प्रथमः सर्गः

श्री-महादेव उवाच

ततः सलक्ष्मणो रामः शनैः पम्पासरस्तटम्।
आगत्य सरसां श्रेष्ठां दृष्ट्वा विस्मयमाययौ॥१॥
क्रोशमात्रं सुविस्तीर्णमगाधामलशम्बरम्।
उत्फुल्लाम्बुजकल्हारकुमुदोत्पलमण्डितम्॥२॥
हंसकारण्डवाकीर्णं चक्रवाकादिशोभितम्।
जलकुक्कुटकोयष्टिक्रौञ्चनादोपनादितम्॥३॥
नानापुष्पलताकीर्णं नानाफलसमावृतम्।
सतां मनःस्वच्छजलं पद्मकिञ्जल्कवासितम्॥४॥
तत्रोपस्पृश्य सलिलं पीत्वा श्रमहरं विभुः।
सानुजः सरसस्तीरे शीतलेन पथा ययौ॥५॥
ऋष्यमूकगिरेः पार्श्वे गच्छन्तौ रामलक्ष्मणौ।
धनुर्बाणकरौ दान्तौ जटावल्कलमण्डितौ।
पश्यन्तौ विविधान् वृक्षान् गिरेः शोभां सुविक्रमौ॥६॥
सुग्रीवस्तु गिरेर्मूर्ध्नि चतुर्भिः सह वानरैः।
स्थित्वा ददर्श तौ यान्तावारुरोह गिरेः शिरः॥७॥
भयादाह हनूमन्तं कौ तौ वीरवरौ सखे।
गच्छ जानीहि भद्रं ते वटुर्भूत्वा द्विजाकृतिः॥८॥
वालिना प्रेषितौ किंवा मां हन्तुं समुपागतौ।
ताभ्यां सम्भाषणं कृत्वा जानीहि हृदयं तयोः॥९॥
यदि तौ दुष्टहृदयौ संज्ञां कुरु कराग्रतः।
विनयावनतो भूत्वा एवं जानीहि निश्चयम्॥१०॥
तथेति वटुरूपेण हनुमान् समुपागतः।
विनयावनतो भूत्वा रामं नत्वेदमब्रवीत्॥११॥
कौ युवां पुरुषव्याघ्रौ युवानौ वीरसम्मतौ।
द्योतयन्तौ दिशः सर्वाः प्रभया भास्कराविव॥१२॥
युवां त्रैलोक्यकर्ताराविति भाति मनो मम।
युवां प्रधानपुरुषौ जगद्धेतू जगन्मयौ॥१३॥
मायया मानुषाकारौ चरन्ताविव लीलया।
भूभारहरणार्थाय भक्तानां पालनाय च॥१४॥
अवतीर्णाविह परौ चरन्तौ क्षत्रियाकृती।
जगत्स्थितिलयौ सर्गं लीलया कर्तुमुद्यतौ॥१५॥
स्वतन्त्रौ प्रेरकौ सर्वहृदयस्थाविहेश्वरौ।
नरनारायणौ लोके चरन्ताविति मे मतिः॥१६॥
श्रीरामो लक्ष्मणं प्राह पश्यैनं वटुरूपिणम्।
शब्दशास्त्रमशेषेण श्रुतं नूनमनेकधा॥१७॥
अनेन भाषितं कृत्स्नं न किञ्चिदपशब्दितम्।
ततः प्राह हनूमन्तं राघवो ज्ञानविग्रहः॥१८॥
अहं दाशरथी रामस्त्वयं मे लक्ष्मणोऽनुजः।
सीतया भार्यया सार्धं पितुर्वचनगौरवात्॥१९॥
आगतस्तत्र विपिने स्थितोऽहं दण्डके द्विज।
तत्र भार्या हृता सीता रक्षसा केनचिन्मम।
तामन्वेष्टुमिहायातौ त्वं को वा कस्य वा वद॥२०॥

वटुरुवाच

सुग्रीवो नाम राजा यो वानराणां महामतिः।
चतुर्भिर्मन्त्रिभिः सार्धं गिरिमूर्धनि तिष्ठति॥२१॥
भ्राता कनियान् सुग्रीवो वालिनः पापचेतसः।
तेन निष्कासितो भार्या हृता तस्येह वालिना॥२२॥
तद् भयादृष्यमूकाख्यं गिरिमाश्रित्य संस्थितः।
अहं सुग्रीवसचिवो वायुपुत्रो महामते॥२३॥
हनुमान्नाम विख्यातो ह्यञ्जनीगर्भसम्भवः।
तेन सख्यं त्वया युक्तं सुग्रीवेण रघूत्तम॥२४॥
भार्यापहारिणं हन्तुं सहायस्ते भविष्यति।
इदानीमेव गच्छाम आगच्छ यदि रोचते॥२५॥

श्रीराम उवाच

अहमप्यागतस्तेन सख्यं कर्तुं कपीश्वर।
सख्युस्तस्यापि यत्कार्यं तत्करिष्याम्यसंशयम्॥२६॥
हनुमान् स्वस्वरूपेण स्थितो राममथाब्रवीत्।
आरोहतां मम स्कन्धौ गच्छामः पर्वतोपरि॥२७॥
यत्र तिष्ठति सुग्रीवो मन्त्रिभिर्वालिनो भयात्।
तथेति तस्यारुरोह स्कन्धं रामोऽथ लक्ष्मणः॥२८॥
उत्पपात गिरेर्मूर्ध्नि क्षणादेव महाकपिः।
वृक्षच्छायां समाश्रित्य स्थितौ तौ रामलक्ष्मणौ॥२९॥
हनुमानपि सुग्रीवमुपगम्य कृताञ्जलिः।
व्येतु ते भयमायातौ राजन् श्रीरामलक्ष्मणौ॥३०॥
शीघ्रमुत्तिष्ठ रामेण सख्यं ते योजितं मया।
अग्निं साक्षिणमारोप्य तेन सख्यं द्रुतं कुरु॥३१॥
ततोऽतिहर्षात्सुग्रीवः समागम्य रघूत्तमम्।
वृक्षशाखां स्वयं छित्वा विष्टराय ददौ मुदा॥३२॥
हनूमान्ल्लक्ष्मणायादात्सुग्रीवाय च लक्ष्मणः।
हर्षेण महताऽऽविष्टाः सर्व एवावतस्थिरे॥३३॥
लक्ष्मणस्त्वब्रवीत्सर्वं रामवृत्तान्तमादितः।
वनवासाभिगमनं सीताहरणमेव च॥३४॥
लक्ष्मणोक्तं वचः श्रुत्वा सुग्रीवो राममब्रवीत्।
अहं करिष्ये राजेन्द्र सीतायाः परिमार्गणम्॥३५॥
साहाय्यमपि ते राम करिष्ये शत्रुघातिनः।
शृणु राम मया दृष्टं किञ्चित्ते कथयाम्यहम्॥३६॥
एकदा मन्त्रिभिः सार्धं स्थितोऽहं गिरिमूर्धनि।
विहायसा नीयमानां केनचित्प्रमदोत्तमाम्॥३७॥
क्रोशन्तीं रामरामेति दृष्ट्वाऽस्मान् पर्वतोपरि।
आमुच्याभरणान्याशु स्वोत्तरीयेण भामिनी॥३८॥
निरीक्ष्याधः परित्यज्य क्रोशन्ती तेन रक्षसा।
नीताहं भूषणान्याशु गुहायामक्षिपं प्रभो॥३९॥
इदानीमपि पश्य त्वं जानीहि तव वा न वा।
इत्युक्त्वाऽऽनीय रामाय दर्शयामास वानरः॥४०॥
विमुच्य रामस्तद्दृष्ट्वा हा सीतेति मुहुर्मुहुः।
हृदि निक्षिप्य तत्सर्वं रुरोद प्राकृतो यथा॥४१॥
आश्वास्य राघवं भ्राता लक्ष्मणो वाक्यमब्रवीत्।
अचिरेणैव ते राम प्राप्यते जानकी शुभा।
वानरेन्द्रसहायेन हत्वा रावणमाहवे॥४२॥
सुग्रीवोऽप्याह हे राम प्रतिज्ञां करवाणि ते।
समरे रावणं हत्वा तव दास्यामि जानकीम्॥४३॥
ततो हनूमान् प्रज्वाल्य तयोरग्निं समीपतः।
तावुभौ रामसुग्रीवावग्नौ साक्षिणि तिष्ठति॥४४॥
बाहू प्रसार्य चालिङ्ग्य परस्परमकल्मषौ।
समीपे रघुनाथस्य सुग्रीवः समुपाविशत्॥४५॥
स्वोदन्तं कथयामास प्रणयाद् रघुनायके।
सखे शृणु ममोदन्तं वालिना यत्कृतं पुरा॥४६॥
मयपुत्रोऽथ मायावी नाम्ना परमदुर्मदः।
किष्किन्धां समुपागत्य वालिनं समुपाह्वयत्॥४७॥
सिंहनादेन महता वाली तु तदमर्षणः।
निर्ययौ क्रोधताम्राक्षो जघान दृढमुष्टिना॥४८॥
दुद्राव तेन संविग्नो जगाम स्वगुहां प्रति।
अनुदुद्राव तं वाली मायाविनमहं तथा॥४९॥
ततः प्रविष्टमालोक्य गुहां मायाविनं रुषा।
वाली मामाह तिष्ठ त्वं बहिर्गच्छाम्यहं गुहाम्।
इत्युक्त्वाऽऽविश्य स गुहां मासमेकं न निर्ययौ॥५०॥
मासादूर्ध्वं गुहाद् वारान्निर्गतं रुधिरं बहु।
तद्दृष्ट्वा परितप्ताङ्गो मृतो वालीति दुःखितः॥५१॥
गुहाद्वारि शिलामेकां निधाय गृहमागतः।
ततोऽब्रवं मृतो वाली गुहायां रक्षसा हतः॥५२॥
तच्छ्रुत्वा दुःखिताः सर्वे मामनिच्छन्तमप्युत।
राज्येऽभिषेचनं चक्रुः सर्वे वानरमन्त्रिणः॥५३॥
शिष्टं तदा मया राज्यं किञ्चित्कालमरिन्दम।
ततः समागतो वाली मामाह परुषं रुषा॥५४॥
बहुधा भर्त्सयित्वा मां निजघान च मुष्टिभिः।
ततो निर्गत्य नगरादधावं परया भिया॥५५॥
लोकान् सर्वान् परिक्रम्य ऋष्यमूकं समाश्रितः।
ऋषेः शापभयात्सोऽपि नायातीमं गिरिं प्रभो॥५६॥
तदादि मम भार्यां स स्वयं भुङ्क्ते विमूढधीः।
अतो दुःखेन सन्तप्तो हृतदारो हृताश्रयः॥५७॥
वसाम्यद्य भवत्पादसंस्पर्शात्सुखितोऽस्म्यहम्।
मित्रदुःखेन सन्तप्तो रामो राजीवलोचनः॥५८॥
हनिष्यामि तव द्वेष्यं शीघ्रं भार्यापहारिणम्।
इति प्रतिज्ञामकरोत्सुग्रीवस्य पुरस्तदा॥५९॥
सुग्रीवोऽप्याह राजेन्द्र वाली बलवतां बली।
कथं हनिष्यति भवान् देवैरपि दुरासदम्॥६०॥
शृणु ते कथयिष्यामि तद्बलं बलिनां वर।
कदाचिद्दुन्दुभिर्नाम महाकायो महाबलः॥६१॥
किष्किन्धामगमद्राम महामहिषरूपधृक्।
युद्धाय वालिनं रात्रौ समाह्वयत भीषणः॥६२॥
तच्छ्रुत्वाऽसहमानोऽसौ वाली परमकोपनः।
महिषं शृङ्गयोर्धृत्वा पातयामास भूतले॥६३॥
पादेनैकेन तत्कायमाक्रम्यास्य शिरो महत्।
हस्ताभ्यां भ्रामयंश्छित्त्वा तोलयित्वाऽक्षिपद्भुवि॥६४॥
पपात तच्छिरो राम मातङ्गाश्रमसन्निधौ।
योजनात् पतितं तस्मान्मुनेराश्रममण्डले॥६५॥
रक्तवृष्टिः पपातोच्चैर्दृष्ट्वा तां क्रोधमूर्च्छितः।
मातङ्गो वालिनं प्राह यद्यागन्तासि मे गिरिम्॥६६॥
इतः परं भग्नशिरा मरिष्यसि न संशयः।
एवं शप्तस्तदारभ्य ऋष्यमूकं न यात्यसौ॥६७॥
एतज्ज्ञात्वाऽहमप्यत्र वसामि भयवर्जितः।
राम पश्य शिरस्तस्य दुन्दुभेः पर्वतोपमम्॥६८॥
तत्क्षेपणे यदा शक्तः शक्तस्त्वं वालिनो वधे।
इत्युक्त्वा दर्शयामास शिरस्तद्गिरिसन्निभम्॥६९॥
दृष्ट्वा रामः स्मितं कृत्वा पादाङ्गुष्ठेन चाक्षिपत्।
दशयोजनपर्यन्तं तदद्भुतमिवाभवत्॥७०॥
साधु साध्विति सम्प्राह सुग्रीवो मन्त्रिभिः सह।
पुनरप्याह सुग्रीवो रामं भक्तपरायणम्॥७१॥
एते ताला महासाराः सप्त पश्य रघूत्तम।
एकैकं चालयित्वाऽसौ निष्पत्रान् कुरुतेऽञ्जसा॥७२॥
यदि त्वमेकबाणेन विद्ध्वा छिद्रं करोषि चेत्।
हतस्त्वया तदा वाली विश्वासो मे प्रजायते।
तथेति धनुरादाय सायकं तत्र सन्दधे॥७३॥
बिभेद च तदा रामः सप्त तालान् महाबलः।
तालान् सप्त विनिर्भिद्य गिरिं भूमिं च सायकः॥७४॥
पुनरागत्य रामस्य तूणीरे पूर्ववत्स्थितः।
ततोऽतिहर्षात्सुग्रीवो राममाहातिविस्मितः॥७५॥
देव त्वं जगतां नाथः परमात्मा न संशयः।
मत्पूर्वकृतपुण्यौघैः सङ्गतोऽद्य मया सह॥७६॥
त्वां भजन्ति महात्मानः संसारविनिवृत्तये।
त्वां प्राप्य मोक्षसचिवं प्रार्थयेऽहं कथं भवम्॥७७॥
दाराः पुत्रा धनं राज्यं सर्वं त्वन्मायया कृतम्।
अतोऽहं देवदेवेश नाकाङ्क्षेऽन्यत्प्रसीद मे॥७८॥
आनन्दानुभवं त्वाऽद्य प्राप्तोऽहं भाग्यगौरवात्।
मृदर्थं यतमानेन निधानमिव सत्पते॥७९॥
अनाद्यविद्यासंसिद्धं बन्धनं छिन्नमद्य नः।
यज्ञदानतपःकर्मपूर्तेष्टादिभिरप्यसौ॥८०॥
न जीर्यते पुनर्दार्ढ्यं भजते संसृतिः प्रभो।
त्वत्पाददर्शनात्सद्यो नाशमेति न संशयः॥८१॥
क्षणार्धमपि यच्चित्तं त्वयि तिष्ठत्यचञ्चलम्।
तस्याज्ञानमनर्थानां मूलं नश्यति तत्क्षणात्॥८२॥
तत्तिष्ठतु मनो राम त्वयि नान्यत्र मे सदा॥८३॥
रामरामेति यद् वाणी मधुरं गायति क्षणम्।
स ब्रह्महा सुरापो वा मुच्यते सर्वपातकैः॥८४॥
न काङ्क्षे विजयं राम न च दारसुखादिकम्।
भक्तिमेव सदा काङ्क्षे त्वयि बन्धविमोचनीम्॥८५॥
त्वन्मायाकृतसंसारस्त्वदंशोऽहं रघूत्तम।
स्वपादभक्तिमादिश्य त्राहि मां भवसङ्कटात्॥८६॥
पूर्वं मित्रार्युदासीनास्त्वन्मायावृतचेतसः।
आसन्मेऽद्य भवत्पाददर्शनादेव राघव॥८७॥
सर्वं ब्रह्मैव मे भाति क्व मित्रं क्व च मे रिपुः।
यावत्त्वन्मायया बद्धस्तावद्गुणविशेषता॥८८॥
सा यावदस्ति नानात्वं तावद्भवति नान्यथा।
यावन्नानात्वमज्ञानात्तावत्कालकृतं भयम्॥८९॥
अतोऽविद्यामुपास्ते यः सोऽन्धे तमसि मज्जति।
मायामूलमिदं सर्वं पुत्रदारादिबन्धनम्।
तदुत्सारय मायां त्वं दासीं तव रघूत्तम॥९०॥
त्वत्पादपद्मार्पितचित्तवृत्ति\-
स्त्वन्नामसङ्गीतकथासु वाणी।
त्वद्भक्तसेवानिरतौ करौ मे
त्वदङ्गसङ्गं लभतां मदङ्गम्॥९१॥
त्वन्मूर्तिभक्तान् स्वगुरुं च चक्षुः
पश्यत्वजस्रं स शृणोतु कर्णः।
त्वज्जन्मकर्माणि च पादयुग्मं
व्रजत्वजस्रं तव मन्दिराणि॥९२॥
अङ्गानि ते पादरजोविमिश्र\-
तीर्थानि बिभ्रत्वहिशत्रुकेतो।
शिरस्त्वदीयं भवपद्मजाद्यैर्\-
जुष्टं पदं राम नमत्वजस्रम्॥९३॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे प्रथमः सर्गः॥