द्वितीयः सर्गः

पार्वत्युवाच

धन्यास्म्यनुगृहीतास्मि कृतार्थास्मि जगत्प्रभो।
विच्छिन्नो मेऽतिसन्देहग्रन्थिर्भवदनुग्रहात्॥१॥
त्वन्मुखाद्गलितं रामतत्त्वामृतरसायनम्।
पिबन्त्या मे मनो देव न तृप्यति भवापहम्॥२॥
श्रीरामस्य कथा त्वत्तः श्रुता सङ्क्षेपतो मया।
इदानीं श्रोतुमिच्छामि विस्तरेण स्फुटाक्षरम्॥३॥

श्री-महादेव उवाच

शृणु देवि प्रवक्ष्यामि गुह्याद्गुह्यतरं महत्।
अध्यात्मरामचरितं रामेणोक्तं पुरा मम॥४॥
तदद्य कथयिष्यामि शृणु तापत्रयापहम्।
यच्छ्रुत्वा मुच्यते जन्तुरज्ञानोत्थमहाभयात्।
प्राप्नोति परमामृद्धिम् दीर्घायुः पुत्रसन्ततिम्॥५॥
भूमिर्भारेण मग्ना दशवदनमुखाशेषरक्षोगणानां
धृत्वा गोरूपमादौ दिविजमुनिजनैः साकमब्जासनस्य।
गत्वा लोकं रुदन्ती व्यसनमुपगतं ब्रह्मणे प्राह सर्वं
ब्रह्मा ध्यात्वा मुहूर्तं सकलमपि हृदावेदशेषात्मकत्वात्॥६॥
तस्मात्क्षीरसमुद्रतीरमगमद् ब्रह्माथ देवैर्वृतो
देव्या चाखिललोकहृत्स्थमजरं सर्वज्ञमीशं हरिम्।
अस्तौषीच्छ्रुतिसिद्धनिर्मलपदैः स्तोत्रैः पुराणोद्भवैः
भक्त्या गद्गदया गिरातिविमलैरानन्दबाष्पैर्वृतः॥७॥
ततः स्फुरत्सहस्रांशुसहस्रसदृशप्रभः।
आविरासीद्धरिः प्राच्यां दिशां व्यपनयन्स्तमः॥८॥
कथञ्चिद्दृष्टवान् ब्रह्मा दुर्दर्शमकृतात्मनाम्।
इन्द्रनीलप्रतीकाशं स्मितास्यं पद्मलोचनम्॥९॥
किरीटहारकेयूरकुण्डलैः कटकादिभिः।
विभ्राजमानं श्रीवत्सकौस्तुभप्रभयान्वितम्॥१०॥
स्तुवद्भिः सनकाद्यैश्च पार्षदैः परिवेष्टितम्।
शङ्खचक्रगदापद्मवनमालाविराजितम्॥११॥
स्वर्णयज्ञोपवीतेन स्वर्णवर्णाम्बरेण च।
श्रिया भूम्या च सहितं गरुडोपरि संस्थितम्॥१२॥
हर्षगद्गदया वाचा स्तोतुं समुपचक्रमे॥१३॥

ब्रह्मोवाच

नतोऽस्मि ते पदं देव प्राणबुद्धीन्द्रियात्मभिः।
यच्चिन्त्यते कर्मपाशाद्धृदि नित्यं मुमुक्षुभिः॥१४॥
मायया गुणमय्या त्वं सृजस्यवसि लुम्पसि।
जगत्तेन न ते लेप आनन्दानुभवात्मनः॥१५॥
तथा शुद्धिर्न दुष्टानां दानाध्ययनकर्मभिः।
शुद्धात्मता ते यशसि सदा भक्तिमतां यथा॥१६॥
अतस्तवाङ्घ्रिर्मे दृष्टश्चित्तदोषापनुत्तये।
सद्योऽन्तर्हृदये नित्यं मुनिभिः सात्वतैर्वृतः॥१७॥
ब्रह्माद्यैः स्वार्थसिद्ध्यर्थमस्माभिः पूर्वसेवितः।
अपरोक्षानुभूत्यर्थं ज्ञानिभिर्हृदि भावितः॥१८॥
तवाङ्घ्रिपूजानिर्माल्यतुलसीमालया विभो।
स्पर्धते वक्षसि पदं लब्ध्वाऽपि श्रीः सपत्निवत्॥१९॥
अतस्त्वत्पादभक्तेषु तव भक्तिः श्रियोऽधिका।
भक्तिमेवाभिवाञ्छन्ति त्वद्भक्ताः सारवेदिनः॥२०॥
अतस्त्वत्पादकमले भक्तिरेव सदास्तु मे।
संसाराऽऽमयतप्तानां भेषजं भक्तिरेव ते॥२१॥
इति ब्रुवन्तं ब्रह्माणं बभाषे भगवान् हरिः।
किं करोमीति तं वेधाः प्रत्युवाचातिहर्षितः॥२२॥
भगवन् रावणो नाम पौलस्त्यतनयो महान्।
राक्षसानामधिपतिर्मद्दत्तवरदर्पितः॥२३॥
त्रिलोकीं लोकपालान्श्च बाधते विश्वबाधकः।
मानुषेण मृतिस्तस्य मया कल्याण कल्पिता॥२४॥
अतस्त्वं मानुषो भूत्वा जहि देवरिपुं प्रभो॥२५॥

श्रीभगवानुवाच

कश्यपस्य वरो दत्तस्तपसा तोषितेन मे।
याचितः पुत्रभावाय तथेत्यङ्गीकृतं मया।
स इदानीं दशरथो भूत्वा तिष्ठति भूतले॥२६॥
तस्याहं पुत्रतामेत्य कौसल्यायां शुभे दिने।
चतुर्धाऽऽत्मानमेवाहं सृजामीतरयोः पृथक्॥२७॥
योगमायाऽपि सीतेति जनकस्य गृहे तदा।
उत्पत्स्यते तया सार्धं सर्वं सम्पादयाम्यहम्।
इत्युक्त्वाऽन्तर्दधे विष्णुर्ब्रह्मा देवानथाब्रवीत्॥२८॥

ब्रह्मोवाच

विष्णुर्मानुषरूपेण भविष्यति रघोः कुले॥२९॥
यूयं सृजध्वं सर्वेऽपि वानरेष्वंशसम्भवान्।
विष्णोः सहायं कुरुत यावत्स्थास्यति भूतले॥३०॥
इति देवान् समादिश्य समाश्वास्य च मेदिनीम्।
ययौ ब्रह्मा स्वभवनं विज्वरः सुखमास्थितः॥३१॥
देवाश्च सर्वे हरिरूपधारिणः
स्थिताः सहायार्थमितस्ततो हरेः।
महाबलाः पर्वतवृक्षयोधिनः
प्रतीक्षमाणा भगवन्तमीश्वरम्॥३२॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे द्वितीयः सर्गः॥