पञ्चमः सर्गः

आयान्तं नागरा दृष्ट्वा मार्गे रामं सजानकीम्।
लक्ष्मणेन समं वीक्ष्य ऊचुः सर्वे परस्परम्॥१॥
कैकेय्या वरदानादि श्रुत्वा दुःखसमावृताः।
बत राजा दशरथः सत्यसन्धं प्रियं सुतम्॥२॥
स्त्रीहेतोरत्यजत्कामी तस्य सत्यवता कुतः।
कैकेयी वा कथं दुष्टा रामं सत्यं प्रियङ्करम्॥३॥
विवासयामास कथं क्रूरकर्माऽतिमूढधीः।
हे जना नात्र वस्तव्यं गच्छामोऽद्यैव काननम्॥४॥
यत्र रामः सभार्यश्च सानुजो गन्तुमिच्छति।
पश्यन्तु जानकीं सर्वे पादचारेण गच्छतीम्॥५॥
पुम्भिः कदाचिद्दृष्ट्वा वा जानकी लोकसुन्दरी।
साऽपि पादेन गच्छन्ती जनसङ्घेष्वनावृता॥६॥
रामोऽपि पादचारेण गजाश्वादिविवर्जितः।
गच्छति द्रक्ष्यथ विभुं सर्वलोकैकसुन्दरम्॥७॥
राक्षसी कैकेयीनाम्नी जाता सर्वविनाशिनी।
रामस्यापि भवेद्दुःखं सीतायाः पादयानतः॥८॥
बलवान् विधिरेवात्र पुम्प्रयत्नो हि दुर्बलः।
इति दुःखाकुले वृन्दे साधूनां मुनिपुङ्गवः॥९॥
अब्रवीद् वामदेवोऽथ साधूनां सङ्घमध्यगः।
मानुशोचथ रामं वा सीतां वा वच्मि तत्त्वतः॥१०॥
एष रमः परो विष्णुरादिनारायणः स्मृतः।
एषा सा जानकी लक्ष्मीर्योगमायेति विश्रुता॥११॥
असौ शेषस्तमन्वेति लक्ष्मणाख्यश्च साम्प्रतम्।
एष मायागुणैर्युक्तस्तत्तदाकारवानिव॥१२॥
एष एव रजोयुक्तो ब्रह्माभूद्विश्वभावनः।
सत्त्वाविष्टस्तथा विष्णुस्त्रिजगत्प्रतिपालकः॥१३॥
एष रुद्रस्तामसोऽन्ते जगत्प्रलयकारणम्।
एष मत्स्यः पुरा भूत्वा भक्तं वैवस्वतं मनुम्॥१४॥
नाव्यारोप्य लयस्यान्ते पालयामास राघवः।
समुद्रमथने पूर्वं मन्दरे सुतलं गते॥१५॥
अधारयत्स्वपृष्ठेऽद्रिं कूर्मरूपी रघूत्तमः।
मही रसातलं याता प्रलये सूकरोऽभवत्॥१६॥
तोलयामास दंष्ट्राग्रे तां क्षोणीं रघुनन्दनः।
नारसिंहं वपुः कृत्वा प्रह्लादवरदः पुरा॥१७॥
त्रैलोक्यकण्टकं रक्षः पाटयामास तन्नखैः।
पुत्रराज्यं हृतं दृष्ट्वा ह्यदित्या याचितः पुरा॥१८॥
वामनत्वमुपागम्य याच्ञया चाहरत्पुनः।
दुष्टक्षत्रियभूभारनिवृत्त्यै भार्गवोऽभवत्॥१९॥
स एव जगतां नाथ इदानीं रामतां गतः।
रावणादीनि रक्षांसि कोटिशो निहनिष्यति॥२०॥
मानुषेणैव मरणं तस्य दृष्टं दुरात्मनः।
राज्ञा दशरथेनापि तपसाराधितो हरिः॥२१॥
पुत्रत्वाकाङ्क्षया विष्णोस्तदा पुत्रोऽभवद्धरिः।
स एव विष्णुः श्रीरामो रावणादिवधाय हि॥२२॥
गन्ताद्यैव वनं रामो लक्ष्मणेन सहायवान्।
एषा सीता हरेर्माया सृष्टिस्थित्यन्तकारिणी॥२३॥
राजा वा कैकेयी वाऽपि नात्र कारणमण्वपि।
पूर्वेद्युर्नारदः प्राह भूभारहरणाय च॥२४॥
रामोऽप्याह स्वयं साक्षाच्छ्वो गमिष्याम्यहं वनम्।
अतो रामं समुद्दिश्य चिन्तां त्यजत बालिशाः॥२५॥
रामरामेति ये नित्यं जपन्ति मनुजा भुवि।
तेषां मृत्युभयादीनि न भवन्ति कदाचन॥२६॥
का पुनस्तस्य रामस्य दुःखशङ्का महात्मनः।
रामनाम्नैव मुक्तिः स्यात्कलौ नान्येन केनचित्॥२७॥
मायामानुषरूपेण विडम्बयति लोककृत्।
भक्तानां भजनार्थाय रावणस्य वधाय च॥२८॥
राज्ञश्चाभीष्टसिद्ध्यर्थं मानुषं वपुराश्रितः।
इत्युक्त्वा विररामाथ वामदेवो माहामुनिः॥२९॥
श्रुत्वा तेऽपि द्विजाः सर्वे रामं ज्ञात्वा हरिं विभुम्।
जहुर्हृत्संशयग्रन्थिं राममेवान्वचिन्तयन्॥३०॥
य इदं चिन्तयेन्नित्यं रहस्यं रामसीतयोः।
तस्य रामे दृढा भक्तिर्भवेद्विज्ञानपूर्विका॥३१॥
रहस्यं गोपनीयं वो यूयं वै राघवप्रियाः।
इत्युक्त्वा प्रययौ विप्रस्तेऽपि रामं परं विदुः॥३२॥
ततो रामः समाविश्य पितृगेहमवारितः।
सानुजः सीतया गत्वा कैकेयीमिदमब्रवीत्॥३३॥
आगताः स्मो वयं मातस्त्रयस्ते सम्मतं वनम्।
गन्तुं कृतधियः शीघ्रमाज्ञापयतु नः पिता॥३४॥
इत्युक्ता सहसोत्थाय चीराणि प्रददौ स्वयम्।
रामाय लक्ष्मणायाथ सीतायै च पृथक् पृथक्॥३५॥
रामस्तु वस्त्राण्युत्सृज्य वन्यचीराणि पर्यधात्।
लक्ष्मणोऽपि तथा चक्रे सीता तन्न विजानती॥३६॥
हस्ते गृहीत्वा रामस्य लज्जया मुखमैक्षत।
रामो गृहीत्वा तच्चीरमंशुके पर्यवेष्टयत्॥३७॥
तद् दृष्ट्वा रुरुदुः सर्वे राजदाराः समन्ततः।
वसिष्ठस्तु तदाकर्ण्य रुदितं भर्त्सयन् रुषा॥३८॥
कैकेयीं प्राह दुर्वृत्ते राम एव त्वया वृतः।
वनवासाय दुष्टे त्वं सीतायै किं प्रयच्छसि॥३९॥
यदि रामं समन्वेति सीता भक्त्या पतिव्रता।
दिव्याम्बरधरा नित्यं सर्वाभरणभूषिता॥४०॥
रमयत्वनिशं रामं वनदुःखनिवारिणी।
राजा दशरथोऽप्याह सुमन्त्रं रथमानय॥४१॥
रथमारुह्य गच्छन्तु वनं वनचरप्रियाः।
इत्युक्त्वा राममालोक्य सीतां चैव सलक्ष्मणम्॥४२॥
दुःखान्निपतितो भूमौ रुरोदाश्रुपरिप्लुतः।
आरुरोह रथं सीता शीघ्रं रामस्य पश्यतः॥४३॥
रामः प्रदक्षिणं कृत्वा पितरं रथमारुहत्।
लक्ष्मणः खड्गयुगलं धनुस्तूणीयुगं तथा॥४४॥
गृहीत्वा रथमारुह्य नोदयामास सारथिम्।
तिष्ठ तिष्ठ सुमन्त्रेति राजा दशरथोऽब्रवीत्॥४५॥
गच्छ गच्छेति रामेण नोदितोऽचोदयद्रथम्।
रामे दूरं गते राजा मूर्च्छितः प्रापतद् भुवि॥४६॥
पौरास्तु बालवृद्धाश्च वृद्धा ब्राह्मणसत्तमाः।
तिष्ठ तिष्ठेति रामेति क्रोशन्तो रथमन्वयुः॥४७॥
राजा रुदित्वा सुचिरं मां नयन्तु गृहं प्रति।
कौसल्याया राममातुरित्याह परिचारकान्॥४८॥
किञ्चित्कालं भवेत् तत्र जीवनं दुःखितस्य मे।
अत ऊर्ध्वं न जीवामि चिरं रामं विना कृतः॥४९॥
ततो गृहं प्रविश्यैव कौसल्यायाः पपात ह।
मूर्च्छितश्च चिराद्बुद्ध्वा तूष्णीमेवावतस्थिवान्॥५०॥
रामस्तु तमसातीरं गत्वा तत्रावसत्सुखी।
जलं प्राश्य निराहारो वृक्षमूलेऽस्वपद्विभुः॥५१॥
सीतया सह धर्मात्मा धनुष्पाणिस्तु लक्ष्मणः।
पालयामास धर्मज्ञः सुमन्त्रेण समन्वितः॥५२॥
पौराः सर्वे समागत्य स्थितास्तस्याविदूरतः।
शक्ता रामं पुरं नेतुं नो चेद्गच्छामहे वनम्॥५३॥
इति निश्चयमाज्ञाय तेषां रामोऽतिविस्मितः।
नाहं गच्छामि नगरमेते वै क्लेशभागिनः॥५४॥
भविष्यन्तीति निश्चित्य सुमन्त्रमिदमब्रवीत्।
इदानीमेव गच्छामः सुमन्त्र रथमानय॥५५॥
इत्याज्ञप्तः सुमन्त्रोऽपि रथं वाहैरयोजयत्।
आरुह्य रामः सीता च लक्ष्मणोऽपि ययुर्द्रुतम्॥५६॥
अयोध्याभिमुखं गत्वा किञ्चिद् दूरं ततो ययुः।
तेऽपि राममदृष्ट्वैव प्रातरुत्थाय दुःखिताः॥५७॥
रथनेमिगतं मार्गं पश्यन्तस्ते पुरं ययुः।
हृदि रामं ससीतं ते ध्यायन्तस्तस्थुरन्वहम्॥५८॥
सुमन्त्रोऽपि रथं शीघ्रं नोदयामास सादरम्।
स्फीतान् जनपदान् पश्यन् रामः सीतासमन्वितः॥५९॥
गङ्गातीरं समागच्छच्छृङ्गवेराविदूरतः।
गङ्गां दृष्ट्वा नमस्कृत्य स्नात्वा सानन्दमानसः॥६०॥
शिंशपावृक्षमूले स निषसाद रघूत्तमः।
ततो गुहो जनैः श्रुत्वा रामागममहोत्सवम्॥६१॥
सखायं स्वामिनं द्रष्टुं हर्षात्तूर्णं समापतत्।
फलानि मधुपुष्पादि गृहीत्वा भक्तिसंयुतः॥६२॥
रामस्याग्रे विनिक्षिप्य दण्डवत्प्रापतद् भुवि।
गुहमुत्थाप्य तं तूर्णं राघवः परिषस्वजे॥६३॥
सम्पृष्टकुशलो रामं गुहः प्राञ्जलिरब्रवीत्।
धन्योऽहमद्य मे जन्म नैषादं लोकपावन॥६४॥
बभूव परमानन्दः स्पृष्ट्वा तेऽङ्गं रघूत्तम।
नैषादराज्यमेतत्ते किङ्करस्य रघूत्तम॥६५॥
त्वदधीनं वसन्नत्र पालयास्मान् रघूद्वह।
आगच्छ यामो नगरं पावनं कुरु मे गृहम्॥६६॥
गृहाण फलमूलानि त्वदर्थं सञ्चितानि मे।
अनुगृह्णीष्व भगवन् दासस्तेऽहं सुरोत्तम॥६७॥
रामस्तमाह सुप्रीतो वचनं शृणु मे सखे।
न वेक्ष्यामि गृहं ग्रामं नव वर्षाणि पञ्च च॥६८॥
दत्तमन्येन नो भुञ्जे फलमूलादि किञ्चन।
राज्यं ममैतत्ते सर्वं त्वं सखा मेऽतिवल्लभः॥६९॥
वटक्षीरं समानाय्य जटामुकुटमादरात्।
बबन्ध लक्ष्मणेनाथ सहितो रघुनन्दनः॥७०॥
जलमात्रं तु सम्प्राश्य सीतया सह राघवः।
आस्तृतं कुशपर्णाद्यैः शयनं लक्ष्मणेन हि॥७१॥
उवास तत्र नगरप्रासादाग्रे यथा पुरा।
सुष्वाप तत्र वैदेह्या पर्यङ्क इव संस्कृते॥७२॥
ततोऽविदूरे परिगृह्य चापं
सबाणतूणीरधनुः स लक्ष्मणः।
ररक्ष रामं परितो विपश्यनः
गुहेन सार्धं सशरासनेन॥७३॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे पञ्चमः सर्गः॥