चतुर्थः सर्गः

श्री-महादेव उवाच

कदाचित्कौशिकोऽभ्यागादयोध्यां ज्वलनप्रभः।
द्रष्टुं रामं परात्मानं जातं ज्ञात्वा स्वमायया॥१॥
दृष्ट्वा दशरथो राजा प्रत्युत्थायाचिरेण तु।
वसिष्ठेन समागम्य पूजयित्वा यथाविधि॥२॥
अभिवाद्य मुनिं राजा प्राञ्जलिर्भक्तिनम्रधीः।
कृतार्थोऽस्मि मुनीन्द्राहं त्वदागमनकारणात्॥३॥
त्वद्विधा यद्गृहम् यान्ति तत्रैवायान्ति सम्पदः।
यदर्थमागतोऽसि त्वं ब्रूहि सत्यं करोमि तत्॥४॥
विश्वामित्रोऽपि तं प्रीतः प्रत्युवाच महीपतिम्।
अहं पर्वणि सम्प्राप्ते दृष्ट्वा यष्टुं सुरान् पितॄन्॥५॥
यदारभे तदा दैत्या विघ्नं कुर्वन्ति नित्यशः।
मारीचश्च सुबाहुश्चापरे चानुचरास्तयोः॥६॥
अतस्तयोर्वधार्थाय ज्येष्ठं रामं प्रयच्छ मे।
लक्ष्मणेन सह भ्रात्रा तव श्रेयो भविष्यति॥७॥
वसिष्ठेन सहामन्त्र्य दीयतां यदि रोचते।
पप्रच्छ गुरुमेकान्ते राजा चिन्तापरायणः॥८॥
किं करोमि गुरो रामं त्यक्तुं नोत्सहते मनः।
बहुवर्षसहस्रान्ते कष्टेनोत्पादिताः सुताः॥९॥
चत्वारोऽमरतुल्यास्ते तेषां रामोऽतिवल्लभः।
रामस्त्वितो गच्छति चेन्न जीवामि कथञ्चन॥१०॥
प्रत्याख्यातो यदि मुनिः शापं दास्यत्यसंशयः।
कथं श्रेयो भवेन्मह्यमसत्यं चापि न स्पृशेत्॥११॥

वसिष्ठ उवाच

शृणु राजन् देवगुह्यं गोपनीयं प्रयत्नतः।
रामो न मानुषो जातः परमात्मा सनातनः॥१२॥
भूमेर्भारावताराय ब्रह्मणा प्रार्थितः पुरा।
स एव जातो भवने कौसल्यायां तवानघ॥१३॥
त्वं तु प्रजापतिः पूर्वं कश्यपो ब्रह्मणः सुतः।
कौसल्या चादितिर्देवमाता पूर्वं यशस्विनी॥१४॥
भवन्तौ तप उग्रं वै तेपाथे बहुवत्सरम्।
अग्राम्यविषयौ विष्णुपूजाध्यानैकतत्परौ।
तदा प्रसन्नो भगवान् वरदो भक्तवत्सलः॥१५॥
वृणीष्व वरमित्युक्ते त्वं मे पुत्रो भवामल।
इति त्वया याचितोऽसौ भगवान् भूतभावनः॥१६॥
तथेत्युक्त्वाऽद्य पुत्रस्ते जातो रामः स एव हि।
शेषस्तु लक्ष्मणो राजन् राममेवान्वपद्यत॥१७॥
जातौ भरतशत्रुघ्नौ शङ्खचक्रे गदाभृतः।
योगमायाऽपि सीतेति जाता जनकनन्दिनी॥१८॥
विश्वामित्रोऽपि रामाय तां योजयितुमागतः।
एतद्गुह्यतमं राजन्न वक्तव्यं कदाचन॥१९॥
अतः प्रीतेन मनसा पूजयित्वाऽथ कौशिकम्।
प्रेषयस्व रमानाथं राघवं सहलक्ष्मणम्॥२०॥
वसिष्ठेनैवमुक्तस्तु राजा दशरथस्तदा।
कृतकृत्यमिवात्मानं मेने प्रमुदितान्तरः॥२१॥
आहूय रामरामेति लक्ष्मणेति च सादरम्।
आलिङ्ग्य मूर्ध्न्यवघ्राय कौशिकाय समर्पयत्॥२२॥
ततोऽतिहृष्टो भगवान् विश्वामित्रः प्रतापवान्।
आशीर्भिरभिनन्द्याथ आगतौ रामलक्ष्मणौ।
गृहीत्वा चापतूणीरबाणखड्गधरौ ययौ॥२३॥
किञ्चिद् देशमतिक्रम्य राममाहूय भक्तितः।
ददौ बलां चातिबलां विद्ये द्वे देवनिर्मिते॥२४॥
ययोर्ग्रहणमात्रेण क्षुत्क्षामादि न जायते॥२५॥
तत उत्तीर्य गङ्गां ते ताटकावनमागमन्।
विश्वामित्रस्तदा प्राह रामं सत्यपराक्रमम्॥२६॥
अत्रास्ति ताटका नाम राक्षसी कामरूपिणी।
बाधते लोकमखिलं जहि तामविचारयन्॥२७॥
तथेति धनुरादाय सगुणं रघुनन्दनः।
टङ्कारमकरोत्तेन शब्देनापूरयद्वनम्॥२८॥
तच्छ्रुत्वाऽसहमाना सा ताटका घोररूपिणी।
क्रोधसम्मूर्च्छिता राममभिदुद्राव मेघवत्॥२९॥
तामेकेन शरेणाशु ताडयामास वक्षसि।
पपात विपिने घोरा वमन्ती रुधिरं बहु॥३०॥
ततोऽतिसुन्दरी यक्षी सर्वाभरणभूषिता।
शापात्पिशाचतां प्राप्ता मुक्ता रामप्रसादतः॥३१॥
नत्वा रामं परिक्रम्य गता रामाज्ञया दिवम्॥३२॥
ततोऽतिहृष्टः परिरभ्य रामं
मूर्धन्यवघ्राय विचिन्त्य किञ्चित्।
सर्वास्त्रजालं सरहस्यमन्त्रं
प्रीत्याभिरामाय ददौ मुनीन्द्रः॥३३॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे चतुर्थः सर्गः॥