सप्तमः सर्गः

अथ गच्छति श्रीरामे मैथिलाद्योजनत्रयम्।
निमित्तान्यतिघोराणि ददर्श नृपसत्तमः॥१॥
नत्वा वसिष्ठं पप्रच्छ किमिदं मुनिपुङ्गव।
निमित्तानीह दृश्यन्ते विषमाणि समन्ततः॥२॥
वसिष्ठस्तमथ प्राह भयमागामि सूच्यते।
पुनरप्यभयं तेऽद्य शीघ्रमेव भविष्यति॥३॥
मृगाः प्रदक्षिणं यान्ति पश्य त्वां शुभसूचकाः।
इत्येवं वदतस्तस्य ववौ घोरतरोऽनिलः॥४॥
मुष्णन्श्चक्षूंषि सर्वेषां पांसुवृष्टिभिरर्दयन्।
ततो व्रजन् ददर्शाग्रे तेजोराशिमुपस्थितम्॥५॥
कोटिसूर्यप्रतीकाशं विद्युत्पुञ्जसमप्रभम्।
तेजोराशिं ददर्शाथ जामदग्न्यं प्रतापवान्॥६॥
नीलमेघनिभं प्रांशुं जटामण्डलमण्डितम्।
धनुः परशुपाणिं च साक्षात्कालमिवान्तकम्॥७॥
कार्तवीर्यान्तकं रामं दृप्तक्षत्रियमर्दनम्।
प्राप्तं दशरथस्याग्रे कालमृत्युमिवापरम्॥८॥
तं दृष्ट्वा भयसन्त्रस्तो राजा दशरथस्तदा।
अर्घ्यादिपूजां विस्मृत्य त्राहि त्राहीति चाब्रवीत्॥९॥
दण्डवत्प्रणिपत्याह पुत्रप्राणं प्रयच्छ मे।
इति ब्रुवन्तं राजानमनादृत्य रघूत्तमम्॥१०॥
उवाच निष्ठुरं वाक्यं क्रोधात्प्रचलितेन्द्रियः।
त्वं राम इति नाम्ना मे चरसि क्षत्रियाधम॥११॥
द्वन्द्वयुद्धं प्रयच्छाशु यदि त्वं क्षत्रियोऽसि वै।
पुराणं जर्जरं चापं भङ्क्त्वा त्वं कत्थसे मुधा॥१२॥
अस्मिन्स्तु वैष्णवे चापे आरोपयसि चेद्गुणम्।
तदा युद्धं त्वया सार्धं करोमि रघुवंशज॥१३॥
नो चेत्सर्वान् हनिष्यामि क्षत्रियान्तकरो ह्यहम्।
इति ब्रुवति वै तस्मिन्श्चचाल वसुधा भृशम्॥१४॥
अन्धकारो बभूवाथ सर्वेषामपि चक्षुषाम्।
रामो दाशरथिर्वीरो वीक्ष्य तं भार्गवं रुषा॥१५॥
धनुराच्छिद्य तद्धस्तादारोप्य गुणमञ्जसा।
तूणीराद्बाणमादाय सन्धायाकृष्य वीर्यवान्॥१६॥
उवाच भार्गवं रामं शृणु ब्रह्मन् वचो मम।
लक्ष्यं दर्शय बाणस्य ह्यमोघो मम सायकः॥१७॥
लोकान् पादयुगं वाऽपि वद शीघ्रं ममाऽऽज्ञया।
अयं लोकः परो वाथ त्वया गन्तुं न शक्यते॥१८॥
एवं त्वं हि प्रकर्तव्यं वद शीघ्रं ममाऽऽज्ञया।
एवं वदति श्रीरामे भार्गवो विकृताननः॥१९॥
संस्मरन् पूर्ववृत्तान्तमिदं वचनमब्रवीत्।
राम राम महाबाहो जाने त्वां परमेश्वरम्॥२०॥
पुराणपुरुषं विष्णुं जगत्सर्गलयोद्भवम्।
बाल्येऽहं तपसा विष्णुमाराधयितुमञ्जसा॥२१॥
चक्रतीर्थं शुभं गत्वा तपसा विष्णुमन्वहम्।
अतोषयं महात्मानं नारायणमनन्यधीः॥२२॥
ततः प्रसन्नो देवेशः शङ्खचक्रगदाधरः।
उवाच मां रघुश्रेष्ठ प्रसन्नमुखपङ्कजः॥२३॥

श्रीभगवानुवाच

उत्तिष्ठ तपसो ब्रह्मन् फलितं ते तपो महत्।
मच्चिदंशेन युक्तस्त्वं जहि हैहयपुङ्गवम्॥२४॥
कार्तवीर्यं पितृहणं यदर्थं तपसः श्रमः।
ततस्त्रिःसप्तकृत्वस्त्वं हत्वा क्षत्रियमण्डलम्॥२५॥
कृत्स्नां भूमिं कश्यपाय दत्त्वा शान्तिमुपावह।
त्रेतामुखे दाशरथिर्भूत्वा रामोऽहमव्ययः॥२६॥
उत्पत्स्ये परया शक्त्या तदा द्रक्ष्यसि मां ततः।
मत्तेजः पुनरादास्ये त्वयि दत्तं मया पुरा॥२७॥
तदा तपश्चरन्ल्लोके तिष्ठ त्वं ब्रह्मणो दिनम्।
इत्युक्त्वाऽन्तर्दधे देवस्तथा सर्वं कृतं मया॥२८॥
स एव विष्णुस्त्वं राम जातोऽसि ब्रह्मणार्थितः।
मयि स्थितं तु त्वत्तेजस्त्वयैव पुनराहृतम्॥२९॥
अद्य मे सफलं जन्म प्रतीतोऽसि मम प्रभो।
ब्रह्मादिभिरलभ्यस्त्वं प्रकृतेः पारगो मतः॥३०॥
त्वयि जन्मादिषड्भावा न सन्त्यज्ञानसम्भवाः।
निर्विकारोऽसि पूर्णस्त्वं गमनादिविवर्जितः॥३१॥
यथा जले फेनजालं धूमो वह्नौ तथा त्वयि।
त्वदाधारा त्वद्विषया माया कार्यं सृजत्यहो॥३२॥
यावन्मायावृता लोकास्तावत्त्वां न विजानते।
अविचारितसिद्धैषाऽविद्या विद्याविरोधिनी॥३३॥
अविद्याकृतदेहादिसङ्घाते प्रतिबिम्बिता।
चिच्छक्तिर्जीवलोकेऽस्मिन् जीव इत्यभिधीयते॥३४॥
यावद्देहमनःप्राणबुद्ध्यादिष्वभिमानवान्।
तावत्कर्तृत्वभोक्तृत्वसुखदुःखादिभाग्भवेत्॥३५॥
आत्मनःसंसृतिर्नास्ति बुद्धेर्ज्ञानं न जात्विति।
अविवेकाद्द्वयं युङ्क्त्वा संसारीति प्रवर्तते॥३६॥
जडस्य चित्समायोगाच्चित्त्वं भूयाच्चितेस्तथा।
जडसङ्गाज्जडत्वं हि जलाग्न्योर्मेलनं यथा॥३७॥
यावत्त्वत्पादभक्तानां सङ्गसौख्यं न विन्दति।
तावत्संसारदुःखौघान्न निवर्तेन्नरः सदा॥३८॥
तत्सङ्गलब्धया भक्त्या यदा त्वां समुपासते।
तदा माया शनैर्याति तानवं प्रतिपद्यते॥३९॥
ततस्त्वज्ज्ञानसम्पन्नः सद्गुरुस्तेन लभ्यते।
वाक्यज्ञानं गुरोर्लब्ध्वा त्वत्प्रसादाद् विमुच्यते॥४०॥
तस्मात्त्वद्भक्तिहीनानां कल्पकोटिशतैरपि।
न मुक्तिशङ्का विज्ञानशङ्का नैव सुखं तथा॥४१॥
अतस्त्वत्पादयुगले भक्तिर्मे जन्मजन्मनि।
स्यात्त्वद्भक्तिमतां सङ्गोऽविद्या याभ्यां विनश्यति॥४२॥
लोके त्वद्भक्तिनिरतास्त्वद्धर्मामृतवर्षिणः।
पुनन्ति लोकमखिलं किं पुनः स्वकुलोद्भवान्॥४३॥
नमोऽस्तु जगतां नाथ नमस्ते भक्तिभावन।
नमः कारुणिकानन्त रामचन्द्र नमोऽस्तु ते॥४४॥
देव यद्यत्कृतं पुण्यं मया लोकजिगीषया।
तत्सर्वं तव बाणाय भूयाद्राम नमोऽस्तु ते॥४५॥
ततः प्रसन्नो भगवान् श्रीरामः करुणामयः।
प्रसन्नोऽस्मि तव ब्रह्मन् यत्ते मनसि वर्तते॥४६॥
दास्ये तदखिलं कामं मा कुरुष्वात्र संशयम्।
ततः प्रीतेन मनसा भार्गवो राममब्रवीत्॥४७॥
यदि मेऽनुग्रहो राम तवास्ति मधुसूदन।
त्वद्भक्तसङ्गस्त्वत्पादे दृढा भक्तिः सदास्तु मे॥४८॥
स्तोत्रमेतत्पठेद्यस्तु भक्तिहीनोऽपि सर्वदा।
त्वद्भक्तिस्तस्य विज्ञानं भूयादन्ते स्मृतिस्तव॥४९॥
तथेति राघवेणोक्तः परिक्रम्य प्रणम्य तम्।
पूजितस्तदनुज्ञातो महेन्द्राचलमन्वगात्॥५०॥
राजा दशरथो हृष्टो रामं मृतमिवागतम्।
आलिङ्ग्यालिङ्ग्य हर्षेण नेत्राभ्यां जलमुत्सृजत्॥५१॥
ततः प्रीतेन मनसा स्वस्थचित्तः पुरं ययौ।
रामलक्ष्मणशत्रुघ्नभरता देवसम्मिताः॥५२॥
स्वां स्वां भार्यामुपादाय रेमिरे स्वस्वमन्दिरे।
मातापितृभ्यां संहृष्टो रामः सीतासमन्वितः।
रेमे वैकुण्ठभवने श्रिया सह यथा हरिः॥५३॥
युधाजिन्नाम कैकेयीभ्राता भरतमातुलः।
भरतं नेतुमागच्छत्स्वराज्यं प्रीतिसंयुतः॥५४॥
प्रेषयामास भरतं राजा स्नेहसमन्वितः।
शत्रुघ्नं चापि सम्पूज्य युधाजितमरिन्दमः॥५५॥
कौसल्या शुशुभे देवी रामेण सह सीतया।
देवमातेव पौलोम्या शच्या शक्रेण शोभना॥५६॥
साकेते लोकनाथप्रथितगुणगणो लोकसङ्गीतकीर्तिः
श्रीरामः सीतयास्तेऽखिलजननिकरानन्दसन्दोहमूर्तिः।
नित्यश्रीर्निर्विकारो निरवधिविभवो नित्यमायानिरासो
मायाकार्यानुसारी मनुज इव सदा भाति देवोऽखिलेशः॥५७॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे सप्तमः सर्गः॥

इति श्रीमदध्यात्मरामायणे बालकाण्डः समाप्तः॥

❀ ❀ ❀