प्रथमः सर्गः
॥राम हृदयम्॥
यः पृथिवीभरवारणाय दिविजैः सम्प्रार्थितश्चिन्मयः
सञ्जातः पृथिवीतले रविकुले मायामनुष्योऽव्ययः।
निश्चक्रं हतराक्षसः पुनरगाद् ब्रह्मत्वमाद्यं स्थिरां
कीर्तिं पापहरां विधाय जगतां तं जानकीशं भजे॥१॥
विश्वोद्भवस्थितिलयादिषु हेतुमेकं
मायाश्रयं विगतमायमचिन्त्यमूर्तिम्।
आनन्दसान्द्रममलं निजबोधरूपं
सीतापतिं विदिततत्त्वमहं नमामि॥२॥
पठन्ति ये नित्यमनन्यचेतसः
शृण्वन्ति चाध्यात्मिकसंज्ञितं शुभम्।
रामायणं सर्वपुराणसम्मतं
निर्धूतपापा हरिमेव यान्ति ते॥३॥
अध्यात्मरामायणमेव नित्यं
पठेद्यदीच्छेद्भवबन्धमुक्तिम्।
गवां सहस्रायुतकोटिदानात्
फलं लभेद्यः शृणुयात्स नित्यम्॥४॥
पुरारिगिरिसम्भूता श्रीरामार्णवसङ्गता।
अध्यात्मरामगङ्गेयं पुनाति भुवनत्रयम्॥५॥
कैलासाग्रे कदाचिद्रविशतविमले मन्दिरे रत्नपीठे
संविष्टं ध्याननिष्ठं त्रिनयनमभयं सेवितं सिद्धसङ्घैः।
देवी वामाङ्कसंस्था गिरिवरतनया पार्वती भक्तिनम्रा
प्राहेदं देवमीशं सकलमलहरं वाक्यमानन्दकन्दम्॥६॥
पार्वत्युवाच
नमोऽस्तु ते देव जगन्निवास
सर्वात्मदृक् त्वं परमेश्वरोऽसि।
पृच्छामि तत्त्वं पुरुषोत्तमस्य
सनातनं त्वं च सनातनोऽसि॥७॥
गोप्यं यदत्यन्तमनन्यवाच्यं
वदन्ति भक्तेषु महानुभावाः।
तदप्यहोऽहं तव देव भक्ता
प्रियोऽसि मे त्वं वद यत्तु पृष्टम्॥८॥
ज्ञानं सविज्ञानमथानुभक्ति-
वैराग्ययुक्तं च मितं विभास्वत्।
जानाम्यहं योषिदपि त्वदुक्तं
यथा तथा ब्रूहि तरन्ति येन॥९॥
पृच्छामि चान्यच्च परं रहस्यं
तदेव चाग्रे वद वारिजाक्ष।
श्रीरामचन्द्रेऽखिललोकसारे
भक्तिर्दृढा नौर्भवति प्रसिद्धा॥१०॥
भक्तिः प्रसिद्धा भवमोक्षणाय
नान्यत्ततः साधनमस्ति किञ्चित्।
तथाऽपि हृत्संशयबन्धनं मे
विभेत्तुमर्हस्यमलोक्तिभिस्त्वम्॥११॥
वदन्ति रामं परमेकमाद्यं
निरस्तमायागुणसम्प्रवाहम्।
भजन्ति चाहर्निशमप्रमत्ताः
परं पदं यान्ति तथैव सिद्धाः॥१२॥
वदन्ति केचित्परमोऽपि रामः
स्वाविद्यया संवृतमात्मसंज्ञम्।
जानाति नाऽऽत्मानमतः परेण
सम्बोधितो वेद परात्मतत्त्वम्॥१३॥
यदि स्म जानाति कुतो विलापः
सीताकृतेऽनेन कृतः परेण।
जानाति नैवं यदि केन सेव्यः
समो हि सर्वैरपि जीवजातैः॥१४॥
अत्रोत्तरं किं विदितं भवद्भिः।
तद्ब्रूत मे संशयभेदि वाक्यम्॥१५॥
श्री-महादेव उवाच
धन्याऽसि भक्ताऽसि परात्मनस्त्वं
यज्ज्ञातुमिच्छा तव रामतत्त्वम्।
पुरा न केनाप्यभिचोदितोऽहं
वक्तुं रहस्यं परमं निगूढम्॥१६॥
त्वयाऽद्य भक्त्या परिनोदितोऽहं
वक्ष्ये नमस्कृत्य रघूत्तमं ते।
रामः परात्मा प्रकृतेरनादि-
रानन्द एकः पुरुषोत्तमो हि॥१७॥
स्वमायया कृत्स्नमिदं हि सृष्ट्वा
नभोवदन्तर्बहिरास्थितो यः।
सर्वान्तरस्थोऽपि निगूढ आत्मा
स्वमायया सृष्टमिदं विचष्टे॥१८॥
जगन्ति नित्यं परितो भ्रमन्ति
यत्सन्निधौ चुम्बकलोहवद्धि।
एतन्न जानन्ति विमूढचित्ताः
स्वाविद्यया संवृतमानसा ये॥१९॥
स्वाज्ञानमप्यात्मनि शुद्धबुद्धे
स्वारोपयन्तीह निरस्तमाये।
संसारमेवानुसरन्ति ते वै
पुत्रादिसक्ताः पुरुकर्मयुक्ताः॥२०॥
यथाऽप्रकाशो न तु विद्यते रवौ
ज्योतिःस्वभावे परमेश्वरे तथा।
विशुद्धविज्ञानघने रघूत्तमे-
ऽविद्या कथं स्यात्परतः परात्मनि॥२१॥
यथा हि चाक्ष्णा भ्रमता गृहादिकं
विनष्टदृष्टेर्भ्रमतीव दृश्यते।
तथैव देहेन्द्रियकर्तुरात्मनः
कृते परेऽध्यस्य जनो विमुह्यति॥२२॥
नाहो न रात्रिः सवितुर्यथा भवेत्
प्रकाशरूपाव्यभिचारतः क्वचित्।
ज्ञानं तथाऽज्ञानमिदं द्वयं हरौ
रामे कथं स्थास्यति शुद्धचिद्घने॥२३॥
तस्मात्परानन्दमये रघूत्तमे
विज्ञानरूपे हि न विद्यते तमः।
अज्ञानसाक्षिण्यरविन्दलोचने
मायाश्रयत्वान्न हि मोहकारणम्॥२४॥
अत्र ते कथयिष्यामि रहस्यमपि दुर्लभम्।
सीताराममरुत्सूनुसंवादं मोक्षसाधनम्॥२५॥
पुरा रामायणे रामे रावणं देवकण्टकम्।
हत्वा रणे रणश्लाघी सपुत्रबलवाहनम्॥२६॥
सीतया सह सुग्रीवलक्ष्मणाभ्यां समन्वितः।
अयोध्यामगमद्रामो हनूमत्प्रमुखैर्वृतः॥२७॥
अभिषिक्तः परिवृतो वसिष्ठाद्यैर्महात्मभिः।
सिंहासने समासीनः कोटिसूर्यसमप्रभः॥२८॥
दृष्ट्वा तदा हनूमन्तं प्राञ्जलिं पुरतः स्थितम्।
कृतकार्यं निराकाङ्क्षं ज्ञानापेक्षं महामतिम्॥२९॥
रामः सीतामुवाचेदं ब्रूहि तत्त्वं हनूमते।
निष्कल्मषोऽयं ज्ञानस्य पात्रं नो नित्यभक्तिमान्॥३०॥
तथेति जानकी प्राह तत्त्वं रामस्य निश्चितम्।
हनूमते प्रपन्नाय सीता लोकविमोहिनी॥३१॥
सीतोवाच
रामं विद्धि परं ब्रह्म सच्चिदानन्दमद्वयम्।
सर्वोपाधिविनिर्मुक्तं सत्तामात्रमगोचरम्॥३२॥
आनन्दं निर्मलं शान्तं निर्विकारं निरञ्जनम्।
सर्वव्यापिनमात्मानं स्वप्रकाशमकल्मषम्॥३३॥
मां विद्धि मूलप्रकृतिं सर्गस्थित्यन्तकारिणीम्।
तस्य सन्निधिमात्रेण सृजामीदमतन्द्रिता॥३४॥
तत्सान्निध्यान्मया सृष्टं तस्मिन्नारोप्यतेऽबुधैः।
अयोध्यानगरे जन्म रघुवंशेऽतिनिर्मले॥३५॥
विश्वामित्रसहायत्वं मखसंरक्षणं ततः।
अहल्याशापशमनं चापभङ्गो महेशितुः॥३६॥
मत्पाणिग्रहणं पश्चाद्भार्गवस्य मदक्षयः।
अयोध्यानगरे वासो मया द्वादशवार्षिकः॥३७॥
दण्डकारण्यगमनं विराधवध एव च।
मायामारीचमरणं मायासीताहृतिस्तथा॥३८॥
जटायुषो मोक्षलाभः कबन्धस्य तथैव च।
शबर्याः पूजनं पश्चात्सुग्रीवेण समागमः॥३९॥
वालिनश्च वधः पश्चात्सीतान्वेषणमेव च।
सेतुबन्धश्च जलधौ लङ्कायाश्च निरोधनम्॥४०॥
रावणस्य वधो युद्धे सपुत्रस्य दुरात्मनः।
विभीषणे राज्यदानं पुष्पकेण मया सह॥४१॥
अयोध्यागमनं पश्चाद्राज्ये रामाभिषेचनम्।
एवमादीनि कर्माणि मयैवाचरितान्यपि।
आरोपयन्ति रामेऽस्मिन्निर्विकारेऽखिलात्मनि॥४२॥
रामो न गच्छति न तिष्ठति नानुशोच-
त्याकाङ्क्षते त्यजति नो न करोति किञ्चित्।
आनन्दमूर्तिरचलः परिणामहीनो
मायागुणाननुगतो हि तथा विभाति॥४३॥
ततो रामः स्वयं प्राह हनूमन्तमुपस्थितम्।
शृणु तत्त्वं प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम्॥४४॥
आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान्।
जलाशये महाकाशस्तदवच्छिन्न एव हि।
प्रतिबिम्बाख्यमपरं दृश्यते त्रिविधं नभः॥४५॥
बुद्ध्यवच्छिन्नचैतन्यमेकं पूर्णमथापरम्।
आभासस्त्वपरं बिम्बभूतमेवं त्रिधा चितिः॥४६॥
साभासबुद्धेः कर्तृत्वमविच्छिन्नेऽविकारिणि।
साक्षिण्यारोप्यते भ्रान्त्या जीवत्वं च तथा बुधैः॥४७॥
आभासस्तु मृषा बुद्धिरविद्याकार्यमुच्यते।
अविच्छिन्नं तु तद्ब्रह्म विच्छेदस्तु विकल्पतः॥४८॥
अविच्छिन्नस्य पूर्णेन एकत्वं प्रतिपाद्यते।
तत्त्वमस्यादिवाक्यैश्च साभासस्याहमस्तथा॥४९॥
ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चाऽऽत्मनोः।
तदाऽविद्या स्वकार्यैश्च नश्यत्येव न संशयः॥५०॥
एतद्विज्ञाय मद्भक्तो मद्भावायोपपद्यते।
मद्भक्तिविमुखानां हि शास्त्रगर्तेषु मुह्यताम्।
न ज्ञानं न च मोक्षः स्यात्तेषां जन्मशतैरपि॥५१॥
इदं रहस्यं हृदयं ममाऽऽत्मनो
मयैव साक्षात्कथितं तवानघ।
मद्भक्तिहीनाय शठाय न त्वया
दातव्यमैन्द्रादपि राज्यतोऽधिकम्॥५२॥
श्री-महादेव उवाच
एतत्तेऽभिहितं देवि श्रीरामहृदयं मया।
अतिगुह्यतमं हृद्यं पवित्रं पापशोधनम्॥५३॥
साक्षाद्रामेण कथितं सर्ववेदान्तसङ्ग्रहम्।
यः पठेत्सततं भक्त्या स मुक्तो नात्र संशयः॥५४॥
ब्रह्महत्यादि पापानि बहुजन्मार्जितान्यपि।
नश्यन्त्येव न सन्देहो रामस्य वचनं यथा॥५५॥
योऽतिभ्रष्टोऽतिपापी परधनपरदारेषु नित्योद्यतो वा
स्तेयी ब्रह्मघ्नमातापितृवधनिरतो योगिवृन्दापकारी।
यः सम्पूज्याभिरामं पठति च हृदयं रामचन्द्रस्य भक्त्या
योगीन्द्रैरप्यलभ्यं पदमिह लभते सर्वदेवैः सुपूज्यम्॥५६॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे श्रीरामहृदयं नाम प्रथमः सर्गः॥
❀