तृतीयः सर्गः

श्री-महादेव उवाच

अथ राजा दशरथः श्रीमान् सत्यपरायणः।
अयोध्याधिपतिर्वीरः सर्वलोकेषु विश्रुतः॥१॥
सोऽनपत्यत्वदुःखेन पीडितो गुरुमेकदा।
वसिष्ठं स्वकुलाचार्यमभिवाद्येदमब्रवीत्॥२॥
स्वामिन् पुत्राः कथं मे स्युः सर्वलक्षणलक्षिताः।
पुत्रहीनस्य मे राज्यं सर्वं दुःखाय कल्पते॥३॥
ततोऽब्रवीद् वसिष्ठस्तं भविष्यन्ति सुतास्तव।
चत्वारः सत्त्वसम्पन्ना लोकपाला इवापराः॥४॥
शान्ताभर्तारमानीय ऋष्यशृङ्गं तपोधनम्।
अस्माभिः सहितः पुत्रकामेष्टिं शीघ्रमाचर॥५॥
तथेति मुनिमानीय मन्त्रिभिः सहितः शुचिः।
यज्ञकर्म समारेभे मुनिभिर्वीतकल्मषैः॥६॥
श्रद्धया हूयमानेऽग्नौ तप्तजाम्बूनदप्रभः।
पायसं स्वर्णपात्रस्थं गृहीत्वोवाच हव्यवाट्॥७॥
गृहाण पायसं दिव्यं पुत्रीयं देवनिर्मितम्।
लप्स्यसे परमात्मानं पुत्रत्वेन न संशयः॥८॥
इत्युक्त्वा पायसं दत्त्वा राज्ञे सोऽन्तर्दधेऽनलः।
ववन्दे मुनिशार्दूलौ राजा लब्धमनोरथः॥९॥
वसिष्ठऋष्यशृङ्गाभ्यामनुज्ञातो ददौ हविः।
कौसल्यायै सकैकेय्यै अर्धमर्धं प्रयत्नतः॥१०॥
ततः सुमित्रा सम्प्राप्ता जगृध्नुः पौत्रिकं चरुम्।
कौसल्या तु स्वभागार्धं ददौ तस्यै मुदान्विता॥११॥
कैकेयी च स्वभागार्धं ददौ प्रीतिसमन्विता।
उपभुज्य चरुं सर्वाः स्त्रियो गर्भसमन्विताः॥१२॥
देवता इव रेजुस्ताः स्वभासा राजमन्दिरे।
दशमे मासि कौसल्या सुषुवे पुत्रमद्भुतम्॥१३॥
मधुमासे सिते पक्षे नवम्यां कर्कटे शुभे।
पुनर्वस्वृक्षसहिते उच्चस्थे ग्रहपञ्चके॥१४॥
मेषं पूषणि सम्प्राप्ते पुष्पवृष्टिसमाकुले।
आविरासीज्जगन्नाथः परमात्मा सनातनः॥१५॥
नीलोत्पलदलश्यामः पीतवासाश्चतुर्भुजः।
जलजारुणनेत्रान्तः स्फुरत्कुण्डलमण्डितः॥१६॥
सहस्रार्कप्रतीकाशः किरीटी कुञ्चितालकः।
शङ्खचक्रगदापद्मवनमालाविराजितः॥१७॥
अनुग्रहाख्यहृत्स्थेन्दुसूचकस्मितचन्द्रिकः।
करुणारससम्पूर्णविशालोत्पललोचनः।
श्रीवत्सहारकेयूरनूपुरादिविभूषणः॥१८॥
दृष्ट्वा तं परमात्मानं कौसल्या विस्मयाकुला।
हर्षाश्रुपूर्णनयना नत्वा प्राञ्जलिरब्रवीत्॥१९॥

कौसल्योवाच

देवदेव नमस्तेऽस्तु शङ्खचक्रगदाधर।
परमात्माऽच्युतोऽनन्तः पूर्णस्त्वं पुरुषोत्तमः॥२०॥
वदन्त्यगोचरं वाचां बुद्ध्यादीनामतीन्द्रियम्।
त्वां वेदवादिनः सत्तामात्रं ज्ञानैकविग्रहम्॥२१॥
त्वमेव मायया विश्वं सृजस्यवसि हंसि च।
सत्त्वादिगुणसंयुक्तस्तुर्य एवामलः सदा॥२२॥
करोषीव न कर्ता त्वं गच्छसीव न गच्छसि।
शृणोषि न शृणोषीव पश्यसीव न पश्यसि॥२३॥
अप्राणो ह्यमनाः शुद्ध इत्यादि श्रुतिरब्रवीत्।
समः सर्वेषु भूतेषु तिष्ठन्नपि न लक्ष्यसे॥२४॥
अज्ञानध्वान्तचित्तानां व्यक्त एव सुमेधसाम्।
जठरे तव दृश्यन्ते ब्रह्माण्डाः परमाणवः॥२५॥
त्वं ममोदरसम्भूत इति लोकान् विडम्बसे।
भक्तेषु पारवश्यं ते दृष्टं मेऽद्य रघूत्तम॥२६॥
संसारसागरे मग्ना पतिपुत्रधनादिषु।
भ्रमामि मायया तेऽद्य पादमूलमुपागता॥२७॥
देव त्वद्रूपमेतन्मे सदा तिष्ठतु मानसे।
आवृणोतु न मां माया तव विश्वविमोहिनी॥२८॥
उपसंहर विश्वात्मन्नदो रूपमलौकिकम्।
दर्शयस्व महानन्दबालभावं सुकोमलम्।
ललितालिङ्गनालापैस्तरिष्याम्युत्कटं तमः॥२९॥

श्रीभगवानुवाच

यद्यदिष्टं तवास्त्यम्ब तत्तद् भवतु नान्यथा॥३०॥
अहं तु ब्रह्मणा पूर्वं भूमेर्भारापनुत्तये।
प्रार्थितो रावणं हन्तुं मानुषत्वमुपागतः॥३१॥
त्वया दशरथेनाहं तपसाराधितः पुरा।
मत्पुत्रत्वाभिकाङ्क्षिण्या तथा कृतमनिन्दिते॥३२॥
रूपमेतत् त्वया दृष्टं प्राक्तनं तपसः फलम्।
मद्दर्शनं विमोक्षाय कल्पते ह्यन्यदुर्लभम्॥३३॥
संवादमावयोर्यस्तु पठेद् वा शृणुयादपि।
स याति मम सारूप्यं मरणे मत्स्मृतिं लभेत्॥३४॥
इत्युक्त्वा मातरं रामो बालो भूत्वा रुरोद ह।
बालत्वेऽपीन्द्रनीलाभो विशालाक्षोऽतिसुन्दरः॥३५॥
बालारुणप्रतीकाशो लालिताखिललोकपः।
अथ राजा दशरथः श्रुत्वा पुत्रोद्भवोत्सवम्।
आनन्दार्णवमग्नोऽसावाययौ गुरुणा सह॥३६॥
रामं राजीवपत्राक्षं दृष्ट्वा हर्षाश्रुसम्प्लुतः।
गुरुणा जातकर्माणि कर्तव्यानि चकार सः॥३७॥
कैकेयी चाथ भरतमसूत कमलेक्षणा।
सुमित्रायां यमौ जातौ पूर्णेन्दुसदृशाननौ॥३८॥
तदा ग्रामसहस्राणि ब्राह्मणेभ्यो मुदा ददौ।
सुवर्णानि च रत्नानि वासांसि सुरभीः शुभाः॥३९॥
यस्मिन् रमन्ते मुनयो विद्यया ज्ञानविप्लवे।
तं गुरुः प्राह रामेति रमणाद्राम इत्यपि॥४०॥
भरणाद्भरतो नाम लक्ष्मणं लक्षणान्वितम्।
शत्रुघ्नं शत्रुहन्तारमेवं गुरुरभाषत॥४१॥
लक्ष्मणो रामचन्द्रेण शत्रुघ्नो भरतेन च।
द्वन्द्वीभूय चरन्तौ तौ पायसांशानुसारतः॥४२॥
रामस्तु लक्ष्मणेनाथ विचरन् बाललीलया।
रमयामास पितरौ चेष्टितैर्मुग्धभाषितैः॥४३॥
भाले स्वर्णमयाश्वत्थपर्णमुक्ताफलप्रभम्।
कण्ठे रत्नमणिव्रातमध्यद्वीपिनखाञ्चितम्॥४४॥
कर्णयोः स्वर्णसम्पन्नरत्नार्जुनसटालुकम्।
शिञ्जानमणिमञ्जीरकटिसूत्राङ्गदैर्वृतम्॥४५॥
स्मितवक्त्राल्पदशनमिन्द्रनीलमणिप्रभम्।
अङ्गणे रिङ्गमाणं तं तर्णकाननु सर्वतः।
दृष्ट्वा दशरथो राजा कौसल्या मुमुदे तदा॥४६॥
भोक्ष्यमाणो दशरथो राममेहीति चासकृत्।
आह्वयत्यतिहर्षेण प्रेम्णा नायाति लीलया॥४७॥
आनयेति च कौसल्यामाह सा सस्मिता सुतम्।
धावत्यपि न शक्नोति स्प्रष्टुं योगिमनोगतिम्॥४८॥
प्रहसन् स्वयमायाति कर्दमाङ्कितपाणिना।
किञ्चिद् गृहीत्वा कवलं पुनरेव पलायते॥४९॥
कौसल्या जननी तस्य मासि मासि प्रकुर्वती।
वायनानि विचित्राणि समलङ्कृत्य राघवम्॥५०॥
अपूपान् मोदकान् कृत्वा कर्णशष्कुलिकास्तथा।
कर्णपूरान्श्च विविधान् वर्षवृद्धौ च वायनम्॥५१॥
गृहकृत्यं तया त्यक्तं तस्य चापल्यकारणात्।
एकदा रघुनाथोऽसौ गतो मातरमन्तिके॥५२॥
भोजनं देहि मे मातर्न श्रुतं कार्यसक्तया।
ततः क्रोधेन भाण्डानि लगुडेनाहनत्तदा॥५३॥
शिक्यस्थं पातयामास गव्यं च नवनीतकम्।
लक्ष्मणाय ददौ रामो भरताय यथाक्रमम्॥५४॥
शत्रुघ्नाय ददौ पश्चाद्दधि दुग्धं तथैव च।
सूदेन कथिते मात्रे हास्यं कृत्वा प्रधावति॥५५॥
आगतां तां विलोक्याथ ततः सर्वैः पलायितम्।
कौसल्या धावमानाऽपि प्रस्खलन्ती पदे पदे॥५६॥
रघुनाथं करे धृत्वा किञ्चिन्नोवाच भामिनी।
बालभावं समाश्रित्य मन्दं मन्दं रुरोद ह॥५७॥
ते सर्वे लालिता मात्रा गाढमालिङ्ग्य यत्नतः।
एवमानन्दसन्दोहजगदानन्दकारकः॥५८॥
मायाबालवपुर्धृत्वा रमयामास दम्पती।
अथ कालेन ते सर्वे कौमारं प्रतिपेदिरे॥५९॥
उपनीता वसिष्ठेन सर्वविद्याविशारदाः।
धनुर्वेदे च निरताः सर्वशास्त्रार्थवेदिनः॥६०॥
बभूवुर्जगतां नाथा लीलया नररूपिणः।
लक्ष्मणस्तु सदा राममनुगच्छति सादरम्॥६१॥
सेव्यसेवकभावेन शत्रुघ्नो भरतं तथा।
रामश्चापधरो नित्यं तूणीबाणान्वितः प्रभुः॥६२॥
अश्वारूढो वनं याति मृगयायै सलक्ष्मणः।
हत्वा दुष्टमृगान् सर्वान् पित्रे सर्वं न्यवेदयत्॥६३॥
प्रातरुत्थाय सुस्नातः पितरावभिवाद्य च।
पौरकार्याणि सर्वाणि करोति विनयान्वितः॥६४॥
बन्धुभिः सहितो नित्यं भुक्त्वा मुनिभिरन्वहम्।
धर्मशास्त्ररहस्यानि शृणोति व्याकरोति च॥६५॥
एवं परात्मा मनुजावतारो मनुष्यलोकाननुसृत्य सर्वम्।
चक्रेऽविकारी परिणामहीनो विचार्यमाणे न करोति किञ्चित्॥६६॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे तृतीयः सर्गः॥