षष्ठः सर्गः
विश्वामित्रोऽथ तं प्राह राघवं सहलक्ष्मणम्।
गच्छामो वत्स मिथिलां जनकेनाभिपालिताम्॥१॥
दृष्ट्वा क्रतुवरं पश्चादयोध्यां गन्तुमर्हसि।
इत्युक्त्वा प्रययौ गङ्गामुत्तर्तुं सहराघवः।
तस्मिन् काले नाविकेन निषिद्धो रघुनन्दनः॥२॥
नाविक उवाच
क्षालयामि तव पादपङ्कजं
नाथ दारुदृषदोः किमन्तरम्।
मानुषीकरणचूर्णमस्ति ते
पादयोरिति कथा प्रथीयसी॥३॥
पादाम्बुजं ते विमलं हि कृत्वा
पश्चात्परं तीरमहं नयामि।
नो चेत्तरी सद्युवती मलेन
स्याच्चेद्विभो विद्धि कुटुम्बहानिः॥४॥
इत्युक्त्वा क्षालितौ पादौ परं तीरं ततो गताः।
कौशिको रघुनाथेन सहितो मिथिलां ययौ॥५॥
विदेहस्य पुरं प्रातरृषिवाटं समाविशत्।
प्राप्तं कौशिकमाकर्ण्य जनकोऽतिमुदान्वितः॥६॥
पूजाद्रव्याणि सङ्गृह्य सोपाध्यायः समाययौ।
दण्डवत्प्रणिपत्याथ पूजयामास कौशिकम्॥७॥
पप्रच्छ राघवौ दृष्ट्वा सर्वलक्षणसंयुतौ।
द्योतयन्तौ दिशः सर्वाश्चन्द्रसूर्याविवापरौ॥८॥
कस्यैतौ नरशार्दूलौ पुत्रौ देवसुतोपमौ।
मनःप्रीतिकरौ मेऽद्य नरनारायणाविव॥९॥
प्रत्युवाच मुनिः प्रीतो हर्षयन् जनकं तदा।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ॥१०॥
मखसंरक्षणार्थाय मयाऽऽनीतौ पितुः पुरात्।
आगच्छन् राघवो मार्गे ताटकां विश्वघातिनीम्॥११॥
शरेणैकेन हतवान्नोदितो मेऽतिविक्रमः।
ततो ममाश्रमं गत्वा मम यज्ञविहिंसकान्॥१२॥
सुबाहुप्रमुखान् हत्वा मारीचं सागरेऽक्षिपत्।
ततो गङ्गातटे पुण्ये गौतमस्याश्रमं शुभम्॥१३॥
गत्वा तत्र शिलारूपा गौतमस्य वधूः स्थिता।
पादपङ्कजसंस्पर्शात्कृता मानुषरूपिणी॥१४॥
दृष्ट्वाऽहल्यां नमस्कृत्य तया सम्यक्प्रपूजितः।
इदानीं द्रष्टुकामस्ते गृहे माहेश्वरं धनुः॥१५॥
पूजितं राजभिः सर्वैर्दृष्टमित्यनुशुश्रुवे।
अतो दर्शय राजेन्द्र शैवं चापमनुत्तमम्।
दृष्ट्वाऽयोध्यां जिगमिषुः पितरं द्रष्टुमिच्छति॥१६॥
इत्युक्तो मुनिना राजा पूजार्हाविति पूजया।
पूजयामास धर्मज्ञो विधिदृष्टेन कर्मणा।
ततः सम्प्रेषयामास मन्त्रिणं बुद्धिमत्तरम्॥१७॥
जनक उवाच
शीघ्रमानय विश्वेशचापं रामाय दर्शय॥१८॥
ततो गते मन्त्रिवरे राजा कौशिकमब्रवीत्।
यदि रामो धनुर्धृत्वा कोट्यामारोपयेद्गुणम्॥१९॥
तदा मयाऽऽत्मजा सीता दीयते राघवाय हि।
तथेति कौशिकोऽप्याह रामं संवीक्ष्य सस्मितम्॥२०॥
शीघ्रं दर्शय चापाग्र्यं रामायामिततेजसे।
एवं ब्रुवति मौनीशे आगताश्चापवाहकाः॥२१॥
चापं गृहीत्वा बलिनः पञ्चसाहस्रसङ्ख्यकाः।
घण्टाशतसमायुक्तं मणिवज्रादिभूषितम्॥२२॥
दर्शयामास रामाय मन्त्री मन्त्रयतां वरः।
दृष्ट्वा रामः प्रहृष्टात्मा बद्ध्वा परिकरं दृढम्॥२३॥
गृहीत्वा वामहस्तेन लीलया तोलयन् धनुः।
आरोपयामास गुणं पश्यत्स्वखिलराजसु॥२४॥
ईषदाकर्षयामास पाणिना दक्षिणेन सः।
बभञ्जाखिलहृत्सारो दिशः शब्देन पूरयन्॥२५॥
दिशश्च विदिशश्चैव स्वर्गं मर्त्यं रसातलम्।
तदद्भुतमभूत् तत्र देवानां दिवि पश्यताम्॥२६॥
आच्छादयन्तः कुसुमैर्देवाः स्तुतिभिरीडिरे।
देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः॥२७॥
द्विधा भग्नं धनुर्दृष्ट्वा राजालिङ्ग्य रघूद्वहम्।
विस्मयं लेभिरे सीतामातरोऽन्तःपुराजिरे॥२८॥
सीता स्वर्णमयीं मालां गृहीत्वा दक्षिणे करे।
स्मितवक्त्रा स्वर्णवर्णा सर्वाभरणभूषिता॥२९॥
मुक्ताहारैः कर्णपत्रैः क्वणच्चरणनूपुरा।
दुकूलपरिसंवीता वस्त्रान्तर्व्यञ्जितस्तनी॥३०॥
रामस्योपरि निक्षिप्य स्मयमाना मुदं ययौ।
ततो मुमुदिरे सर्वे राजदाराः स्वलङ्कृतम्॥३१॥
गवाक्षजालरन्ध्रेभ्यो दृष्ट्वा लोकविमोहनम्।
ततोऽब्रवीन्मुनिं राजा सर्वशास्त्रविशारदः॥३२॥
भो कौशिक मुनिश्रेष्ठ पत्रं प्रेषय सत्वरम्।
राजा दशरथः शीघ्रमागच्छतु सपुत्रकः॥३३॥
विवाहार्थं कुमाराणां सदारः सहमन्त्रिभिः।
तथेति प्रेषयामास दूतान्स्त्वरितविक्रमान्॥३४॥
ते गत्वा राजशार्दूलं रामश्रेयो न्यवेदयन्।
श्रुत्वा रामकृतं राजा हर्षेण महताऽऽप्लुतः॥३५॥
मिथिलागमनार्थाय त्वरयामास मन्त्रिभिः।
गच्छन्तु मिथिलां सर्वे गजाश्वरथपत्तयः॥३६॥
रथमानय मे शीघ्रं गच्छाम्यद्यैव मा चिरम्।
वसिष्ठस्त्वग्रतो यातु सदारः सहितोऽग्निभिः॥३७॥
राममातॄः समादाय मुनिर्मे भगवान् गुरुः।
एवं प्रस्थाप्य सकलं राजर्षिर्विपुलं रथम्॥३८॥
महत्या सेनया सार्धमारुह्य त्वरितो ययौ।
आगतं राघवं श्रुत्वा राजा हर्षसमाकुलः॥३९॥
प्रत्युज्जगाम जनकः शतानन्दपुरोधसा।
यथोक्तपूजया पूज्यं पूजयामास सत्कृतम्॥४०॥
रामस्तु लक्ष्मणेनाशु ववन्दे चरणौ पितुः।
ततो हृष्टो दशरथो रामं वचनमब्रवीत्॥४१॥
दिष्ट्या पश्यामि ते राम मुखं फुल्लाम्बुजोपमम्।
मुनेरनुग्रहात्सर्वं सम्पन्नं मम शोभनम्॥४२॥
इत्युक्त्वाऽऽघ्राय मूर्धानमालिङ्ग्य च पुनः पुनः।
हर्षेण महताऽऽविष्टो ब्रह्मानन्दं गतो यथा॥४३॥
ततो जनकराजेन मन्दिरे सन्निवेशितः।
शोभने सर्वभोगाढ्ये सदारः ससुतः सुखी॥४४॥
ततः शुभे दिने लग्ने सुमुहूर्ते रघूत्तमम्।
आनयामास धर्मज्ञो रामं सभ्रातृकं तदा॥४५॥
रत्नस्तम्भसुविस्तारे सुविताने सुतोरणे।
मण्डपे सर्वशोभाढ्ये मुक्तापुष्पफलान्विते॥४६॥
वेदविद्भिः सुसम्बाधे ब्राह्मणैः स्वर्णभूषितैः।
सुवासिनीभिः परितो निष्ककण्ठीभिरावृते॥४७॥
भेरीदुन्दुभिनिर्घोषैर्गीतनृत्यैः समाकुले।
दिव्यरत्नाञ्चिते स्वर्णपीठे रामं न्यवेशयत्॥४८॥
वसिष्ठं कौशिकं चैव शतानन्दः पुरोहितः।
यथाक्रमं पूजयित्वा रामस्योभयपार्श्वयोः॥४९॥
स्थापयित्वा स तत्राग्निं ज्वालयित्वा यथाविधि।
सीतामानीय शोभाढ्यां नानारत्नविभूषिताम्॥५०॥
सभार्यो जनकः प्रायाद्रामं राजीवलोचनम्।
पादौ प्रक्षाल्य विधिवत्तदपो मूर्ध्न्यधारयत्॥५१॥
या धृता मूर्ध्नि शर्वेण ब्रह्मणा मुनिभिः सदा।
ततः सीतां करे धृत्वा साक्षतोदकपूर्वकम्॥५२॥
रामाय प्रददौ प्रीत्या पाणिग्रहविधानतः।
सीता कमलपत्राक्षी स्वर्णमुक्तादिभूषिता॥५३॥
दीयते मे सुता तुभ्यं प्रीतो भव रघूत्तम।
इति प्रीतेन मनसा सीतां रामकरेऽर्पयन्॥५४॥
मुमोद जनको लक्ष्मीं क्षीराब्धिरिव विष्णवे।
उर्मिलां चौरसीं कन्यां लक्ष्मणाय ददौ मुदा॥५५॥
तथैव श्रुतिकीर्तिं च माण्डवीं भ्रातृकन्यके।
भरताय ददावेकां शत्रुघ्नायापरां ददौ॥५६॥
चत्वारो दारसम्पन्ना भ्रातरः शुभलक्षणाः।
विरेजुः प्रजया सर्वे लोकपाला इवापरे॥५७॥
ततोऽब्रवीद् वसिष्ठाय विश्वामित्राय मैथिलः।
जनकः स्वसुतोदन्तं नारदेनाभिभाषितम्॥५८॥
यज्ञभूमिविशुद्ध्यर्थं कर्षतो लाङ्गलेन मे।
सीतामुखात्समुत्पन्ना कन्यका शुभलक्षणा॥५९॥
तामद्राक्षमहं प्रीत्या पुत्रिकाभावभाविताम्।
अर्पिता प्रियभार्यायै शरच्चन्द्रनिभानना॥६०॥
एकदा नारदोऽभ्यागाद्विविक्ते मयि संस्थिते।
रणयन्महतीम् वीणां गायन्नारायणं विभुम्॥६१॥
पूजितः सुखमासीनो मामुवाच सुखान्वितः।
शृणुष्व वचनं गुह्यं तवाभ्युदयकारणम्॥६२॥
परमात्मा हृषीकेशो भक्तानुग्रहकाम्यया।
देवकार्यार्थसिद्ध्यर्थं रावणस्य वधाय च॥६३॥
जातो राम इति ख्यातो मायामानुषवेषधृक्।
आस्ते दाशरथिर्भूत्वा चतुर्धा परमेश्वरः॥६४॥
योगमायाऽपि सीतेति जाता वै तव वेश्मनि।
अतस्त्वं राघवायैव देहि सीतां प्रयत्नतः॥६५॥
नान्येभ्यः पूर्वभार्यैषा रामस्य परमात्मनः।
इत्युक्त्वा प्रययौ देवगतिं देवमुनिस्तदा॥६६॥
तदारभ्य मया सीता विष्णोर्लक्ष्मीर्विभाव्यते।
कथं मया राघवाय दीयते जानकी शुभा॥६७॥
इति चिन्तासमाविष्टः कार्यमेकमचिन्तयम्।
मत्पितामहगेहे तु न्यासभूतमिदं धनुः॥६८॥
ईश्वरेण पुरा क्षिप्तं पुरदाहादनन्तरम्।
धनुरेतत्पणं कार्यमिति चिन्त्य कृतं तथा॥६९॥
सीतापाणिग्रहार्थाय सर्वेषां माननाशनम्।
त्वत्प्रसादान्मुनिश्रेष्ठ रामो राजीवलोचनः॥७०॥
आगतोऽत्र धनुर्द्रष्टुं फलितो मे मनोरथः।
अद्य मे सफलं जन्म राम त्वां सह सीतया॥७१॥
एकासनस्थं पश्यामि भ्राजमानं रविं यथा॥७२॥
त्वत्पादाम्बुधरो ब्रह्मा सृष्टिचक्रप्रवर्तकः।
बलिस्त्वत्पादसलिलं धृत्वाऽभूद्दिविजाधिपः॥७३॥
त्वत्पादपांसुसंस्पर्शादहल्या भर्तृशापतः।
सद्य एव विनिर्मुक्ता कोऽन्यस्त्वत्तोऽधिरक्षिता॥७४॥
यत्पादपङ्कजपरागसुरागयोगि-
वृन्दैर्जितं भवभयं जितकालचक्रैः।
यन्नामकीर्तनपरा जितदुःखशोका
देवास्तमेव शरणं सततं प्रपद्ये॥७५॥
इति स्तुत्वा नृपः प्रादाद्राघवाय महात्मने।
दीनाराणां कोटिशतं रथानामयुतं तदा॥७६॥
अश्वानां नियुतं प्रादाद्गजानां षट्शतं तथा।
पत्तीनां लक्षमेकं तु दासीनां त्रिशतं ददौ॥७७॥
दिव्याम्बराणि हारान्श्च मुक्तारत्नमयोज्ज्वलान्।
सीतायै जनकः प्रादात्प्रीत्या दुहितृवत्सलः॥७८॥
वसिष्ठादीन् सुसम्पूज्य भरतं लक्ष्मणं तथा।
पूजयित्वा यथान्यायं तथा दशरथं नृपम्॥७९॥
प्रस्थापयामास नृपो राजानं रघुसत्तमम्।
सीतामालिङ्ग्य रुदतीं मातरः साश्रुलोचनाः॥८०॥
श्वश्रूशुश्रूषणपरा नित्यं राममनुव्रता।
पातिव्रत्यमुपालम्ब्य तिष्ठ वत्से यथा सुखम्॥८१॥
प्रयाणकाले रघुनन्दनस्य भेरीमृदङ्गानकतूर्यघोषः।
स्वर्वासिभेरीघनतूर्यशब्दैः सम्मूर्च्छितो भूतभयङ्करोऽभूत्॥८२॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे षष्ठः सर्गः॥
❀