सप्तमः सर्गः

सुमन्त्रोऽपि तदाऽयोध्यां दिनान्ते प्रविवेश ह।
वस्त्रेण मुखमाच्छाद्य बाष्पाकुलितलोचनः॥१॥
बहिरेव रथं स्थाप्य राजानं द्रष्टुमाययौ।
जयशब्देन राजानं स्तुत्वा तं प्रणनाम ह॥२॥
ततो राजा नमन्तं तं सुमन्त्रं विह्वलोऽब्रवीत्।
सुमन्त्र रामः कुत्रास्ते सीतया लक्ष्मणेन च॥३॥
कुत्र त्यक्तस्त्वया रामः किं मां पापिनमब्रवीत्।
सीता वा लक्ष्मणो वाऽपि निर्दयं मां किमब्रवीत्॥४॥
हा राम हा गुणनिधे हा सीते प्रियवादिनि।
दुःखार्णवे निमग्नं मां म्रियमाणं न पश्यसि॥५॥
विलप्यैवं चिरं राजा निमग्नो दुःखसागरे।
एवं मन्त्री रुदन्तं तं प्राञ्जलिर्वाक्यमब्रवीत्॥६॥
रामः सीता च सौमित्रिर्मया नीता रथेन ते।
शृङ्गवेरपुराभ्याशे गङ्गाकूले व्यवस्थिताः॥७॥
गुहेन किञ्चिदानीतं फलमूलादिकं च यत्।
स्पृष्ट्वा हस्तेन सम्प्रीत्या नाग्रहीद्विससर्ज तत्॥८॥
वटक्षीरं समानाय्य गुहेन रघुनन्दनः।
जटामुकुटमाबद्ध्य मामाह नृपते स्वयम्॥९॥
सुमन्त्र ब्रूहि राजानं शोकस्तेऽस्तु न मत्कृते।
साकेतादधिकं सौख्यं विपिने नो भविष्यति॥१०॥
मातुर्मे वन्दनं ब्रूहि शोकं त्यजतु मत्कृते।
आश्वासयतु राजानं वृद्धं शोकपरिप्लुतम्॥११॥
सीता चाश्रुपरीताक्षी मामाह नृपसत्तम।
दुःखगद्गदया वाचा रामं किञ्चिदवेक्षती॥१२॥
साष्टाङ्गं प्रणिपातं मे ब्रूहि श्वश्र्वोः पदाम्बुजे।
इति प्ररुदती सीता गता किञ्चिदवाङ्मुखी॥१३॥
ततस्तेऽश्रुपरीताक्षा नावमारुरुहुस्तदा।
यावद्गङ्गां समुत्तीर्य गतास्तावदहं स्थितः॥१४॥
ततो दुःखेन महता पुनरेवाहमागतः।
ततो रुदन्ती कौसल्या राजानमिदमब्रवीत्॥१५॥
कैकेय्यै प्रियभार्यायै प्रसन्नो दत्तवान् वरम्।
त्वं राज्यं देहि तस्यैव मत्पुत्रः किं विवासितः॥१६॥
कृत्वा त्वमेव तत्सर्वमिदानीं किं नु रोदिषि।
कौसल्यावचनं श्रुत्वा क्षते स्पृष्ट इवाग्निना॥१७॥
पुनः शोकाश्रुपूर्णाक्षः कौसल्यामिदमब्रवीत्।
दुःखेन म्रियमाणं मां किं पुनर्दुःखयस्यलम्॥१८॥
इदानीमेव मे प्राणा उत्क्रमिष्यन्ति निश्चयः।
शप्तोऽहं बाल्यभावेन केनचिन्मुनिना पुरा॥१९॥
पुराहं यौवने दृप्तश्चापबाणधरो निशि।
अचरं मृगयासक्तो नद्यास्तीरे महावने॥२०॥
तत्रार्धरात्रसमये मुनिः कश्चित्तृषार्दितः।
पिपासार्दितयोः पित्रोर्जलमानेतुमुद्यतः।
अपूरयज्जले कुम्भं तदा शब्दोऽभवन्महान्॥२१॥
गजः पिबति पानीयमिति मत्वा महानिशि।
बाणं धनुषि सन्धाय शब्दवेधिनमक्षिपम्॥२२॥
हा हतोऽस्मीति तत्राभूच्छब्दो मानुषसूचकः।
कस्यापि न कृतो दोषो मया केन हतो विधे॥२३॥
प्रतीक्षते मां माता च पिता च जलकाङ्क्षया।
तच्छ्रुत्वा भयसन्त्रस्तस्ततोऽहं पौरुषं वचः॥२४॥
शनैर्गत्वाऽथ तत्पार्श्वं स्वामिन् दशरथोऽस्म्यहम्।
अजानता मया विद्धस्त्रातुमर्हसि मां मुने॥२५॥
इत्युक्त्वा पादयोस्तस्य पतितो गद्गदाक्षरः।
तदा मामाह स मुनिर्मा भैषीर्नृपसत्तम॥२६॥
ब्रह्महत्या स्पृशेन्न त्वां वैश्योऽहं तपसि स्थितः।
पितरौ मां प्रतीक्षेते क्षुत्तृड्भ्यां परिपीडितौ॥२७॥
तयोस्त्वमुदकं देहि शीघ्रमेवाविचारयन्।
न चेत्त्वां भस्मसात्कुर्यात्पिता मे यदि कुप्यति॥२८॥
जलं दत्त्वा तु तौ नत्वा कृतं सर्वं निवेदय।
शल्यमुद्धर मे देहात्प्राणान्स्त्यक्ष्यामि पीडितः॥२९॥
इत्युक्तो मुनिना शीघ्रं बाणमुत्पाट्य देहतः।
सजलं कलशं धृत्वा गतोऽहं यत्र दम्पती॥३०॥
अतिवृद्धावन्धदृशौ क्षुत्पिपासार्दितौ निशि।
नायाति सलिलं गृह्य पुत्रः किं वात्र कारणम्॥३१॥
अनन्यगतिकौ वृद्धौ शोच्यौ तृट्परिपीडितौ।
आवामुपेक्षते किं वा भक्तिमानावयोः सुतः॥३२॥
इति चिन्ताव्याकुलौ तौ मत्पादन्यासजं ध्वनिम्।
श्रुत्वा प्राह पिता पुत्र किं विलम्बः कृतस्त्वया॥३३॥
देह्यावयोः सुपानीयं पिब त्वमपि पुत्रक।
इत्येवं लपतोर्भीत्या सकाशमगमं शनैः॥३४॥
पादयोः प्रणिपत्याहमब्रवं विनयान्वितः।
नाहं पुत्रस्त्वयोध्याया राजा दशरथोऽस्म्यहम्॥३५॥
पापोऽहं मृगयासक्तो रात्रौ मृगविहिंसकः।
जलावताराद्दूरेऽहं स्थित्वा जलगतं ध्वनिम्॥३६॥
श्रुत्वाऽहं शब्दवेधित्वादेकं बाणमथात्यजम्।
हतोऽस्मीति ध्वनिं श्रुत्वा भयात् तत्राहमागतः॥३७॥
जटां विकीर्य पतितं दृष्ट्वाऽहं मुनिदारकम्।
भीतो गृहीत्वा तत्पादौ रक्ष रक्षेति चाब्रवम्॥३८॥
मा भैषीरिति मां प्राह ब्रह्महत्याभयं न ते।
मत्पित्रोः सलिलं दत्त्वा नत्वा प्रार्थय जीवितम्॥३९॥
इत्युक्तो मुनिना तेन ह्यागतो मुनिहिंसकः।
रक्षेतां मां दयायुक्तौ युवां हि शरणागतम्॥४०॥
इति श्रुत्वा तु दुःखार्तौ विलप्य बहु शोच्य तम्।
पतितो नौ सुतो यत्र नय तत्राविलम्बयन्॥४१॥
ततो नीतौ सुतो यत्र मया तौ वृद्धदम्पती।
स्पृष्ट्वा सुतं तौ हस्ताभ्यां बहुशोऽथ विलेपतुः॥४२॥
हाहेति क्रन्दमानौ तौ पुत्र पुत्रेत्यवोचताम्।
जलं देहीति पुत्रेति किमर्थं न ददास्यलम्॥४३॥
ततो मामूचतुः शीघ्रं चितिं रचय भूपते।
मया तदैव रचिता चितिस्तत्र निवेशिताः।
त्रयस्तत्राग्निरुत्सृष्टो दग्धास्ते त्रिदिवं ययुः॥४४॥
तत्र वृद्धः पिता प्राह त्वमप्येवं भविष्यसि।
पुत्रशोकेन मरणं प्राप्स्यसे वचनान्मम॥४५॥
स इदानीं मम प्राप्तः शापकालोऽनिवारितः।
इत्युक्त्वा विललापाथ राजा शोकसमाकुलः॥४६॥
हा राम पुत्र हा सीते हा लक्ष्मण गुणाकर।
त्वद्वियोगादहं प्राप्तो मृत्युं कैकेयिसम्भवम्॥४७॥
वदन्नेवं दशरथः प्राणान्स्त्यक्त्वा दिवं गतः।
कौसल्या च सुमित्रा च तथाऽन्या राजयोषितः॥४८॥
चुक्रुशुश्च विलेपुश्च उरस्ताडनपूर्वकम्।
वसिष्ठः प्रययौ तत्र प्रातर्मन्त्रिभिरावृतः॥४९॥
तैलद्रोण्यां दशरथं क्षिप्त्वा दूतानथाब्रवीत्।
गच्छत त्वरितं साश्वा युधाजिन्नगरं प्रति॥५०॥
तत्रास्ते भरतः श्रीमाञ्छत्रुघ्नसहितः प्रभुः।
उच्यतां भरतः शीघ्रमागच्छेति ममाऽऽज्ञया॥५१॥
अयोध्यां प्रति राजानं कैकेयीं चापि पश्यतु।
इत्युक्तास्त्वरितं दूता गत्वा भरतमातुलम्॥५२॥
युधाजितं प्रणम्योचुर्भरतं सानुजं प्रति।
वसिष्ठस्त्वब्रवीद् राजन् भरतः सानुजः प्रभुः॥५३॥
शीघ्रमागच्छतु पुरीमयोध्यामविचारयन्।
इत्याज्ञप्तोऽथ भरतस्त्वरितं भयविह्वलः॥५४॥
आययौ गुरुणादिष्टः सह दूतैस्तु सानुजः।
राज्ञो वा राघवस्यापि दुःखं किञ्चिदुपस्थितम्॥५५॥
इति चिन्तापरो मार्गे चिन्तयन्नगरं ययौ।
नगरं भ्रष्टलक्ष्मीकं जनसम्बाधवर्जितम्॥५६॥
उत्सवैश्च परित्यक्तं दृष्ट्वा चिन्तापरोऽभवत्।
प्रविश्य राजभवनं राजलक्ष्मीविवर्जितम्॥५७॥
अपश्यत्कैकेयीं तत्र एकामेवासने स्थिताम्।
ननाम शिरसा पादौ मातुर्भक्तिसमन्वितः॥५८॥
आगतं भरतं दृष्ट्वा कैकेयी प्रेमसम्भ्रमात्।
उत्थायालिङ्ग्य रभसा स्वाङ्कमारोप्य संस्थिता॥५९॥
मूर्ध्न्यवघ्राय पप्रच्छ कुशलं स्वकुलस्य सा।
पिता मे कुशलो भ्राता माता च शुभलक्षणा॥६०॥
दिष्ट्या त्वमद्य कुशली मया दृष्टोऽसि पुत्रक।
इति पृष्टः स भरतो मात्रा चिन्ताकुलेन्द्रियः॥६१॥
दूयमानेन मनसा मातरं समपृच्छत।
मातः पिता मे कुत्रास्ते एका त्वमिह संस्थिता॥६२॥
त्वया विना न मे तातः कदाचिद्रहसि स्थितः।
इदानीं दृश्यते नैव कुत्र तिष्ठति मे वद॥६३॥
अदृष्ट्वा पितरं मेऽद्य भयं दुःखं च जायते।
अथाह कैकेयी पुत्र किं दुःखेन तवानघ॥६४॥
या गतिर्धर्मशीलानामश्वमेधादियाजिनाम्।
तां गतिं गतवानद्य पिता ते पितृवत्सल॥६५॥
तच्छ्रुत्वा निपपातोर्व्यां भरतः शोकविह्वलः।
हा तात क्व गतोऽसि त्वं त्यक्त्वा मां वृजिनार्णवे॥६६॥
असमर्प्यैव रामाय राज्ञे मां क्व गतोऽसि भोः।
इति विलपितं पुत्रं पतितं मुक्तमूर्धजम्॥६७॥
उत्थाप्यामृज्य नयने कैकेयी पुत्रमब्रवीत्।
समाश्वसिहि भद्रं ते सर्वं सम्पादितं मया॥६८॥
तामाह भरतस्तातो म्रियमाणः किमब्रवीत्।
तमाह कैकेयी देवी भरतं भयवर्जिता॥६९॥
हा राम राम सीतेति लक्ष्मणेति पुनः पुनः।
विलपन्नेव सुचिरं देहं त्यक्त्वा दिवं ययौ॥७०॥
तामाह भरतो हेऽम्ब रामः सन्निहितो न किम्।
तदानीं लक्ष्मणो वाऽपि सीता वा कुत्र ते गताः॥७१॥
रामस्य यौवराज्यार्थं पित्रा ते सम्भ्रमः कृतः।
तव राज्यप्रदानाय तदाऽहं विघ्नमाचरम्॥७२॥
राज्ञा दत्तं हि मे पूर्वं वरदेन वरद्वयम्।
याचितं तदिदानीं मे तयोरेकेन तेऽखिलम्॥७३॥
राज्यं रामस्य चैकेन वनवासो मुनिव्रतम्।
ततः सत्यपरो राजा राज्यं दत्त्वा तवैव हि॥७४॥
रामं सम्प्रेषयामास वनमेव पिता तव।
सीताप्यनुगता रामं पातिव्रत्यमुपाश्रिता॥७५॥
सौभ्रात्रं दर्शयन् राममनुयातोऽपि लक्ष्मणः।
वनं गतेषु सर्वेषु राजा तानेव चिन्तयन्॥७६॥
प्रलपन् रामरामेति ममार नृपसत्तमः।
इति मातुर्वचः श्रुत्वा वज्राहत इव द्रुमः॥७७॥
पपात भूमौ निःसंज्ञस्तं दृष्ट्वा दुःखिता तदा।
कैकेयी पुनरप्याह वत्स शोकेन किं तव॥७८॥
राज्ये महति सम्प्राप्ते दुःखस्यावसरः कुतः।
इति ब्रुवन्तीमालोक्य मातरं प्रदहन्निव॥७९॥
असम्भाष्यासि पापे मे घोरे त्वं भर्तृघातिनी।
पापे त्वद्गर्भजातोऽहं पापवानस्मि साम्प्रतम्।
अहमग्निं प्रवेक्ष्यामि विषं वा भक्षयाम्यहम्॥८०॥
खड्गेन वाथ चात्मानं हत्वा यामि यमक्षयम्।
भर्तृघातिनि दुष्टे त्वं कुम्भीपाकं गमिष्यसि॥८१॥
इति निर्भर्त्स्य कैकेयीं कौसल्याभवनं ययौ।
साऽपि तं भरतं दृष्ट्वा मुक्तकण्ठा रुरोद ह॥८२॥
पादयोः पतितस्तस्या भरतोऽपि तदाऽरुदत्।
आलिङ्ग्य भरतं साध्वी राममाता यशस्विनी।
कृशाऽतिदीनवदना साश्रुनेत्रेदमब्रवीत्॥८३॥
पुत्र त्वयि गते दूरमेवं सर्वमभूदिदम्।
उक्तं मात्रा श्रुतं सर्वं त्वया ते मातृचेष्टितम्॥८४॥
पुत्रः सभार्यो वनमेव यातः
सलक्ष्मणो मे रघुरामचन्द्रः।
चीराम्बरो बद्धजटाकलापः
सन्त्यज्य मां दुःखसमुद्रमग्नाम्॥८५॥
हा राम हा मे रघुवंशनाथ
जातोऽसि मे त्वं परतः परात्मा।
तथाऽपि दुःखं न जहाति मां वै
विधिर्बलीयानिति मे मनीषा॥८६॥
स एवं भरतो वीक्ष्य विलपन्तीं भृशं शुचा।
पादौ गृहीत्वा प्राहेदं शृणु मातर्वचो मम॥८७॥
कैकेय्या यत्कृतं कर्म रामराज्याभिषेचने।
अन्यद् वा यदि जानामि सा मया नोदिता यदि॥८८॥
पापं मेऽस्तु तदा मातर्ब्रह्महत्याशतोद्भवम्।
हत्वा वसिष्ठं खड्गेन अरुन्धत्या समन्वितम्॥८९॥
भूयात्तत्पापमखिलं मम जानामि यद्यहम्।
इत्येवं शपथं कृत्वा रुरोद भरतस्तदा॥९०॥
कौसल्या तमथालिङ्ग्य पुत्र जानामि मा शुचः।
एतस्मिन्नन्तरे श्रुत्वा भरतस्य समागमम्॥९१॥
वसिष्ठो मन्त्रिभिः सार्धं प्रययौ राजमन्दिरम्।
रुदन्तं भरतं दृष्ट्वा वसिष्ठः प्राह सादरम्॥९२॥
वृद्धो राजा दशरथो ज्ञानी सत्यपराक्रमः।
भुक्त्वा मर्त्यसुखं सर्वमिष्ट्वा विपुलदक्षिणैः॥९३॥
अश्वमेधादिभिर्यज्ञैर्लब्ध्वा रामं सुतं हरिम्।
अन्ते जगाम त्रिदिवं देवेन्द्रार्धासनं प्रभुः॥९४॥
तं शोचसि वृथैव त्वमशोच्यं मोक्षभाजनम्।
आत्मा नित्योऽव्ययः शुद्धो जन्मनाशादिवर्जितः॥९५॥
शरीरं जडमत्यर्थमपवित्रं विनश्वरम्।
विचार्यमाणे शोकस्य नावकाशः कथञ्चन॥९६॥
पिता वा तनयो वाऽपि यदि मृत्युवशं गतः।
मूढास्तमनुशोचन्ति स्वात्मताडनपूर्वकम्॥९७॥
निःसारे खलु संसारे वियोगो ज्ञानिनां यदा।
भवेद्वैराग्यहेतुः स शान्तिसौख्यं तनोति च॥९८॥
जन्मवान् यदि लोकेऽस्मिन्स्तर्हि तं मृत्युरन्वगात्।
तस्मादपरिहार्योऽयं मृत्युर्जन्मवतां सदा॥९९॥
स्वकर्मवशतः सर्वजन्तूनां प्रभवाप्ययौ।
विजानन्नप्यविद्वान् यः कथं शोचति बान्धवान्॥१००॥
ब्रह्माण्डकोटयो नष्टाः सृष्टयो बहुशो गताः।
शुष्यन्ति सागराः सर्वे कैवास्था क्षणजीविते॥१०१॥
चलपत्रान्तलग्नाम्बुबिन्दुवत्क्षणभङ्गुरम्।
आयुस्त्यजत्यवेलायां कस्तत्र प्रत्ययस्तव॥१०२॥
देही प्राक्तनदेहोत्थकर्मणा देहवान् पुनः।
तद्देहोत्थेन च पुनरेवं देहः सदात्मनः॥१०३॥
यथा त्यजति वै जीर्णं वासो गृह्णाति नूतनम्।
तथा जीर्णं परित्यज्य देही देहं पुनर्नवम्॥१०४॥
भजत्येव सदा तत्र शोकस्यावसरः कुतः।
आत्मा न म्रियते जातु जायते न च वर्धते॥१०५॥
षड्भावरहितोऽनन्तः सत्यप्रज्ञानविग्रहः।
आनन्दरूपो बुद्ध्यादिसाक्षी लयविवर्जितः॥१०६॥
एक एव परो ह्यात्मा ह्यद्वितीयः समः स्थितः।
इत्यात्मानं दृढं ज्ञात्वा त्यक्त्वा शोकं कुरु क्रियाम्॥१०७॥
तैलद्रोण्याः पितुर्देहमुद्धृत्य सचिवैः सह।
कृत्यं कुरु यथान्यायमस्माभिः कुलनन्दन॥१०८॥
इति सम्बोधितः साक्षाद्गुरुणा भरतस्तदा।
विसृज्याज्ञानजं शोकं चक्रे सविधिवत्क्रियाम्॥१०९॥
गुरुणोक्तप्रकारेण आहिताग्नेर्यथाविधि।
संस्कृत्य स पितुर्देहं विधिदृष्टेन कर्मणा॥११०॥
एकादशेऽहनि प्राप्ते ब्राह्मणान् वेदपारगान्।
भोजयामास विधिवच्छतशोऽथ सहस्रशः॥१११॥
उद्दिश्य पितरं तत्र ब्राह्मणेभ्यो धनं बहु।
ददौ गवां सहस्राणि ग्रामान् रत्नाम्बराणि च॥११२॥
अवसत्स्वगृहे यत्र राममेवानुचिन्तयन्।
वसिष्ठेन सह भ्रात्रा मन्त्रिभिः परिवारितः॥११३॥
रामेऽरण्यं प्रयाते सह जनकसुतालक्ष्मणाभ्यां सुघोरं
माता मे राक्षसीव प्रदहति हृदयं दर्शनादेव सद्यः।
गच्छाम्यारण्यमद्य स्थिरमतिरखिलं दूरतोऽपास्य राज्यं
रामं सीतासमेतं स्मितरुचिरमुखं नित्यमेवानुसेवे॥११४॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे सप्तमः सर्गः॥