तृतीयः सर्गः
निहते वालिनि रणे रामेण परमात्मना।
दुद्रुवुर्वानराः सर्वे किष्किन्धां भयविह्वलाः॥१॥
तारामूचुर्महाभागे हतो वाली रणाजिरे।
अङ्गदं परिरक्षाद्य मन्त्रिणः परिनोदय॥२॥
चतुर्द्वारकपाटादीन् बद्ध्वा रक्षामहे पुरीम्।
वानराणां तु राजानमङ्गदं कुरु भामिनि॥३॥
निहतं वालिनं श्रुत्वा तारा शोकविमूर्छिता।
अताडयत्स्वपाणिभ्यां शिरो वक्षश्च भूरिशः॥४॥
किमङ्गदेन राज्येन नगरेण धनेन वा।
इदानीमेव निधनं यास्यामि पतिना सह॥५॥
इत्युक्त्वा त्वरिता तत्र रुदती मुक्तमूर्धजा।
ययौ ताराऽतिशोकार्ता यत्र भर्तृकलेवरम्॥६॥
पतितं वालिनं दृष्ट्वा रक्तैः पांसुभिरावृतम्।
रुदती नाथनाथेति पतिता तस्य पादयोः॥७॥
करुणं विलपन्ती सा ददर्श रघुनन्दनम्।
राम मां जहि बाणेन येन वाली हतस्त्वया॥८॥
गच्छामि पतिसालोक्यं पतिर्मामभिकाङ्क्षते।
स्वर्गेऽपि न सुखं तस्य मां विना रघुनन्दन॥९॥
पत्नीवियोगजं दुःखमनुभूतं त्वयाऽनघ।
वालिने मां प्रयच्छाशु पत्नीदानफलं भवेत्॥१०॥
सुग्रीव त्वं सुखं राज्यं दापितं वालिघातिना।
रामेण रुमया सार्धं भुङ्क्ष्व सापत्नवर्जितम्॥११॥
इत्येवं विलपन्तीं तां तारां रामो महामनाः।
सान्त्वयामास दयया तत्त्वज्ञानोपदेशतः॥१२॥
किं भीरु शोचसि व्यर्थं शोकस्याविषयं पतिम्।
पतिस्तवायं देहो वा जीवो वा वद तत्त्वतः॥१३॥
पञ्चात्मको जडो देहस्त्वङ्मांसरुधिरास्थिमान्।
कालकर्मगुणोत्पन्नः सोऽप्यास्तेऽद्यापि ते पुरः॥१४॥
मन्यसे जीवमात्मानं जीवस्तर्हि निरामयः।
न जायते न म्रियते न तिष्ठति न गच्छति॥१५॥
न स्त्री पुमान्वा षण्ढो वा जीवः सर्वगतोऽव्ययः।
एक एवाद्वितीयोऽयमाकाशवदलेपकः।
नित्यो ज्ञानमयः शुद्धः स कथं शोकमर्हति॥१६॥
तारोवाच
देहोऽचित्काष्ठवद्राम जीवो नित्यश्चिदात्मकः।
सुखदुःखादिसम्बन्धः कस्य स्याद्राम मे वद॥१७॥
श्रीराम उवाच
अहङ्कारादिसम्बन्धो यावद्देहेन्द्रियैः सह।
संसारस्तावदेव स्यादात्मनस्त्वविवेकिनः॥१८॥
मिथ्यारोपितसंसारो न स्वयं विनिवर्तते।
विषयान् ध्यायमानस्य स्वप्ने मिथ्यागमो यथा॥१९॥
अनाद्यविद्यासम्बन्धात्तत्कार्याहङ्कृतेस्तथा।
संसारोऽपार्थकोऽपि स्याद्रागद्वेषादिसङ्कुलः॥२०॥
मन एव हि संसारो बन्धश्चैव मनः शुभे।
आत्मा मनःसमानत्वमेत्य तद्गतबन्धभाक्॥२१॥
यथा विशुद्धः स्फटिकोऽलक्तकादिसमीपगः।
तत्तद्वर्णयुगाभाति वस्तुतो नास्ति रञ्जनम्॥२२॥
बुद्धीन्द्रियादिसामीप्यादात्मनः संसृतिर्बलात्।
आत्मा स्वलिङ्गं तु मनः परिगृह्य तदुद्भवान्॥२३॥
कामान् जुषन् गुणैर्बद्धः संसारे वर्ततेऽवशः।
आदौ मनोगुणान् सृष्ट्वा ततः कर्माण्यनेकधा॥२४॥
शुक्ललोहितकृष्णानि गतयस्तत्समानतः।
एवं कर्मवशाज्जीवो भ्रमत्याभूतसम्प्लवम्॥२५॥
सर्वोपसंहृतौ जीवो वासनाभिः स्वकर्मभिः।
अनाद्यविद्यावशगस्तिष्ठत्यभिनिवेशतः॥२६॥
सृष्टिकाले पुनः पूर्ववासनामानसैः सह।
जायते पुनरप्येवं घटीयन्त्रमिवावशः॥२७॥
यदा पुण्यविशेषेण लभते सङ्गतिं सताम्।
मद्भक्तानां सुशान्तानां तदा मद्विषया मतिः॥२८॥
मत्कथाश्रवणे श्रद्धा दुर्लभा जायते ततः।
ततः स्वरूपविज्ञानमनायासेन जायते॥२९॥
तदाऽऽचार्यप्रसादेन वाक्यार्थज्ञानतः क्षणात्।
देहेन्द्रियमनःप्राणाहङ्कृतिभ्यः पृथक् स्थितम्॥३०॥
स्वात्मानुभवतः सत्यमानन्दात्मानमद्वयम्।
ज्ञात्वा सद्यो भवेन्मुक्तः सत्यमेव मयोदितम्॥३१॥
एवं मयोदितं सम्यगालोचयति योऽनिशम्।
तस्य संसारदुःखानि न स्पृशन्ति कदाचन॥३२॥
त्वमप्येतन्मया प्रोक्तमालोचय विशुद्धधीः।
न स्पृश्यसे दुःखजालैः कर्मबन्धाद्विमोक्ष्यसे॥३३॥
पूर्वजन्मनि ते सुभ्रु कृता मद्भक्तिरुत्तमा।
अतस्तव विमोक्षाय रूपं मे दर्शितं शुभे॥३४॥
ध्यात्वा मद्रूपमनिशमालोचय मयोदितम्।
प्रवाहपतितं कार्यं कुर्वन्त्यपि न लिप्यसे॥३५॥
श्रीरामेणोदितं सर्वं श्रुत्वा ताराऽतिविस्मिता।
देहाभिमानजं शोकं त्यक्त्वा नत्वा रघूत्तमम्॥३६॥
आत्मानुभवसन्तुष्टा जीवन्मुक्ता बभूव ह।
क्षणसङ्गममात्रेण रामेण परमात्मना॥३७॥
अनादिबन्धं निर्धूय मुक्ता साऽपि विकल्मषा।
सुग्रीवोऽपि च तच्छ्रुत्वा रामवक्त्रात्समीरितम्॥३८॥
जहावज्ञानमखिलं स्वस्थचित्तोऽभवत्तदा।
ततः सुग्रीवमाहेदं रामो वानरपुङ्गवम्॥३९॥
भ्रातुर्ज्येष्ठस्य पुत्रेण यदुक्तं साम्परायिकम्।
कुरु सर्वं यथान्यायं संस्कारादि ममाऽऽज्ञया॥४०॥
तथेति बलिभिर्मुख्यैर्वानरैः परिणीय तम्।
वालिनं पुष्पके क्षिप्त्वा सर्वराजोपचारकैः॥४१॥
भेरीदुन्दुभिनिर्घोषैर्ब्राह्मणैर्मन्त्रिभिः सह।
यूथपैर्वानरैः पौरैस्तारया चाङ्गदेन च॥४२॥
गत्वा चकार तत्सर्वं यथाशास्त्रं प्रयत्नतः।
स्नात्वा जगाम रामस्य समीपं मन्त्रिभिः सह॥४३॥
नत्वा रामस्य चरणौ सुग्रीवः प्राह हृष्टधीः।
राज्यं प्रशाधि राजेन्द्र वानराणां समृद्धिमत्॥४४॥
दासोऽहं ते पादपद्मं सेवे लक्ष्मणवच्चिरम्।
इत्युक्तो राघवः प्राह सुग्रीवं सस्मितं वचः॥४५॥
त्वमेवाहं न सन्देहः शीघ्रं गच्छ ममाऽऽज्ञया।
पुरराज्याधिपत्ये त्वं स्वात्मानमभिषेचय॥४६॥
नगरं न प्रवेक्ष्यामि चतुर्दश समाः सखे।
आगमिष्यति मे भ्राता लक्ष्मणः पत्तनं तव॥४७॥
अङ्गदं यौवराज्ये त्वमभिषेचय सादरम्।
अहं समीपे शिखरे पर्वतस्य सहानुजः॥४८॥
वत्स्यामि वर्षदिवसांस्ततस्त्वं यत्नवान् भव।
किञ्चित्कालं पुरे स्थित्वा सीतायाः परिमार्गणे॥४९॥
साष्टाङ्गं प्रणिपत्याह सुग्रीवो रामपादयोः।
यदाज्ञापयसे देव तत्तथैव करोम्यहम्॥५०॥
अनुज्ञातश्च रामेण सुग्रीवस्तु सलक्ष्मणः।
गत्वा पुरं तथा चक्रे यथा रामेण चोदितः॥५१॥
सुग्रिवेण यथान्यायं पूजितो लक्ष्मणस्तदा।
आगत्य राघवं शीघ्रं प्रणिपत्योपतस्थिवान्॥५२॥
ततो रामो जगामाऽऽशु लक्ष्मणेन समन्वितः।
प्रवर्षणगिरेरूर्ध्वं शिखरं भूरिविस्तरम्॥५३॥
तत्रैकं गह्वरं दृष्ट्वा स्फाटिकं दीप्तिमच्छुभम्।
वर्षवातातपसहं फलमूलसमीपगम्।
वासाय रोचयामास तत्र रामः सलक्ष्मणः॥५४॥
दिव्यमूलफलपुष्पसंयुते मौक्तिकोपमजलौघपल्वले।
चित्रवर्णमृगपक्षिशोभिते पर्वते रघुकुलोत्तमोऽवसत्॥५५॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे तृतीयः सर्गः॥
❀