द्वितीयः सर्गः

इत्थं स्वात्मपरिष्वङ्गनिर्धूताशेषकल्मषम्।
रामः सुग्रीवमालोक्य सस्मितं वाक्यमब्रवीत्॥१॥
मायां मोहकरीं तस्मिन् वितन्वन् कार्यसिद्धये।
सखे त्वदुक्तं यत्तन्मां सत्यमेव न संशयः॥२॥
किन्तु लोका वदिष्यन्ति मामेवं रघुनन्दनः।
कृतवान् किं कपीन्द्राय सख्यं कृत्वाऽग्निसाक्षिकम्॥३॥
इति लोकापवादो मे भविष्यति न संशयः।
तस्मादाह्वय भद्रं ते गत्वा युद्धाय वालिनम्॥४॥
बाणेनैकेन तं हत्वा राज्ये त्वामभिषेचये।
तथेति गत्वा सुग्रीवः किष्किन्धोपवनं द्रुतम्॥५॥
कृत्वा शब्दं महानादं तमाह्वयत वालिनम्।
तच्छ्रुत्वा भ्रातृनिनदं रोषताम्रविलोचनः॥६॥
निर्जगाम गृहाच्छीघ्रं सुग्रीवो यत्र वानरः।
तमापतन्तं सुग्रीवः शीघ्रं वक्षस्यताडयत्॥७॥
सुग्रीवमपि मुष्टिभ्यां जघान क्रोधमूर्छितः।
वाली तमपि सुग्रीव एवं क्रुद्धौ परस्परम्॥८॥
अयुद्ध्येतामेकरूपौ दृष्ट्वा रामोऽतिविस्मितः।
न मुमोच तदा बाणं सुग्रीववधशङ्कया॥९॥
ततो दुद्राव सुग्रीवो वमन् रक्तं भयाकुलः।
वाली स्वभवनं यातः सुग्रीवो राममब्रवीत्॥१०॥
किं मां घातयसे राम शत्रुणा भ्रातृरूपिणा।
यदि मद्धनने वाञ्छा त्वमेव जहि मां विभो॥११॥
एवं मे प्रत्ययं कृत्वा सत्यवादिन् रघूत्तम।
उपेक्षसे किमर्थं मां शरणागतवत्सल॥१२॥
श्रुत्वा सुग्रीववचनं रामः साश्रुविलोचनः।
आलिङ्ग्य मा स्म भैषीस्त्वं दृष्ट्वा वामेकरूपिणौ॥१३॥
मित्रघातित्वमाशङ्क्य मुक्तवान् सायकं न हि।
इदानीमेव ते चिह्नं करिष्ये भ्रमशान्तये॥१४॥
गत्वाऽऽह्वय पुनः शत्रुं हतं द्रक्ष्यसि वालिनम्।
रामोऽहं त्वां शपे भ्रातर्हनिष्यामि रिपुं क्षणात्॥१५॥
इत्याश्वास्य स सुग्रीवं रामो लक्ष्मणमब्रवीत्।
सुग्रीवस्य गले पुष्पमालामामुच्य पुष्पिताम्॥१६॥
प्रेषयस्व महाभाग सुग्रीवं वालिनं प्रति।
लक्ष्मणस्तु तदा बद्ध्वा गच्छ गच्छेति सादरम्॥१७॥
प्रेषयामास सुग्रीवं सोऽपि गत्वा तथाऽकरोत्।
पुनरप्यद्भुतं शब्दं कृत्वा वालिनमाह्वयत्॥१८॥
तच्छ्रुत्वा विस्मितो वाली क्रोधेन महताऽऽवृतः।
बद्ध्वा परिकरं सम्यग्गमनायोपचक्रमे॥१९॥
गच्छन्तं वालिनं तारा गृहीत्वा निषिषेध तम्।
न गन्तव्यं त्वयेदानीं शङ्का मेऽतीव जायते॥२०॥
इदानीमेव ते भग्नः पुनरायाति सत्वरः।
सहायो बलवांस्तस्य कश्चिन्नूनं समागतः॥२१॥
वाली तामाह हे सुभ्रु शङ्का ते व्येतु तद्गता।
प्रिये करं परित्यज्य गच्छ गच्छामि तं रिपुम्॥२२॥
हत्वा शीघ्रं समायास्ये सहायस्तस्य को भवेत्।
सहायो यदि सुग्रीवस्ततो हत्वोभयं क्षणात्॥२३॥
आयास्ये मा शुचः शूरः कथं तिष्ठेद् गृहे रिपुम्।
ज्ञात्वाऽप्याह्वयमानं हि हत्वाऽऽयास्यामि सुन्दरि॥२४॥

तारोवाच

मत्तोऽन्यच्छृणु राजेन्द्र श्रुत्वा कुरु यथोचितम्।
आह मामङ्गदः पुत्रो मृगयायां श्रुतं वचः॥२५॥
अयोध्याधिपतिः श्रीमान् रामो दाशरथिः किल।
लक्ष्मणेन सह भ्रात्रा सीतया भार्यया सह॥२६॥
आगतो दण्डकारण्यं तत्र सीता हृता किल।
रावणेन सह भ्रात्रा मार्गमाणोऽथ जानकीम्॥२७॥
आगतो ऋष्यमूकाद्रिं सुग्रीवेण समागतः।
चकार तेन सुग्रीवः सख्यं चानलसाक्षिकम्॥२८॥
प्रतिज्ञां कृतवान् रामः सुग्रीवाय सलक्ष्मणः।
वालिनं समरे हत्वा राजानं त्वां करोम्यहम्॥२९॥
इति निश्चित्य तौ यातौ निश्चितं शृणु मद्वचः।
इदानीमेव ते भग्नः कथं पुनरुपागतः॥३०॥
अतस्त्वं सर्वथा वैरं त्यक्त्वा सुग्रीवमानय।
यौवराज्येऽभिषिञ्चाशु रामं त्वं शरणं व्रज॥३१॥
पाहि मामङ्गदं राज्यं कुलं च हरिपुङ्गव।
इत्युक्त्वाऽश्रुमुखी तारा पादयोः प्रणिपत्य तम्॥३२॥
हस्ताभ्यां चरणौ धृत्वा रुरोद भयविह्वला।
तामालिङ्ग्य तदा वाली सस्नेहमिदमब्रवीत्॥३३॥
स्त्रीस्वभावाद्बिभेषि त्वं प्रिये नास्ति भयं मम।
रामो यदि समायातो लक्ष्मणेन समं प्रभुः॥३४॥
तदा रामेण मे स्नेहो भविष्यति न संशयः।
रामो नारायणः साक्षादवतीर्णोऽखिलप्रभुः॥३५॥
भूभारहरणार्थाय श्रुतं पूर्वं मयाऽनघे।
स्वपक्षः परपक्षो वा नास्ति तस्य परात्मनः॥३६॥
आनेष्यामि गृहं साध्वि नत्वा तच्चरणाम्बुजम्।
भजतोऽनुभजत्येष भक्तिगम्यः सुरेश्वरः॥३७॥
यदि स्वयं समायाति सुग्रीवो हन्मि तं क्षणात्।
यदुक्तं यौवराज्याय सुगीवस्याभिषेचनम्॥३८॥
कथमाहूयमानोऽहं युद्धाय रिपुणा प्रिये।
शूरोऽहं सर्वलोकानां सम्मतः शुभलक्षणे॥३९॥
भीतभीतमिदं वाक्यं कथं वाली वदेत्प्रिये।
तस्माच्छोकं परित्यज्य तिष्ठ सुन्दरि वेश्मनि॥४०॥
एवमाश्वास्य तारां तां शोचन्तीमश्रुलोचनाम्।
गतो वाली समुद्युक्तः सुग्रीवस्य वधाय सः॥४१॥
दृष्ट्वा वालिनमायान्तं सुग्रीवो भीमविक्रमः।
उत्पपात गले बद्धपुष्पमालो मतङ्गवत्॥४२॥
मुष्टिभ्यां ताडयामास वालिनं सोऽपि तं तथा।
अहन्वाली च सुग्रीवं सुग्रीवो वालिनं तथा॥४३॥
रामं विलोकयन्नेव सुग्रीवो युयुधे युधि।
इत्येवं युद्ध्यमानौ तौ दृष्ट्वा रामः प्रतापवान्॥४४॥
बाणमादाय तूणीरादैन्द्रे धनुषि सन्दधे।
आकृष्य कर्णपर्यन्तमदृश्यो वृक्षखण्डगः॥४५॥
निरीक्ष्य वालिनं सम्यग्लक्ष्यं तद्धृदयं हरिः।
उत्ससर्जाशनिसमं महावेगं महाबलः॥४६॥
बिभेद स शरो वक्षो वालिनः कम्पयन् महीम्।
उत्पपात महाशब्दं मुञ्चन् स निपपात ह॥४७॥
तदा मुहूर्त्तं निःसंज्ञो भूत्वा चेतनमाप सः।
ततो वाली ददर्शाग्रे रामं राजीवलोचनम्।
धनुरालम्ब्य वामेन हस्तेनान्येन सायकम्॥४८॥
बिभ्राणं चीरवसनं जटामुकुटधारिणम्।
विशालवक्षसं भ्राजद्वनमालाविभूषितम्॥४९॥
पीनचार्वायतभुजं नवदूर्वादलच्छविम्।
सुग्रीवलक्ष्मणाभ्यां च पार्श्वयोः परिसेवितम्॥५०॥
विलोक्य शनकैः प्राह वाली रामं विगर्हयन्।
किं मयाऽपकृतं राम तव येन हतोऽस्म्यहम्॥५१॥
राजधर्ममविज्ञाय गर्हितं कर्म ते कृतम्।
वृक्षखण्डे तिरोभूत्वा त्यजता मयि सायकम्॥५२॥
यशः किं लप्स्यसे राम चोरवत्कृतसङ्गरः।
यदि क्षत्रियदायादो मनोर्वंशसमुद्भवः॥५३॥
युद्धं कृत्वा समक्षं मे प्राप्यसे तत्फलं तदा।
सुग्रीवेण कृतं किं ते मया वा न कृतं किमु॥५४॥
रावणेन हृता भार्या तव राम महावने।
सुग्रीवं शरणं यातस्तदर्थमिति शुश्रुम॥५५॥
बत राम न जानीषे मद्बलं लोकविश्रुतम्।
रावणं सकुलं बद्ध्वा ससीतं लङ्कया सह॥५६॥
आनयामि मुहूर्त्तार्धाद्यदि चेच्छामि राघव।
धर्मिष्ठ इति लोकेऽस्मिन् कथ्यसे रघुनन्दन॥५७॥
वानरं व्याधवद्धत्वा धर्मं कं लप्स्यसे वद।
अभक्ष्यं वानरं मांसं हत्वा मां किं करिष्यसि॥५८॥
इत्येवं बहु भाषन्तं वालिनं राघवोऽब्रवीत्।
धर्मस्य गोप्ता लोकेऽस्मिंश्चरामि सशरासनः॥५९॥
अधर्मकारिणं हत्वा सद्धर्मं पालयाम्यहम्।
दुहिता भगिनी भ्रातुर्भार्या चैव तथा स्नुषा॥६०॥
समा यो रमते तासामेकामपि विमूढधीः।
पातकी स तु विज्ञेयः स वध्यो राजभिः सदा॥६१॥
त्वं तु भ्रातुः कनिष्ठस्य भार्यायां रमसे बलात्।
अतो मया धर्मविदा हतोऽसि वनगोचर॥६२॥
त्वं कपित्वान्न जानीषे महान्तो विचरन्ति यत्।
लोकं पुनानाः सञ्चारैरतस्तान्नातिभाषयेत्॥६३॥
तच्छ्रुत्वा भयसन्त्रस्तो ज्ञात्वा रामं रमापतिम्।
वाली प्रणम्य रभसाद्रामं वचनमब्रवीत्॥६४॥
राम राम महाभाग जाने त्वां परमेश्वरम्।
अजानता मया किञ्चिदुक्तं तत्क्षन्तुमर्हसि॥६५॥
साक्षात्त्वच्छरघातेन विशेषेण तवाग्रतः।
त्यजाम्यसून् महायोगिदुर्लभं तव दर्शनम्॥६६॥
यन्नाम विवशो गृह्णन् म्रियमाणः परं पदम्।
याति साक्षात्स एवाद्य मुमूर्षोर्मे पुरः स्थितः॥६७॥
देव जानामि पुरुषं त्वां श्रियं जानकीं शुभाम्।
रावणस्य वधार्थाय जातं त्वां ब्रह्मणाऽर्थितम्॥६८॥
अनुजानीहि मां राम यान्तं त्वत्पदमुत्तमम्।
मम तुल्यबले बाले अङ्गदे त्वं दयां कुरु॥६९॥
विशल्यं कुरु मे राम हृदयं पाणिना स्पृशन्।
तथेति बाणमुद्धृत्य रामः पस्पर्श पाणिना।
त्यक्त्वा तद् वानरं देहममरेन्द्रोऽभवत्क्षणात्॥७०॥
वाली रघूत्तमशराभिहतो विमृष्टो
रामेण शीतलकरेण सुखाकरेण।
सद्यो विमुच्य कपिदेहमनन्यलभ्यं
प्राप्तं पदं परमहंसगणैर्दुरापम्॥७१॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे द्वितीयः सर्गः॥