नवमः सर्गः

अथ गत्वाऽऽश्रमपदसमीपं भरतो मुदा।
सीतारामपदैर्युक्तं पवित्रमतिशोभनम्॥१॥
स तत्र वज्राङ्कुशवारिजाञ्चित-
ध्वजादिचिह्नानि पदानि सर्वतः।
ददर्श रामस्य भुवोऽतिमङ्गलानि
अचेष्टयत्पादरजःसु सानुजः॥२॥
अहो सुधन्योऽहममूनि
रामपादारविन्दाङ्कितभूतलानि।
पश्यामि यत्पादरजो विमृग्यं
ब्रह्मादिदेवैः श्रुतिभिश्च नित्यम्॥३॥
इत्यद्भुतप्रेमरसाप्लुताशयो
विगाढचेता रघुनाथभावने।
आनन्दजाश्रुस्नपितस्तनान्तरः
शनैरवापाश्रमसन्निधिं हरेः॥४॥
स तत्र दृष्ट्वा रघुनाथमास्थितं
दूर्वादलश्यामलमायतेक्षणम्।
जटाकिरीटं नववल्कलाम्बरं
प्रसन्नवक्त्रं तरुणारुणद्युतिम्॥५॥
विलोकयन्तं जनकात्मजां शुभां
सौमित्रिणा सेवितपादपङ्कजम्।
तदाऽभिदुद्राव रघूत्तमं शुचा
हर्षाच्च तत्पादयुगं त्वराग्रहीत्॥६॥
रामस्तमाकृष्य सुदीर्घबाहुर्दोर्भ्यां
परिष्वज्य सिषिञ्च नेत्रजैः।
जलैरथाङ्कोपरि सन्न्यवेशयत्
पुनः पुनः सम्परिषस्वजे विभुः॥७॥
अथ ता मातरः सर्वाः समाजग्मुस्त्वरान्विताः।
राघवं द्रष्टुकामास्तास्तृषार्ता गौर्यथा जलम्॥८॥
रामः स्वमातरं वीक्ष्य द्रुतमुत्थाय पादयोः।
ववन्दे साश्रु सा पुत्रमालिङ्ग्यातीव दुःखिता॥९॥
इतराश्च तथा नत्वा जननी रघुनन्दनः।
ततः समागतं दृष्ट्वा वसिष्ठं मुनिपुङ्गवम्॥१०॥
साष्टाङ्गं प्रणिपत्याह धन्योऽस्मीति पुनः पुनः।
यथार्हमुपवेश्याह सर्वानेव रघूद्वहः॥११॥
पिता मे कुशली किं वा मां किमाहातिदुःखितः।
वसिष्ठस्तमुवाचेदं पिता ते रघुनन्दन॥१२॥
त्वद्वियोगाभितप्तात्मा त्वामेव परिचिन्तयन्।
रामरामेति सीतेति लक्ष्मणेति ममार ह॥१३॥
श्रुत्वा तत्कर्णशूलाभं गुरोर्वचनमञ्जसा।
हा हतोऽस्मीति पतितो रुदन् रामः सलक्ष्मणः॥१४॥
ततोऽनुरुरुदुः सर्वा मातरश्च तथाऽपरे।
हा तात मां परित्यज्य क्व गतोऽसि घृणाकर॥१५॥
अनाथोऽस्मि महाबाहो मां को वा लालयेदितः।
सीता च लक्ष्मणश्चैव विलेपतुरतो भृशम्॥१६॥
वसिष्ठः शान्तवचनैः शमयामास तां शुचम्।
ततो मन्दाकिनीं गत्वा स्नात्वा ते वीतकल्मषाः॥१७॥
राज्ञे ददुर्जलं तत्र सर्वे ते जलकाङ्क्षिणे।
पिण्डान्निर्वापयामास रामो लक्ष्मणसंयुतः॥१८॥
इङ्गुदीफलपिण्याकरचितान्मधुसम्प्लुतान्।
वयं यदन्नाः पितरस्तदन्नाः स्मृतिनोदिताः॥१९॥
इति दुखाश्रुपूर्णाक्षः पुनः स्नात्वा गृहं ययौ।
सर्वे रुदित्वा सुचिरं स्नात्वा जग्मुस्तदाश्रमम्॥२०॥
तस्मिन्स्तु दिवसे सर्वे उपवासं प्रचक्रिरे।
ततः परेद्युर्विमले स्नात्वा मन्दाकिनीजले॥२१॥
उपविष्टं समागम्य भरतो राममब्रवीत्।
राम राम महाभाग स्वात्मानमभिषेचय॥२२॥
राज्यं पालय पित्र्यं ते ज्येष्ठस्त्वं मे पिता तथा।
क्षत्रियाणामयं धर्मो यत्प्रजापरिपालनम्॥२३॥
इष्ट्वा यज्ञैर्बहुविधैः पुत्रानुत्पाद्य तन्तवे।
राज्ये पुत्रं समारोप्य गमिष्यसि ततो वनम्॥२४॥
इदानीं वनवासस्य कालो नैव प्रसीद मे।
मातुर्मे दुष्कृतं किञ्चित्स्मर्तुं नार्हसि पाहि नः॥२५॥
इत्युक्त्वा चरणौ भ्रातुः शिरस्याधाय भक्तितः।
रामस्य पुरतः साक्षाद् दण्डवत्पतितो भुवि॥२६॥
उत्थाप्य राघवः शीघ्रमारोप्याङ्केऽतिभक्तितः।
उवाच भरतं रामः स्नेहार्द्रनयनः शनैः॥२७॥
शृणु वत्स प्रवक्ष्यामि त्वयोक्तं यत्तथैव तत्।
किन्तु मामब्रवीत्तातो नव वर्षाणि पञ्च च॥२८॥
उषित्वा दण्डकारण्ये पुरं पश्चात्समाविश।
इदानीं भरतायेदं राज्यं दत्तं मयाऽखिलम्॥२९॥
ततः पित्रैव सुव्यक्तं राज्यं दत्तं तवैव हि।
दण्डकारण्यराज्यं मे दत्तं पित्रा तथैव च॥३०॥
अतः पितुर्वचः कार्यमावाभ्यामतियत्नतः।
पितुर्वचनमुल्लङ्घ्य स्वतन्त्रो यस्तु वर्तते॥३१॥
स जीवन्नेव मृतको देहान्ते निरयं व्रजेत्।
तस्माद् राज्यं प्रशाधि त्वं वयं दण्डकपालकाः॥३२॥
भरतस्त्वब्रवीद् रामं कामुको मूढधीः पिता।
स्त्रीजितो भ्रान्तहृदय उन्मत्तो यदि वक्ष्यति।
तत्सत्यमिति न ग्राह्यं भ्रान्तवाक्यं यथा सुधीः॥३३॥

श्रीराम उवाच

न स्त्रीजितः पिता ब्रूयान्न कामी नैव मूढधीः।
पूर्वं प्रतिश्रुतं तस्य सत्यवादी ददौ भयात्॥३४॥
असत्याद्भीतिरधिका महतां नरकादपि।
करोमीत्यहमप्येतत्सत्यं तस्यै प्रतिश्रुतम्॥३५॥
कथं वाक्यमहं कुर्यामसत्यं राघवो हि सन्।
इत्युदीरितमाकर्ण्य रामस्य भरतोऽब्रवीत्॥३६॥

श्रीभरत उवाच

तथैव चीरवसनो वने वत्स्यामि सुव्रत।
चतुर्दश समास्त्वं तु राज्यं कुरु यथासुखम्॥३७॥

श्रीराम उवाच

पित्रा दत्तं तवैवैतद् राज्यं मह्यं वनं ददौ।
व्यत्ययं यद्यहं कुर्यामसत्यं पूर्ववत् स्थितम्॥३८॥
अहमप्यागमिष्यामि सेवे त्वां लक्ष्मणो यथा।
नोचेत्प्रायोपवेशेन त्यजाम्येतत्कलेवरम्॥३९॥
इत्येवं निश्चयं कृत्वा दर्भानास्तीर्य चातपे।
मनसाऽपि विनिश्चित्य प्राङ्मुखोपविवेश सः॥४०॥
भरतस्यापि निर्बन्धं दृष्ट्वा रामोऽतिविस्मितः।
नेत्रान्तसंज्ञां गुरवे चकार रघुनन्दनः॥४१॥
एकान्ते भरतं प्राह वसिष्ठो ज्ञानिनां वरः।
वत्स गुह्यं शृणुष्वेदं मम वाक्यात्सुनिश्चितम्॥४२॥
रामो नारायणः साक्षाद्ब्रह्मणा याचितः पुरा।
रावणस्य वधार्थाय जातो दशरथात्मजः॥४३॥
योगमायाऽपि सीतेति जाता जनकनन्दिनी।
शेषोऽपि लक्ष्मणो जातो राममन्वेति सर्वदा॥४४॥
रावणं हन्तुकामास्ते गमिष्यन्ति न संशयः।
कैकेय्या वरदानादि यद्यन्निष्ठुरभाषणम्॥४५॥
सर्वं देवकृतं नो चेदेवं सा भाषयेत्कथम्।
तस्मात्त्यजाऽऽग्रहं तात रामस्य विनिवर्तने॥४६॥
निवर्तस्व महासैन्यैर्भ्रातृभिः सहितः पुरम्।
रावणं सकुलं हत्वा शीघ्रमेवागमिष्यति॥४७॥
इति श्रुत्वा गुरोर्वाक्यं भरतो विस्मयान्वितः।
गत्वा समीपं रामस्य विस्मयोत्फुल्ललोचनः॥४८॥
पादुके देहि राजेन्द्र राज्याय तव पूजिते।
तयोः सेवां करोम्येव यावदागमनं तव॥४९॥
इत्युक्त्वा पादुके दिव्ये योजयामास पादयोः।
रामस्य ते ददौ रामो भरतायातिभक्तितः॥५०॥
गृहीत्वा पादुके दिव्ये भरतो रत्नभूषिते।
रामं पुनः परिक्रम्य प्रणनाम पुनः पुनः॥५१॥
भरतः पुनराहेदं भक्त्या गद्गदया गिरा।
नवपञ्चसमान्ते तु प्रथमे दिवसे यदि॥५२॥
नागमिष्यसि चेद्राम प्रविशामि महानलम्।
बाढमित्येव तं रामो भरतं सन्न्यवर्तयत्॥५३॥
ससैन्यः सवसिष्ठश्च शत्रुघ्नसहितः सुधीः।
मातृभिर्मन्त्रिभिः सार्धं गमनायोपचक्रमे॥५४॥
कैकेयी राममेकान्ते स्रवन्नेत्रजलाकुला।
प्राञ्जलिः प्राह हे राम तव राज्यविघातनम्॥५५॥
कृतं मया दुष्टधिया मायामोहितचेतसा।
क्षमस्व मम दौरात्म्यं क्षमासारा हि साधवः॥५६॥
त्वं साक्षाद्विष्णुरव्यक्तः परमात्मा सनातनः।
मायामानुषरूपेण मोहयस्यखिलं जगत्।
त्वयैव प्रेरितो लोकः कुरुते साध्वसाधु वा॥५७॥
त्वदधीनमिदं विश्वमस्वतन्त्रं करोति किम्।
यथा कृत्रिमनर्तक्यो नृत्यन्ति कुहकेच्छया॥५८॥
त्वदधीना तथा माया नर्तकी बहुरूपिणी।
त्वयैव प्रेरिताहं च देवकार्यं करिष्यता॥५९॥
पापिष्ठं पापमनसा कर्माचरमरिन्दम।
अद्य प्रतीतोऽसि मम देवानामप्यगोचरः॥६०॥
पाहि विश्वेश्वरानन्त जगन्नाथ नमोऽस्तु ते।
छिन्धि स्नेहमयं पाशं पुत्रवित्तादिगोचरम्॥६१॥
त्वज्ज्ञानानलखड्गेन त्वामहं शरणं गता।
कैकेय्या वचनं श्रुत्वा रामः सस्मितमब्रवीत्॥६२॥
यदाह मां महाभागे नानृतं सत्यमेव तत्।
मयैव प्रेरिता वाणी तव वक्त्राद्विनिर्गता॥६३॥
देवकार्यार्थसिद्ध्यर्थमत्र दोषः कुतस्तव।
गच्छ त्वं हृदि मां नित्यं भावयन्ती दिवानिशम्॥६४॥
सर्वत्र विगतस्नेहा मद्भक्त्या मोक्ष्यसेऽचिरात्।
अहं सर्वत्र समदृग् द्वेष्यो वा प्रिय एव वा॥६५॥
नास्ति मे कल्पकस्येव भजतोऽनुभजाम्यहम्।
मन्मायामोहितधियो मामम्ब मनुजाकृतिम्॥६६॥
सुखदुःखाद्यनुगतं जानन्ति न तु तत्त्वतः।
दिष्ट्या मद्गोचरं ज्ञानमुत्पन्नं ते भवापहम्॥६७॥
स्मरन्ती तिष्ठ भवने लिप्यसे न च कर्मभिः।
इत्युक्ता सा परिक्रम्य रामं सानन्दविस्मया॥६८॥
प्रणम्य शतशो भूमौ ययौ गेहं मुदान्विता।
भरतस्तु सहामात्यैर्मातृभिर्गुरुणा सह॥६९॥
अयोध्यामगमच्छ्रीघ्रं राममेवानुचिन्तयन्।
पौरजानपदान् सर्वानयोध्यायामुदारधीः॥७०॥
स्थापयित्वा यथान्यायं नन्दिग्रामं ययौ स्वयम्।
तत्र सिंहासने नित्यं पादुके स्थाप्य भक्तितः॥७१॥
पूजयित्वा यथा रामं गन्धपुष्पाक्षतादिभिः।
राजोपचारैरखिलैः प्रत्यहं नियतव्रतः॥७२॥
फलमूलाशनो दान्तो जटावल्कलधारकः।
अधःशायी ब्रह्मचारी शत्रुघ्नसहितस्तदा॥७३॥
राजकार्याणि सर्वाणि यावन्ति पृथिवीतले।
तानि पादुकयोः सम्यङ्निवेदयति राघवः॥७४॥
गणयन् दिवसान्येव रामागमनकाङ्क्षया।
स्थितो रामार्पितमनाःसाक्षाद्ब्रह्ममुनिर्यथा॥७५॥
रामस्तु चित्रकूटाद्रौ वसन्मुनिभिरावृतः।
सीतया लक्ष्मणेनापि किञ्चित्कालमुपावसत्॥७६॥
नागराश्च सदा यान्ति रामदर्शनलालसाः।
चित्रकूटस्थितं ज्ञात्वा सीतया लक्ष्मणेन च॥७७॥
दृष्ट्वा तज्जनसम्बाधं रामस्तत्याज तं गिरिम्।
दण्डकारण्यगमने कार्यमप्यनुचिन्तयन्॥७८॥
अन्वगात्सीतया भ्रात्रा ह्यत्रेराश्रममुत्तमम्।
सर्वत्र सुखसंवासं जनसम्बाधवर्जितम्॥७९॥
गत्वा मुनिमुपासीनं भासयन्तं तपोवनम्।
दण्डवत्प्रणिपत्याह रामोऽहमभिवादये॥८०॥
पितुराज्ञां पुरस्कृत्य दण्डकाननमागतः।
वनवासमिषेणापि धन्योऽहं दर्शनात् तव॥८१॥
श्रुत्वा रामस्य वचनं रामं ज्ञात्वा हरिं परम्।
पूजयामास विधिवद्भक्त्या परमया मुनिः॥८२॥
वन्यैः फलैः कृतातिथ्यमुपविष्टं रघूत्तमम्।
सीतां च लक्ष्मणं चैव सन्तुष्टो वाक्यमब्रवीत्॥८३॥
भार्या मेऽतीव संवृद्धा ह्यनसूयेति विश्रुता।
तपश्चरन्ती सुचिरं धर्मज्ञा धर्मवत्सला॥८४॥
अन्तस्तिष्ठति तां सीता पश्यत्वरिनिषूदन।
तथेति जानकीं प्राह रामो राजीवलोचनः॥८५॥
गच्छ देवीं नमस्कृत्य शीघ्रमेहि पुनः शुभे।
तथेति रामवचनं सीता चापि तथाऽकरोत्॥८६॥
दण्डवत्पतितामग्रे सीतां दृष्ट्वाऽतिहृष्टधीः।
अनसूया समालिङ्ग्य वत्से सीतेति सादरम्॥८७॥
दिव्ये ददौ कुण्डले द्वे निर्मिते विश्वकर्मणा।
दुकूले द्वे ददौ तस्यै निर्मले भक्तिसंयुता॥८८॥
अङ्गरागं च सीतायै ददौ दिव्यं शुभानना।
न त्यक्ष्यतेऽङ्गरागेण शोभा त्वां कमलानने॥८९॥
पातिव्रत्यं पुरस्कृत्य राममन्वेहि जानकि।
कुशली राघवो यातु त्वया सह पुनर्गृहम्॥९०॥
भोजयित्वा यथान्यायं रामं सीतासमन्वितम्।
लक्ष्मणं च तदा रामं पुनः प्राह कृताञ्जलिः॥९१॥
राम त्वमेव भुवनानि विधाय तेषां
संरक्षणाय सुरमानुषतिर्यगादीन्।
देहान् बिभर्षि न च देहगुणैर्विलिप्तस्-
त्वत्तो बिभेत्यखिलमोहकरी च माया॥९२॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे नवमः सर्गः॥

इति श्रीमदध्यात्मरामायणे अयोध्याकाण्डः समाप्तः॥

❀ ❀ ❀