अष्टमः सर्गः

वसिष्ठो मुनिभिः सार्धं मन्त्रिभिः परिवारितः।
राज्ञः सभां देवसभासन्निभामविशद्विभुः॥१॥
तत्रासने समासीनश्चतुर्मुख इवापरः।
आनीय भरतं तत्र उपवेश्य सहानुजम्॥२॥
अब्रवीद् वचनं देशकालोचितमरिन्दमम्।
वत्स राज्येऽभिषेक्ष्यामस्त्वामद्य पितृशासनात्॥३॥
कैकेय्या याचितं राज्यं त्वदर्थे पुरुषर्षभ।
सत्यसन्धो दशरथः प्रतिज्ञाय ददौ किल॥४॥
अभिषेको भवत्वद्य मुनिभिर्मन्त्रपूर्वकम्।
तच्छ्रुत्वा भरतोऽप्याह मम राज्येन किं मुने॥५॥
रामो राजाधिराजश्च वयं तस्यैव किङ्कराः।
श्वः प्रभाते गमिष्यामो राममानेतुमञ्जसा॥६॥
अहं यूयं मातरश्च कैकेयीं राक्षसीं विना।
हनिष्याम्यधुनैवाहं कैकेयीं मातृगन्धिनीम्॥७॥
किन्तु मां नो रघुश्रेष्ठः स्त्रीहन्तारं सहिष्यते।
तच्छ्वोभूते गमिष्यामि पादचारेण दण्डकान्॥८॥
शत्रुघ्नसहितस्तूर्णं यूयमायात वा न वा।
रामो यथा वने यातस्तथाऽहं वल्कलाम्बरः॥९॥
फलमूलकृताहारः शत्रुघ्नसहितो मुने।
भूमिशायी जटाधारी यावद्रामो निवर्तते॥१०॥
इति निश्चित्य भरतस्तूष्णीमेवावतस्थिवान्।
साधुसाध्विति तं सर्वे प्रशशंसुर्मुदान्विताः॥११॥
ततः प्रभाते भरतं गच्छन्तं सर्वसैनिकाः।
अनुजग्मुः सुमन्त्रेण नोदिताः साश्वकुञ्जराः॥१२॥
कौसल्याद्या राजदारा वसिष्ठप्रमुखा द्विजाः।
छादयन्तो भुवं सर्वे पृष्ठतः पार्श्वतोऽग्रतः॥१३॥
शृङ्गवेरपुरं गत्वा गङ्गाकूले समन्ततः।
उवास महती सेना शत्रुघ्नपरिचोदिता॥१४॥
आगतं भरतं श्रुत्वा गुहः शङ्कितमानसः।
महत्या सेनया सार्धमागतो भरतः किल॥१५॥
पापं कर्तुं न वा याति रामस्याविदितात्मनः।
गत्वा तद्धृदयं ज्ञेयं यदि शुद्धस्तरिष्यति॥१६॥
गङ्गा नो चेत्समाकृष्य नावस्तिष्ठन्तु सायुधाः।
ज्ञातयो मे समायत्ताः पश्यन्तः सर्वतोदिशम्॥१७॥
इति सर्वान् समादिश्य गुहो भरतमागतः।
उपायनानि सङ्गृह्य विविधानि बहून्यपि॥१८॥
प्रययौ ज्ञातिभिः सार्धं बहुभिर्विविधायुधैः।
निवेद्योपायनान्यग्रे भरतस्य समन्ततः॥१९॥
दृष्ट्वा भरतमासीनं सानुजं सह मन्त्रिभिः।
चीराम्बरं घनश्यामं जटामुकुटधारिणम्॥२०॥
राममेवानुशोचन्तं रामरामेति वादिनम्।
ननाम शिरसा भूमौ गुहोऽहमिति चाब्रवीत्॥२१॥
शीघ्रमुत्थाप्य भरतो गाढमालिङ्ग्य सादरम्।
पृष्ट्वाऽनामयमव्यग्रः सखायमिदमब्रवीत्॥२२॥
भ्रातस्त्वं राघवेणात्र समेतः समवस्थितः।
रामेणालिङ्गितः सार्द्रनयनेनामलात्मना॥२३॥
धन्योऽसि कृतकृत्योऽसि यत् त्वया परिभाषितः।
रामो राजीवपत्राक्षो लक्ष्मणेन च सीतया॥२४॥
यत्र रामस्त्वया दृष्टस्तत्र मां नय सुव्रत।
सीतया सहितो यत्र सुप्तस्तद्दर्शयस्व मे॥२५॥
त्वं रामस्य प्रियतमो भक्तिमानसि भाग्यवान्।
इति संस्मृत्य संस्मृत्य रामं साश्रुविलोचनः॥२६॥
गुहेन सहितस्तत्र यत्र रामः स्थितो निशि।
ययौ ददर्श शयनस्थलं कुशसमास्तृतम्॥२७॥
सीताऽऽभरणसंलग्नस्वर्णबिन्दुभिरर्चितम्।
दुःखसन्तप्तहृदयो भरतः पर्यदेवयत्॥२८॥
अहोऽतिसुकुमारी या सीता जनकनन्दिनी।
प्रासादे रत्नपर्यङ्के कोमलास्तरणे शुभे॥२९॥
रामेण सहिता शेते सा कथं कुशविष्टरे।
सीता रामेण सहिता दुःखेन मम दोषतः॥३०॥
धिङ्मां जातोऽस्मि कैकेय्या पापराशिसमानतः।
मन्निमित्तमिदं क्लेशं रामस्य परमात्मनः॥३१॥
अहोऽतिसफलं जन्म लक्ष्मणस्य महात्मनः।
राममेव सदान्वेति वनस्थमपि हृष्टधीः॥३२॥
अहं रामस्य दासा ये तेषां दासस्य किङ्करः।
यदि स्यां सफलं जन्म मम भूयान्न संशयः॥३३॥
भ्रातर्जानासि यदि तत्कथयस्व ममाखिलम्।
यत्र तिष्ठति तत्राहं गच्छाम्यानेतुमञ्जसा॥३४॥
गुहस्तं शुद्धहृदयं ज्ञात्वा सस्नेहमब्रवीत्।
देव त्वमेव धन्योऽसि यस्य ते भक्तिरीदृशी॥३५॥
रामे राजीवपत्राक्षे सीतायां लक्ष्मणे तथा।
चित्रकूटाद्रिनिकटे मन्दाकिन्यविदूरतः॥३६॥
मुनीनामाश्रमपदे रामस्तिष्ठति सानुजः।
जानक्या सहितो नन्दात्सुखमास्ते किल प्रभुः॥३७॥
तत्र गच्छामहे शीघ्रं गङ्गां तर्तुमिहार्हसि।
इत्युक्त्वा त्वरितं गत्वा नावः पञ्चशतानि ह॥३८॥
समानयत्ससैन्यस्य तर्तुं गङ्गां महानदीम्।
स्वयमेवानिनायैकां राजनावं गुहस्तदा॥३९॥
आरोप्य भरतं तत्र शत्रुघ्नं राममातरम्।
वसिष्ठं च तथाऽन्यत्र कैकेयीं चान्ययोषितः॥४०॥
तीर्त्वा गङ्गां ययौ शीघ्रं भरद्वाजाश्रमं प्रति।
दूरे स्थाप्य महासैन्यं भरतः सानुजो ययौ॥४१॥
आश्रमे मुनिमासीनं ज्वलन्तमिव पावकम्।
दृष्ट्वा ननाम भरतः साष्टाङ्गमतिभक्तितः॥४२॥
ज्ञात्वा दाशरथिं प्रीत्या पूजयामास मौनिराट्।
पप्रच्छ कुशलं दृष्ट्वा जटावल्कलधारिणम्॥४३॥
राज्यं प्रशासतस्तेऽद्य किमेतद्वल्कलादिकम्।
आगतोऽसि किमर्थं त्वं विपिनं मुनिसेवितम्॥४४॥
भरद्वाजवचः श्रुत्वा भरतः साश्रुलोचनः।
सर्वं जानासि भगवन् सर्वभूताशयस्थितः॥४५॥
तथाऽपि पृच्छसे किञ्चित्तदनुग्रह एव मे।
कैकेय्या यत्कृतं कर्म रामराज्यविघातनम्॥४६॥
वनवासादिकं वाऽपि न हि जानामि किञ्चन।
भवत्पादयुगं मेऽद्य प्रमाणं मुनिसत्तम॥४७॥
इत्युक्त्वा पादयुगलं मुनेः स्पृष्ट्वाऽर्त्तमानसः।
ज्ञातुमर्हसि मां देव शुद्धो वाऽशुद्ध एव वा॥४८॥
मम राज्येन किं स्वामिन् रामे तिष्ठति राजनि।
किङ्करोऽहं मुनिश्रेष्ठ रामचन्द्रस्य शाश्वतः॥४९॥
अतो गत्वा मुनिश्रेष्ठ रामस्य चरणान्तिके।
पतित्वा राज्यसम्भारान् समर्प्यात्रैव राघवम्॥५०॥
अभिषेक्ष्ये वसिष्ठाद्यैः पौरजानपदैः सह।
नेष्येऽयोध्यां रमानाथं दासः सेवेऽतिनीचवत्॥५१॥
इत्युदीरितमाकर्ण्य भरतस्य वचो मुनिः।
आलिङ्ग्य मूर्ध्न्यवघ्राय प्रशशंस सविस्मयः॥५२॥
वत्स ज्ञातं पुरैवैतद् भविष्यं ज्ञानचक्षुषा।
मा शुचस्त्वं परो भक्तः श्रीरामे लक्ष्मणादपि॥५३॥
आतिथ्यं कर्तुमिच्छामि ससैन्यस्य तवानघ।
अद्य भुक्त्वा ससैन्यस्त्वं श्वो गन्ता रामसन्निधिम्॥५४॥
यथाऽऽज्ञापयति भवान्स्तथेति भरतोऽब्रवीत्।
भरद्वाजस्त्वपः स्पृष्ट्वा मौनी होमगृहे स्थितः॥५५॥
दध्यौ कामदुघां कामवर्षिणीं कामदो मुनिः।
असृजत्कामधुक् सर्वं यथाकाममलौकिकम्॥५६॥
भरतस्य ससैन्यस्य यथेष्टं च मनोरथम्।
यथा ववर्ष सकलं तृप्तास्ते सर्वसैनिकाः॥५७॥
वसिष्ठं पूजयित्वाऽग्रे शास्त्रदृष्टेन कर्मणा।
पश्चात्ससैन्यं भरतं तर्पयामास योगिराट्॥५८॥
उषित्वा दिनमेकं तु आश्रमे स्वर्गसन्निभे।
अभिवाद्य पुनः प्रातर्भरद्वाजं सहानुजः॥५९॥
भरतस्तु कृतानुज्ञः प्रययौ रामसन्निधिम्।
चित्रकूटमनुप्राप्य दूरे संस्थाप्य सैनिकान्।
रामसन्दर्शनाकाङ्क्षी प्रययौ भरतः स्वयम्॥६०॥
शत्रुघ्नेन सुमन्त्रेण गुहेन च परन्तपः।
तपस्विमण्डलं सर्वं विचिन्वानो न्यवर्तत॥६१॥
अदृष्ट्वा रामभवनमपृच्छदृषिमण्डलम्।
कुत्रास्ते सीतया सार्धं लक्ष्मणेन रघूत्तमः॥६२॥
ऊचुरग्रे गिरेः पश्चाद्गङ्गाया उत्तरे तटे।
विविक्तं रामसदनं रम्यं काननमण्डितम्॥६३॥
सफलैराम्रपनसैः कदलीखण्डसंवृतम्।
चम्पकैः कोविदारैश्च पुन्नागैर्विपुलैस्तथा॥६४॥
एवं दर्शितमालोक्य मुनिभिर्भरतोऽग्रतः।
हर्षाद्ययौ रघुश्रेष्ठभवनं मन्त्रिणा सह॥६५॥
ददर्श दूरादतिभासुरं शुभं
रामस्य गेहं मुनिवृन्दसेवितम्।
वृक्षाग्रसंलग्नसुवल्कलाजिनं
रामाभिरामं भरतः सहानुजः॥६६॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे अष्टमः सर्गः॥