पञ्चमः सर्गः
श्री-महादेव उवाच
तत्र कामाश्रमे रम्ये कानने मुनिसङ्कुले।
उषित्वा रजनीमेकां प्रभाते प्रस्थिताः शनैः॥१॥
सिद्धाश्रमं गताः सर्वे सिद्धचारणसेवितम्।
विश्वामित्रेण सन्दिष्टा मुनयस्तन्निवासिनः॥२॥
पूजां च महतीं चक्रू रामलक्ष्मणयोर्द्रुतम्।
श्रीरामः कौशिकं प्राह मुने दीक्षां प्रविश्यताम्॥३॥
दर्शयस्व महाभाग कुतस्तौ राक्षसाधमौ।
तथेत्युक्त्वा मुनिर्यष्टुमारेभे मुनिभिः सह॥४॥
मध्याह्ने ददृशाते तौ राक्षसौ कामरूपिणौ।
मारीचश्च सुबाहुश्च वर्षन्तौ रुधिरास्थिनी॥५॥
रामोऽपि धनुरादाय द्वौ बाणौ सन्दधे सुधीः।
आकर्णान्तं समाकृष्य विससर्ज तयोः पृथक्॥६॥
तयोरेकस्तु मारीचं भ्रामयञ्छतयोजनम्।
पातयामास जलधौ तदद्भुतमिवाभवत्॥७॥
द्वितीयोऽग्निमयो बाणः सुबाहुमजयत्क्षणात्।
अपरे लक्षमणेनाशु हतास्तदनुयायिनः॥८॥
पुष्पौघैराकिरन् देवा राघवं सहलक्ष्मणम्।
देवदुन्दुभयो नेदुस्तुष्टुवुः सिद्धचारणाः॥९॥
विश्वामित्रस्तु सम्पूज्य पूजार्हं रघुनन्दनम्।
अङ्के निवेश्य चालिङ्ग्य भक्त्या बाष्पाकुलेक्षणः॥१०॥
भोजयित्वा सह भ्रात्रा रामं पक्वफलादिभिः।
पुराणवाक्यैर्मधुरैर्निनाय दिवसत्रयम्॥११॥
चतुर्थेऽहनि सम्प्राप्ते कौशिको राममब्रवीत्।
राम राम महायज्ञं द्रष्टुं गच्छामहे वयम्॥१२॥
विदेहराजनगरे जनकस्य महात्मनः।
तत्र माहेश्वरं चापमस्ति न्यस्तं पिनाकिना॥१३॥
द्रक्ष्यसि त्वं महासत्त्वं पूज्यसे जनकेन च।
इत्युक्त्वा मुनिभिस्ताभ्यां ययौ गङ्गासमीपगम्॥१४॥
गौतमस्याश्रमं पुण्यं यत्राहल्याऽऽस्थिता तपः।
दिव्यपुष्पफलोपेतपादपैः परिवेष्टितम्॥१५॥
मृगपक्षिगणैर्हीनं नानाजन्तुविवर्जितम्।
दृष्ट्वोवाच मुनिं श्रीमान् रामो राजीवलोचनः॥१६॥
कस्यैतदाश्रमपदं भाति भास्वच्छुभं महत्।
पत्रपुष्पफलैर्युक्तं जन्तुभिः परिवर्जितम्॥१७॥
आह्लादयति मे चेतो भगवन् ब्रूहि तत्त्वतः॥१८॥
विश्वामित्र उवाच
शृणु राम पुरा वृत्तं गौतमो लोकविश्रुतः।
सर्वधर्मभृतां श्रेष्ठस्तपसाराधयन् हरिम्॥१९॥
तस्मै ब्रह्मा ददौ कन्यामहल्यां लोकसुन्दरीम्।
ब्रह्मचर्येण सन्तुष्टः शुश्रूषणपरायणाम्॥२०॥
तया सार्धमिहावात्सीद्गौतमस्तपतां वरः।
शक्रस्तु तां धर्षयितुमन्तरं प्रेप्सुरन्वहम्॥२१॥
कदाचिन्मुनिवेषेण गौतमे निर्गते गृहात्।
धर्षयित्वाऽथ निरगात्त्वरितं मुनिरप्यगात्॥२२॥
दृष्ट्वा यान्तं स्वरूपेण मुनिः परमकोपनः।
पप्रच्छ कस्त्वं दुष्टात्मन् मम रूपधरोऽधमः॥२३॥
सत्यं ब्रूहि न चेद्भस्म करिष्यामि न संशयः।
सोऽब्रवीद् देवराजोऽहं पाहि मां कामकिङ्करम्॥२४॥
कृतं जुगुप्सितं कर्म मया कुत्सितचेतसा।
गौतमः क्रोधताम्राक्षः शशाप दिविजाधिपम्॥२५॥
योनिलम्पट दुष्टात्मन् सहस्रभगवान् भव।
शप्त्वा तं देवराजानं प्रविश्य स्वाश्रमं द्रुतम्॥२६॥
दृष्ट्वाऽहल्यां वेपमानां प्राञ्जलिं गौतमोऽब्रवीत्।
दुष्टे त्वं तिष्ठ दुर्वृत्ते शिलायामाश्रमे मम॥२७॥
निराहारा दिवारात्रं तपः परममास्थिता।
आतपानिलवर्षादिसहिष्णुः परमेश्वरम्॥२८॥
ध्यायन्ती राममेकाग्रमनसा हृदि संस्थितम्।
नानाजन्तुविहीनोऽयमाश्रमो मे भविष्यति॥२९॥
एवं वर्षसहस्रेषु ह्यनेकेषु गतेषु च।
रामो दाशरथिः श्रीमानागमिष्यति सानुजः॥३०॥
यदा त्वदाश्रयशिलां पादाभ्यामाक्रमिष्यति।
तदैव धूतपापा त्वं रामं सम्पूज्य भक्तितः॥३१॥
परिक्रम्य नमस्कृत्य स्तुत्वा शापाद्विमोक्ष्यसे।
पूर्ववन्मम शुश्रूषां करिष्यसि यथासुखम्॥३२॥
इत्युक्त्वा गौतमः प्रागाद्धिमवन्तं नगोत्तमम्।
तदाद्यहल्या भूतानामदृश्या स्वाश्रमे शुभे॥३३॥
तव पादरजःस्पर्शं काङ्क्षते पवनाशना।
आस्तेऽद्यापि रघुश्रेष्ठ तपो दुष्करमास्थिता॥३४॥
पावयस्व मुनेर्भार्यामहल्यां ब्रह्मणः सुताम्।
इत्युक्त्वा राघवं हस्ते गृहीत्वा मुनिपुङ्गवः॥३५॥
दर्शयामास चाहल्यामुग्रेण तपसा स्थिताम्।
रामः शिलां पदा स्पृष्ट्वा तां चापश्यत्तपोधनाम्॥३६॥
ननाम राघवोऽहल्यां रामोऽहमिति चाब्रवीत्।
ततो दृष्ट्वा रघुश्रेष्ठं पीतकौशेयवाससम्॥३७॥
चतुर्भुजं शङ्खचक्रगदापङ्कजधारिणम्।
धनुर्बाणधरं रामं लक्ष्मणेन समन्वितम्॥३८॥
स्मितवक्त्रं पद्मनेत्रं श्रीवत्साङ्कितवक्षसम्।
नीलमाणिक्यसङ्काशं द्योतयन्तं दिशो दश॥३९॥
दृष्ट्वा रामं रमानाथं हर्षविस्फारितेक्षणा।
गौतमस्य वचः स्मृत्वा ज्ञात्वा नारायणं वरम्॥४०॥
सम्पूज्य विधिवद्राममर्घ्यादिभिरनिन्दिता।
हर्षाश्रुजलनेत्रान्ता दण्डवत्प्रणिपत्य सा॥४१॥
उत्थाय च पुनर्दृष्ट्वा रामं राजीवलोचनम्।
पुलकाङ्कितसर्वाङ्गा गिरा गद्गदयैडत॥४२॥
अहल्योवाच
अहो कृतार्थास्मि जगन्निवास ते
पादाब्जसंलग्नरजःकणादहम्।
स्पृशामि यत्पद्मजशङ्करादिभिर्\-
विमृग्यते रन्धितमानसैः सदा॥४३॥
अहो विचित्रं तव राम चेष्टितं
मनुष्यभावेन विमोहितं जगत्।
चलस्यजस्रं चरणादिवर्जितः
सम्पूर्ण आनन्दमयोऽतिमायिकः॥४४॥
यत्पादपङ्कजपरागपवित्रगात्रा
भागीरथी भवविरिञ्चिमुखान् पुनाति।
साक्षात्स एव मम दृग्विषयो यदास्ते
किं वर्ण्यते मम पुराकृतभागधेयम्॥४५॥
मर्त्यावतारे मनुजाकृतिं हरिं
रामाभिधेयं रमणीयदेहिनम्।
धनुर्धरं पद्मविशाललोचनं
भजामि नित्यं न परान् भजिष्ये॥४६॥
यत्पादपङ्कजरजः श्रुतिभिर्विमृग्यं
यन्नाभिपङ्कजभवः कमलासनश्च।
यन्नामसाररसिको भगवान् पुरारिः
तं रामचन्द्रमनिशं हृदि भावयामि॥४७॥
यस्यावतारचरितानि विरिञ्चिलोके
गायन्ति नारदमुखा भवपद्मजाद्याः।
आनन्दजाश्रुपरिषिक्तकुचाग्रसीमा
वागीश्वरी च तमहं शरणं प्रपद्ये॥४८॥
सोऽयं परात्मा पुरुषः पुराण
एकः स्वयञ्ज्योतिरनन्त आद्यः।
मायातनुं लोकविमोहनीयां
धत्ते परानुग्रह एष रामः॥४९॥
अयं हि विश्वोद्भवसंयमानाम्
एकः स्वमायागुणबिम्बितो यः।
विरिञ्चिविष्ण्वीश्वरनामभेदान्
धत्ते स्वतन्त्रः परिपूर्ण आत्मा॥५०॥
नमोऽस्तु ते राम तवाङ्घ्रिपङ्कजं
श्रिया धृतं वक्षसि लालितं प्रियात्।
आक्रान्तमेकेन जगत्त्रयं पुरा
ध्येयं मुनीन्द्रैरभिमानवर्जितैः॥५१॥
जगतामादिभूतस्त्वं जगत्त्वं जगदाश्रयः।
सर्वभूतेष्वसंयुक्त एको भाति भवान् परः॥५२॥
ओङ्कारवाच्यस्त्वं राम वाचामविषयः पुमान्।
वाच्यवाचकभेदेन भवानेव जगन्मयः॥५३॥
कार्यकारणकर्तृत्वफलसाधनभेदतः।
एको विभासि राम त्वं मायया बहुरूपया॥५४॥
त्वन्मायामोहितधियस्त्वां न जानन्ति तत्त्वतः।
मानुषं त्वाऽभिमन्यन्ते मायिनं परमेश्वरम्॥५५॥
आकाशवत्त्वं सर्वत्र बहिरन्तर्गतोऽमलः।
असङ्गो ह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः॥५६॥
योषिन्मूढाहमज्ञा ते तत्त्वं जाने कथं विभो।
तस्मात्ते शतशो राम नमस्कुर्यामनन्यधीः॥५७॥
देव मे यत्र कुत्रापि स्थिताया अपि सर्वदा।
त्वत्पादकमले सक्ता भक्तिरेव सदास्तु मे॥५८॥
नमस्ते पुरुषाध्यक्ष नमस्ते भक्तवत्सल।
नमस्तेऽस्तु हृषीकेश नारायण नमोऽस्तुते॥५९॥
भवभयहरमेकं भानुकोटिप्रकाशं
करधृतशरचापं कालमेघावभासम्।
कनकरुचिरवस्त्रं रत्नवत्कुण्डलाढ्यं
कमलविशदनेत्रं सानुजं राममीडे॥६०॥
स्तुत्वैवं पुरुषं साक्षाद्राघवं पुरतः स्थितम्।
परिक्रम्य प्रणम्याऽऽशु साऽनुज्ञाता ययौ पतिम्॥६१॥
अहल्यया कृतं स्तोत्रं यः पठेद्भक्तिसंयुतः।
स मुच्यतेऽखिलैः पापैः परं ब्रह्माधिगच्छति॥६२॥
पुत्राद्यर्थे पठेद्भक्त्या रामं हृदि निधाय च।
संवत्सरेण लभते वन्ध्या अपि सुपुत्रकम्॥६३॥
सर्वान् कामानवाप्नोति रामचन्द्रप्रसादतः॥६४॥
ब्रह्मघ्नो गुरुतल्पगोऽपि पुरुषः स्तेयी सुरापोऽपि वा
मातृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धातुरः।
नित्यं स्तोत्रमिदं जपन् रघुपतिं भक्त्या हृदिस्थं स्मरन्
ध्यायन्मुक्तिमुपैति किं पुनरसौ स्वाचारयुक्तो नरः॥६५॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे अहल्योद्धरणं नाम पञ्चमः सर्गः॥
❀