षष्ठः सर्गः
सुप्तं रामं समालोक्य गुहः सोऽश्रुपरिप्लुतः।
लक्ष्मणं प्राह विनयाद् भ्रातः पश्यसि राघवम्॥१॥
शयानं कुशपत्रौघसंस्तरे सीतया सह।
यः शेते स्वर्णपर्यङ्के स्वास्तीर्णे भवनोत्तमे॥२॥
कैकेयी रामदुःखस्य कारणं विधिना कृता।
मन्थराबुद्धिमास्थाय कैकेयी पापमाचरत्॥३॥
तच्छ्रुत्वा लक्ष्मणः प्राह सखे शृणु वचो मम।
कः कस्य हेतुर्दुःखस्य कश्च हेतुः सुखस्य च॥४॥
स्वपूर्वार्जितकर्मैव कारणं सुखदुःखयोः॥५॥
सुखस्य दुःखस्य न कोऽपि दाता
परो ददातीति कुबुद्धिरेषा।
अहं करोमीति वृथाभिमानः
स्वकर्मसूत्रग्रथितो हि लोकः॥६॥
सुहृन्मित्रार्युदासीनद्वेष्यमध्यस्थबान्धवाः।
स्वयमेवाचरन् कर्म तथा तत्र विभाव्यते॥७॥
सुखं वा यदि वा दुःखं स्वकर्मवशगो नरः।
यद्यद् यथागतं तत्तद् भुक्त्वा स्वस्थमना भवेत्॥८॥
न मे भोगागमे वाञ्छा न मे भोगविवर्जने।
आगच्छत्वथ मागच्छत्वभोगवशगो भवेत्॥९॥
स्वस्मिन् देशे च काले च यस्माद् वा येन केन वा।
कृतं शुभाशुभं कर्म भोज्यं तत् तत्र नान्यथा॥१०॥
अलं हर्षविषादाभ्यां शुभाशुभफलोदये।
विधात्रा विहितं यद्यत्तदलङ्घ्यं सुरासुरैः॥११॥
सर्वदा सुखदुःखाभ्यां नरः प्रत्यवरुध्यते।
शरीरं पुण्यपापाभ्यामुत्पन्नं सुखदुःखवत्॥१२॥
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्।
द्वयमेतद्धि जन्तूनामलङ्घ्यं दिनरात्रिवत्॥१३॥
सुखमध्ये स्थितं दुःखं दुःखमध्ये स्थितं सुखम्।
द्वयमन्योन्यसंयुक्तं प्रोच्यते जलपङ्कवत्॥१४॥
तस्माद्धैर्येण विद्वांस इष्टानिष्टोपपत्तिषु।
न हृष्यन्ति न मुह्यन्ति समं मायेति भावनात्॥१५॥
गुहलक्ष्मणयोरेवं भाषतोर्विमलं नभः।
बभूव रामः सलिलं स्पृष्ट्वा प्रातः समाहितः॥१६॥
उवाच शीघ्रं सुदृढं नावमानय मे सखे।
श्रुत्वा रामस्य वचनं निषादाधिपतिर्गुहः॥१७॥
स्वयमेव दृढं नावमानिनाय सुलक्षणाम्।
स्वामिन्नारुह्यतां नौकां सीतया लक्ष्मणेन च॥१८॥
वाहये ज्ञातिभिः सार्धमहमेव समाहितः।
तथेति राघवः सीतामारोप्य शुभलक्षणाम्॥१९॥
गुहस्य हस्तावालम्ब्य स्वयं चारोहदच्युतः।
आयुधादीन् समारोप्य लक्ष्मणोऽप्यारुरोह च॥२०॥
गुहस्तान् वाहयामास ज्ञातिभिः सहितः स्वयम्।
गङ्गामध्ये गतां गङ्गां प्रार्थयामास जानकी॥२१॥
देवि गङ्गे नमस्तुभ्यं निवृत्ता वनवासतः।
रामेण सहिताहं त्वां लक्ष्मणेन च पूजये॥२२॥
सुरामान्सोपहारैश्च नानाबलिभिरादृता।
इत्युक्त्वा परकूलं तौ शनैरुत्तीर्य जग्मतुः॥२३॥
गुहोऽपि राघवं प्राह गमिष्यामि त्वया सह।
अनुज्ञां देहि राजेन्द्र नो चेत्प्राणान्स्त्यजाम्यहम्॥२४॥
श्रुत्वा नैषादिवचनं श्रीरामस्तमथाब्रवीत्।
चतुर्दश समाः स्थित्वा दण्डके पुनरप्यहम्॥२५॥
आयास्याम्युदितं सत्यं नासत्यं रामभाषितम्।
इत्युक्त्वाऽऽलिङ्ग्य तं भक्तं समाश्वास्य पुनः पुनः॥२६॥
निवर्तयामास गुहं सोऽपि कृच्छ्राद्ययौ गृहम्॥२७॥
तत्र मेध्यं मृगं हत्वा पक्त्वा हुत्वा च ते त्रयः।
भुक्त्वा वृक्षतले सुप्त्वा सुखमासत तां निशाम्॥२८॥
ततो रामस्तु वैदेह्या लक्ष्मणेन समन्वितः।
भरद्वाजाश्रमपदं गत्वा बहिरुपस्थितः।
तत्रैकं वटुकं दृष्ट्वा रामः प्राह च हे वटो॥२९॥
रामो दाशरथिः सीतालक्ष्मणाभ्यां समन्वितः।
आस्ते बहिर्वनस्येति ह्युच्यतां मुनिसन्निधौ॥३०॥
तच्छ्रुत्वा सहसा गत्वा पादयोः पतितो मुनेः।
स्वामिन् रामः समागत्य वनाद्बहिरवस्थितः॥३१॥
सभार्यः सानुजः श्रीमानाह मां देवसन्निभः।
भरद्वाजाय मुनये ज्ञापयस्व यथोचितम्॥३२॥
तच्छ्रुत्वा सहसोत्थाय भरद्वाजो मुनीश्वरः।
गृहीत्वाऽर्घ्यं च पाद्यं च रामसामीप्यमाययौ॥३३॥
दृष्ट्वा रामं यथान्यायं पूजयित्वा सलक्ष्मणम्।
आह मे पर्णशालां भो राम राजीवलोचन॥३४॥
आगच्छ पादरजसा पुनीहि रघुनन्दन।
इत्युक्त्वोटजमानीय सीतया सह रघावौ॥३५॥
भक्त्या पुनः पूजयित्वा चकारातिथ्यमुत्तमम्।
अद्याहं तपसः पारं गतोऽस्मि तव सङ्गमात्॥३६॥
ज्ञातं राम तवोदन्तं भूतं चागामिकं च यत्।
जानामि त्वां परात्मानं मायया कार्यमानुषम्॥३७॥
यदर्थमवतीर्णोऽसि प्रार्थितो ब्रह्मणा पुरा।
यदर्थं वनवासस्ते यत्करिष्यसि वै पुरः॥३८॥
जानामि ज्ञानदृष्ट्याहं जातया त्वदुपासनात्।
इतः परं त्वां किं वक्ष्ये कृतार्थोऽहं रघूत्तम॥३९॥
यस्त्वां पश्यामि काकुत्स्थं पुरुषं प्रकृतेः परम्।
रामस्तमभिवाद्याह सीतालक्ष्मणसंयुतः॥४०॥
अनुग्राह्यास्त्वया ब्रह्मन्वयं क्षत्रियबान्धवाः।
इति सम्भाष्य तेऽन्योन्यमुषित्वा मुनिसन्निधौ॥४१॥
प्रातरुत्थाय यमुनामुत्तीर्य मुनिवारकैः।
कृताप्लवेन मुनिना दृष्टमार्गेण राघवः॥४२॥
प्रययौ चित्रकूटाद्रिं वाल्मीकेर्यत्र चाश्रमः।
गत्वा रामोऽथ वाल्मीकेराश्रमं ऋषिसङ्कुलम्॥४३॥
नानामृगद्विजाकीर्णं नित्यपुष्पफलाकुलम्।
तत्र दृष्ट्वा समासीनं वाल्मीकिं मुनिसत्तमम्॥४४॥
ननाम शिरसा रामो लक्ष्मणेन च सीतया।
दृष्ट्वा रामं रमानाथं वाल्मीकिर्लोकसुन्दरम्॥४५॥
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम्।
कन्दर्पसदृशाकारं कमनीयाम्बुजेक्षणम्॥४६॥
दृष्ट्वैव सहसोत्तस्थौ विस्मयानिमिषेक्षणः।
आलिङ्ग्य परमानन्दं रामं हर्षाश्रुलोचनः॥४७॥
पूजयित्वा जगत्पूज्यं भक्त्यार्घ्यादिभिरादृतः।
फलमूलैः स मधुरैर्भोजयित्वा च लालितः॥४८॥
राघवः प्राञ्जलिः प्राह वाल्मीकिं विनयान्वितः।
पितुराज्ञां पुरस्कृत्य दण्डकानागता वयम्॥४९॥
भवन्तो यदि जानन्ति किं वक्ष्यामोऽत्र कारणम्।
यत्र मे सुखवासाय भवेत् स्थानं वदस्व तत्॥५०॥
सीतया सहितः कालं किञ्चित् तत्र नयाम्यहम्।
इत्युक्तो राघवेणासौ मुनिः सस्मितमब्रवीत्॥५१॥
त्वमेव सर्वलोकानां निवासस्थानमुत्तमम्।
तवापि सर्वभूतानि निवाससदनानि हि॥५२॥
एवं साधारणं स्थानमुक्तं ते रघुनन्दन।
सीतया सहितस्येति विशेषं पृच्छतस्तव।
तद्वक्ष्यामि रघुश्रेष्ठ यत्ते नियतमन्दिरम्॥५३॥
शान्तानां समदृष्टीनामद्वेष्टॄणां च जन्तुषु।
त्वामेव भजतां नित्यं हृदयं तेऽधिमन्दिरम्॥५४॥
धर्माधर्मान् परित्यज्य त्वामेव भजतोऽनिशम्।
सीतया सह ते राम तस्य हृत्सुखमन्दिरम्॥५५॥
त्वन्मन्त्रजापको यस्तु त्वामेव शरणं गतः।
निर्द्वन्द्वो निःस्पृहस्तस्य हृदयं ते सुमन्दिरम्॥५६॥
निरहङ्कारिणः शान्ता ये रागद्वेषवर्जिताः।
समलोष्टाश्मकनकास्तेषां ते हृदयं गृहम्॥५७॥
त्वयि दत्तमनोबुद्धिर्यः सन्तुष्टः सदा भवेत्।
त्वयि सन्त्यक्तकर्मा यस्तन्मनस्ते शुभं गृहम्॥५८॥
यो न द्वेष्ट्यप्रियं प्राप्य प्रियं प्राप्य न हृष्यति।
सर्वं मायेति निश्चित्य त्वां भजेत्तन्मनो गृहम्॥५९॥
षड्भावादिविकारान् यो देहे पश्यति नात्मनि।
क्षुत्तृट् सुखं भयं दुःखं प्राणबुद्ध्योर्निरीक्षते॥६०॥
संसारधर्मैर्निर्मुक्तस्तस्य ते मानसं गृहम्॥६१॥
पश्यन्ति ये सर्वगुहाशयस्थं
त्वां चिद्घनं सत्यमनन्तमेकम्।
अलेपकं सर्वगतं वरेण्यं
तेषां हृदब्जे सह सीतया वस॥६२॥
निरन्तराभ्यासदृढीकृतात्मनां
त्वत्पादसेवापरिनिष्ठितानाम्।
त्वन्नामकीर्त्या हतकल्मषाणां
सीतासमेतस्य गृहं हृदब्जे॥६३॥
राम त्वन्नाममहिमा वर्ण्यते केन वा कथम्।
यत्प्रभावादहं राम ब्रह्मर्षित्वमवाप्तवान्॥६४॥
अहं पुरा किरातेषु किरातैः सह वर्धितः।
जन्ममात्रद्विजत्वं मे शूद्राचाररतः सदा॥६५॥
शूद्रायां बहवः पुत्रा उत्पन्ना मेऽजितात्मनः।
ततश्चोरैश्च सङ्गम्य चौरोऽहमभवं पुरा॥६६॥
धनुर्बाणधरो नित्यं जीवानामन्तकोपमः।
एकदा मुनयः सप्त दृष्टा महति कानने॥६७॥
साक्षान्मया प्रकाशन्तो ज्वलनार्कसमप्रभाः।
तानन्वधावं लोभेन तेषां सर्वपरिच्छदान्॥६८॥
ग्रहीतुकामस्तत्राहं तिष्ठ तिष्ठेति चाब्रवम्।
दृष्ट्वा मां मुनयोऽपृच्छन् किमायासि द्विजाधम॥६९॥
अहं तानब्रवं किञ्चिदादातुं मुनिसत्तमाः।
पुत्रदारादयः सन्ति बहवो मे बुभुक्षिताः॥७०॥
तेषां संरक्षणार्थाय चरामि गिरिकानने।
ततो मामूचुरव्यग्राः पृच्छ गत्वा कुटुम्बकम्॥७१॥
यो यो मया प्रतिदिनं क्रियते पापसञ्चयः।
यूयं तद्भागिनः किं वा नेति वेतिपृथक्पृथक्॥७२॥
वयं स्थास्यामहे तावदागमिष्यसि निश्चयः।
तथेत्युक्त्वा गृहं गत्वा मुनिभिर्यदुदीरितम्॥७३॥
अपृच्छं पुत्रदारादीन्स्तैरुक्तोऽहं रघूत्तम।
पापं तवैव तत्सर्वं वयं तु फलभागिनः॥७४॥
तच्छ्रुत्वा जातनिर्वेदो विचार्य पुनरागमम्।
मुनयो यत्र तिष्ठन्ति करुणापूर्णमानसाः॥७५॥
मुनीनां दर्शनादेव शुद्धान्तःकरणोऽभवम्।
धनुरादीन् परित्यज्य दण्डवत्पतितोऽस्म्यहम्॥७६॥
रक्षध्वं मां मुनिश्रेष्ठा गच्छन्तं निरयार्णवम्।
इत्यग्रे पतितं दृष्ट्वा मामूचुर्मुनिसत्तमाः॥७७॥
उत्तिष्ठोत्तिष्ठ भद्रं ते सफलः सत्समागमः।
उपदेक्ष्यामहे तुभ्यं किञ्चित्तेनैव मोक्ष्यसे॥७८॥
परस्परं समालोच्य दुर्वृत्तोयं द्विजाधमः।
उपेक्ष्य एव सद्वृत्तैस्तथाऽपि शरणं गतः।
रक्षणीयः प्रयत्नेन मोक्षमार्गोपदेशतः॥७९॥
इत्युक्त्वा राम ते नाम व्यत्यस्ताक्षरपूर्वकम्।
एकाग्रमनसात्रैव मरेति जप सर्वदा॥८०॥
आगच्छामः पुनर्यावत्तावदुक्तं सदा जप।
इत्युक्त्वा प्रययुः सर्वे मुनयो दिव्यदर्शनाः॥८१॥
अहं यथोपदिष्टं तैस्तथाऽकरवमञ्जसा।
जपन्नेकाग्रमनसा बाह्यं विस्मृतवानहम्॥८२॥
एवं बहुतिथे काले गते निश्चलरूपिणः।
सर्वसङ्गविहीनस्य वल्मीकोऽभून्ममोपरि॥८३॥
ततो युगसहस्रान्ते ऋषयः पुनरागमन्।
मामूचुर्निष्क्रमस्वेति तच्छ्रुत्वा तूर्णमुत्थितः॥८४॥
वल्मीकान्निर्गतश्चाहं नीहारादिव भास्करः।
मामप्याहुर्मुनिगणा वाल्मीकिस्त्वं मुनीश्वर॥८५॥
वल्मीकात्सम्भवो यस्माद् द्वितीयं जन्म तेऽभवत्।
इत्युक्त्वा ते ययुर्दिव्यगतिं रघुकुलोत्तम॥८६॥
अहं ते राम नाम्नश्च प्रभावादीदृशोऽभवम्।
अद्य साक्षात्प्रपश्यामि ससीतं लक्ष्मणेन च॥८७॥
रामं राजीवपत्राक्षं त्वां मुक्तो नात्र संशयः।
आगच्छ राम भद्रं ते स्थलं वै दर्शयाम्यहम्॥८८॥
एवमुक्त्वा मुनिः श्रीमान्ल्लक्ष्मणेन समन्वितः।
शिष्यैः परिवृतो गत्वा मध्ये पर्वतगङ्गयोः॥८९॥
तत्र शालां सुविस्तीर्णां कारयामास वासभूः।
प्राक्पश्चिमं दक्षिणोदक् शोभनं मन्दिरद्वयम्॥९०॥
जानक्या सहितो रामो लक्ष्मणेन समन्वितः।
तत्र ते देवसदृशा ह्यवसन् भवनोत्तमे॥९१॥
वाल्मीकिना तत्र सुपूजितोऽयं
रामः ससीतः सह लक्ष्मणेन।
देवैर्मुनीद्रैः सहितो मुदास्ते
स्वर्गे यथा देवपतिः सशच्या॥९२॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे षष्ठः सर्गः॥
❀