातिवर्तिनः॥१७॥
रागादिरहितस्यास्य तत्कार्यं कथमुद्भवेत्।
ब्रह्मणोक्तमृतं कर्तुं राज्ञो दशरथस्य हि॥१८॥
तपसः फलदानाय जातो मानुषवेषधृक्।
मायया मोहिताः सर्वे जना अज्ञानसंयुताः॥१९॥
कथमेषां भवेन्मोक्ष इति विष्णुर्विचिन्तयन्।
कथां प्रथयितुं लोके सर्वलोकमलापहाम्॥२०॥
रामायणाभिधां रामो भूत्वा मानुषचेष्टकः।
क्रोधं मोहं च कामं च व्यवहारार्थसिद्धये॥२१॥
तत्तत्कालोचितं गृह्णन् मोहयत्यवशाः प्रजाः।
अनुरक्त इवाशेषगुणेषु गुणवर्जितः॥२२॥
विज्ञानमूर्तिर्विज्ञानशक्तिः साक्ष्यगुणान्वितः।
अतः कामादिभिर्नित्यमविलिप्तो यथा नभः॥२३॥
विन्दन्ति मुनयः केचिज्जानन्ति जनकादयः।
तद् भक्ता निर्मलात्मानः सम्यग्जानन्ति नित्यदा।
भक्तचित्तानुसारेण जायते भगवानजः॥२४॥
लक्ष्मणोऽपि तदा गत्वा किष्किन्धानगरान्तिकम्।
ज्याघोषमकरोत्तीव्रं भीषयन् सर्ववानरान्॥२५॥
तं दृष्ट्वा प्राकृतास्तत्र वानरा वप्रमूर्धनि।
चक्रुः किलकिलाशब्दं धृतपाषाणपादपाः॥२६॥
तान् दृष्ट्वा क्रोधताम्राक्षो वानरान् लक्ष्मणस्तदा।
निर्मूलान् कर्तुमुद्युक्तो धनुरानम्य वीर्यवान्॥२७॥
ततः शीघ्रं समाप्लुत्य ज्ञात्वा लक्ष्मणमागतम्॥२८॥
निवार्य वानरान् सर्वानङ्गदो मन्त्रिसत्तमः।
गत्वा लक्ष्मणसामीप्यं प्रणनाम स दण्डवत्॥२९॥
ततोऽङ्गदं परिष्वज्य लक्ष्मणः प्रियवर्धनः।
उवाच वत्स गच्छ त्वं पितृव्याय निवेदय॥३०॥
मामागतं राघवेण चोदितं रौद्रमूर्तिना।
तथेति त्वरितं गत्वा सुग्रीवाय न्यवेदयत्॥३१॥
लक्ष्मणः क्रोधताम्राक्षः पुरद्वारि बहिः स्थितः।
तच्छ्रुत्वाऽतीव सन्त्रस्तः सुग्रीवो वानरेश्वरः॥३२॥
आहूय मन्त्रिणां श्रेष्ठं हनूमन्तमथाब्रवीत्।
गच्छ त्वमङ्गदेनाशु लक्ष्मणं विनयान्वितः॥३३॥
सान्त्वयन् कोपितं वीरं शनैरानय सादरम्।
प्रेषयित्वा हनूमन्तं तारामाह कपीश्वरः॥३४॥
त्वं गच्छ सान्त्वयन्ती तं लक्ष्मणं मृदुभाषितैः।
शान्तमन्तःपुरं नीत्वा पश्चाद्दर्शय मेऽनघे॥३५॥
भवत्विति ततस्तारा मध्यकक्षं समाविशत्।
हनुमानङ्गदेनैव सहितो लक्ष्मणान्तिकम्॥३६॥
गत्वा ननाम शिरसा भक्त्या स्वागतमब्रवीत्।
एहि वीर महाभाग भवद्गृहमशङ्कितम्॥३७॥
प्रविश्य राजदारादीन् दृष्ट्वा सुग्रीवमेव च।
यदाज्ञापयसे पश्चात्तत्सर्वं करवाणि भोः॥३८॥
इत्युक्त्वा लक्ष्मणं भक्त्या करे गृह्य स मारुतिः।
आनयामास नगरमध्याद्राजगृहं प्रति॥३९॥
पश्यंस्तत्र महासौधान् यूथपानां समन्ततः।
जगाम भवनं राज्ञः सुरेन्द्रभवनोपमम्॥४०॥
मध्यकक्षे गता तत्र तारा ताराधिपानना।
सर्वाभरणसम्पन्ना मदरक्तान्तलोचना॥४१॥
उवाच लक्ष्मणं नत्वा स्मितपूर्वाभिभाषिणी।
एहि देवर भद्रं ते साधुस्त्वं भक्तवत्सलः॥४२॥
किमर्थं कोपमाकार्षीर्भक्ते भृत्ये कपीश्वरे।
बहुकालमनाश्वासं दुःखमेवानुभूतवान्॥४३॥
इदानीं बहुदुःखौघाद्भवद्भिरभिरक्षितः।
भवत्प्रसादात्सुग्रीवः प्राप्तसौख्यो महामतिः॥४४॥
कामासक्तो रघुपतेः सेवार्थं नागतो हरिः।
आगमिष्यन्ति हरयो नानादेशगताः प्रभो॥४५॥
प्रेषितो दशसाहस्रा हरयो रघुसत्तम।
आनेतुं वानरान् दिग्भ्यो महापर्वतसन्निभान्॥४६॥
सुग्रीवः स्वयमागत्य सर्ववानरयूथपैः।
वधयिष्यति दैत्यौघान् रावणं च हनिष्यति॥४७॥
त्वयैव सहितोऽद्यैव गन्ता वानरपुङ्गवः।
पश्यान्तर्भवनं तत्र पुत्रदारसुहृद्वृतम्॥४८॥
दृष्ट्वा सुग्रीवमभयं दत्त्वा नय सहैव ते।
ताराया वचनं श्रुत्वा कृशक्रोधोऽथ लक्ष्मणः॥४९॥
जगामान्तःपुरं यत्र सुग्रीवो वानरेश्वरः।
रुमामालिङ्ग्य सुग्रीवः पर्यङ्के पर्यवस्थितः॥५०॥
दृष्ट्वा लक्ष्मणमत्यर्थमुत्पपातातिभीतवत्।
तं दृष्ट्वा लक्ष्मणः क्रुद्धो मदविह्वलितेक्षणम्॥५१॥
सुग्रीवं प्राह दुर्वृत्त विस्मृतोऽसि रघूत्तमम्।
वाली येन हतो वीरः स बाणोऽद्य प्रतीक्षते॥५२॥
त्वमेव वालिनो मार्गं गमिष्यसि मया हतः।
एवमत्यन्तपरुषं वदन्तं लक्ष्मणं तदा॥५३॥
उवाच हनुमान् वीरः कथमेवं प्रभाषसे।
त्वत्तोऽधिकतरो रामे भक्तोऽयं वानराधिपः॥५४॥
रामकार्यार्थमनिशं जागर्ति न तु विस्मृतः।
आगताः परितः पश्य वानराः कोटिशः प्रभो॥५५॥
गमिष्यन्त्यचिरेणैव सीतायाः परिमार्गणम्।
साधयिष्यति सुग्रीवो रामकार्यमशेषतः॥५६॥
श्रुत्वा हनुमतो वाक्यं सौमित्रिर्लज्जितोऽभवत्।
सुग्रीवोऽप्यर्घ्यपाद्याद्यैर्लक्ष्मणं समपूजयत्॥५७॥
आलिङ्ग्य प्राह रामस्य दासोऽहं तेन रक्षितः।
रामः स्वतेजसा लोकान् क्षणार्धेनैव जेष्यति॥५८॥
सहायमात्रमेवाहं वानरैः सहितः प्रभो।
सौमित्रिरपि सुग्रीवं प्राह किञ्चिन्मयोदितम्॥५९॥
तत्क्षमस्व महाभाग प्रणयाद्भाषितं मया।
गच्छामोऽद्यैव सुग्रीव रामस्तिष्ठति कानने॥६०॥
एक एवातिदुःखार्त्तो जानकीविरहात्प्रभुः।
तथेति रथमारुह्य लक्ष्मणेन समन्वितः॥६१॥
वानरैः सहितो राजा राममेवान्वपद्यत॥६२॥
भेरीमृदङ्गैर्बहुऋक्षवानरैः श्वेतातपत्रैर्व्यजनैश्च शोभितः।
नीलाङ्गदाद्यैर्हनुमत्प्रधानैः समावृतो राघवमभ्यगाद्धरिः॥६३॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे पञ्चमः सर्गः॥