चतुर्थः सर्गः
ततः सुमित्रा दृष्ट्वैनं रामं राज्ञीं ससम्भ्रमा।
कौसल्यां बोधयामास रामोऽयं समुपस्थितः॥१॥
श्रुत्वैव रामनामैषा बहिर्दृष्टिप्रवाहिता।
रामं दृष्ट्वा विशालाक्षमालिङ्ग्याङ्के न्यवेशयत्॥२॥
मूर्ध्न्यवघ्राय पस्पर्श गात्रं नीलोत्पलच्छवि।
भुङ्क्ष्व पुत्रेति च प्राह मिष्टमन्नं क्षुधार्दितः॥३॥
रामः प्राह न मे मातर्भोजनावसरः कुतः।
दण्डकागमने शीघ्रं मम कालोऽद्य निश्चितः॥४॥
कैकेयीवरदानेन सत्यसन्धः पिता मम।
भरताय ददौ राज्यं ममाप्यारण्यमुत्तमम्॥५॥
चतुर्दश समास्तत्र ह्युषित्वा मुनिवेषधृक्।
आगमिष्ये पुनः शीघ्रं न चिन्तां कर्तुमर्हसि॥६॥
तच्छ्रुत्वा सहसोद्विग्ना मूर्च्छिता पुनरुत्थिता।
आह रामं सुदुःखार्ता दुःखसागरसम्प्लुता॥७॥
यदि राम वनं सत्यं यासि चेन्नय मामपि।
त्वद्विहीना क्षणार्धं वा जीवितं धारये कथम्॥८॥
यथा गौर्बालकं वत्सं त्यक्त्वा तिष्ठेन्न कुत्रचित्।
तथैव त्वां न शक्नोमि त्यक्तुं प्राणात्प्रियं सुतम्॥९॥
भरताय प्रसन्नश्चेद् राज्यं राजा प्रयच्छतु।
किमर्थं वनवासाय त्वामाज्ञापयति प्रियम्॥१०॥
कैकेय्या वरदो राजा सर्वस्वं वा प्रयच्छतु।
त्वया किमपराद्धं हि कैकेय्या वा नृपस्य वा॥११॥
पिता गुरुर्यथा राम तवाहमधिका ततः।
पित्राऽऽज्ञप्तो वनं गन्तुं वारयेयमहं सुतम्॥१२॥
यदि गच्छसि मद्वाक्यमुल्लङ्घ्य नृपवाक्यतः।
तदा प्राणान् परित्यज्य गच्छामि यमसादनम्॥१३॥
लक्ष्मणोऽपि ततः श्रुत्वा कौसल्यावचनं रुषा।
उवाच राघवं वीक्ष्य दहन्निव जगत्त्रयम्॥१४॥
उन्मत्तं भ्रान्तमनसं कैकेयीवशवर्तिनम्।
बद्ध्वा निहन्मि भरतं तद्बन्धून्मातुलानपि॥१५॥
अद्य पश्यन्तु मे शौर्यं लोकान् प्रदहतः पुरा।
राम त्वमभिषेकाय कुरु यत्नमरिन्दम॥१६॥
धनुष्पाणिरहं तत्र निहन्यां विघ्नकारिणः।
इति ब्रुवन्तं सौमित्रिमालिङ्ग्य रघुनन्दनः॥१७॥
शूरोऽसि रघुशार्दूल ममात्यन्तहिते रतः।
जानामि सर्वं ते सत्यं किन्तु तत्समयो न हि॥१८॥
यदिदं दृश्यते सर्वं राज्यं देहादिकं च यत्।
यदि सत्यं भवेत् तत्र आयासः सफलश्च ते॥१९॥
भोगा मेघवितानस्थविद्युल्लेखेव चञ्चलाः।
आयुरप्यग्निसन्तप्तलोहस्थजलबिन्दुवत्॥२०॥
यथा व्यालगलस्थोऽपि भेको दंशानपेक्षते।
तथा कालाहिना ग्रस्तो लोको भोगानशाश्वतान्॥२१॥
करोति दुःखेन हि कर्मतन्त्रं
शरीरभोगार्थमहर्निशं नरः।
देहस्तु भिन्नः पुरुषात्समीक्ष्यते
को वात्र भोगः पुरुषेण भुज्यते॥२२॥
पितृमातृसुतभ्रातृदारबन्ध्वादिसङ्गमः।
प्रपायामिव जन्तूनां नद्यां काष्ठौघवच्चलः॥२३॥
छायेव लक्ष्मीश्चपला प्रतीता
तारुण्यमम्बूर्मिवदध्रुवं च।
स्वप्नोपमं स्त्रीसुखमायुरल्पं
तथाऽपि जन्तोरभिमान एषः॥२४॥
संसृतिः स्वप्नसदृशी सदा रोगादिसङ्कुला।
गन्धर्वनगरप्रख्या मूढस्तामनुवर्तते॥२५॥
आयुष्यं क्षीयते यस्मादादित्यस्य गतागतैः।
दृष्ट्वाऽन्येषां जरामृत्यू कथञ्चिन्नैव बुध्यते॥२६॥
स एव दिवसः सैव रात्रिरित्येव मूढधीः।
भोगाननुपतत्येव कालवेगं न पश्यति॥२७॥
प्रतिक्षणं क्षरत्येतदायुरामघटाम्बुवत्।
सपत्ना इव रोगौघाः शरीरं प्रहरन्त्यहो॥२८॥
जरा व्याघ्रीव पुरतस्तर्जयन्त्यवतिष्ठते।
मृत्युः सहैव यात्येष समयं सम्प्रतीक्षते॥२९॥
देहेऽहम्भावमापन्नो राजाहं लोकविश्रुतः।
इत्यस्मिन्मनुते जन्तुः कृमिविड्भस्मसंज्ञिते॥३०॥
त्वगस्थिमान्सविण्मूत्ररेतोरक्तादिसंयुतः।
विकारी परिणामी च देह आत्मा कथं वद॥३१॥
यमास्थाय भवान्ल्लोकं दग्धुमिच्छति लक्ष्मण।
देहाभिमानिनः सर्वे दोषाः प्रादुर्भवन्ति हि॥३२॥
देहोऽहमिति या बुद्धिरविद्या सा प्रकीर्तिता।
नाहं देहश्चिदात्मेति बुद्धिर्विद्येति भण्यते॥३३॥
अविद्या संसृतेर्हेतुर्विद्या तस्या निवर्तिका।
तस्माद्यत्नः सदा कार्यो विद्याभ्यासे मुमुक्षुभिः।
कामक्रोधादयस्तत्र शत्रवः शत्रुसूदन॥३४॥
तत्रापि क्रोध एवालं मोक्षविघ्नाय सर्वदा।
येनाविष्टः पुमान् हन्ति पितृभ्रातृसुहृत्सखीन्॥३५॥
क्रोधमूलो मनस्तापः क्रोधः संसारबन्धनम्।
धर्मक्षयकरः क्रोधस्तस्मात्क्रोधं परित्यज॥३६॥
क्रोध एष महान् शत्रुस्तृष्णा वैतरणी नदी।
सन्तोषो नन्दनवनं शान्तिरेव हि कामधुक्॥३७॥
तस्माच्छान्तिं भजस्वाद्य शत्रुरेवं भवेन्न ते।
देहेन्द्रियमनःप्राणबुद्ध्यादिभ्यो विलक्षणः॥३८॥
आत्मा शुद्धः स्वयञ्ज्योतिरविकारी निराकृतिः।
यावद्देहेन्द्रियप्राणैर्भिन्नत्वं नात्मनो विदुः॥३९॥
तावत्संसारदुःखौघैः पीड्यन्ते मृत्युसंयुताः।
तस्मात्त्वं सर्वदा भिन्नमात्मानं हृदि भावय॥४०॥
बुद्ध्यादिभ्यो बहिः सर्वमनुवर्तस्व मा खिदः।
भुञ्जन् प्रारब्धमखिलं सुखं वा दुःखमेव वा॥४१॥
प्रवाहपतितं कार्यं कुर्वन्नपि न लिप्यसे।
बाह्ये सर्वत्र कर्तृत्वमावहन्नपि राघव॥४२॥
अन्तःशुद्धस्वभावस्त्वं लिप्यसे न च कर्मभिः।
एतन्मयोदितं कृत्स्नं हृदि भावय सर्वदा॥४३॥
संसारदुःखैरखिलैर्बाध्यसे न कदाचन।
त्वमप्यम्ब ममाऽऽदिष्टं हृदि भावय नित्यदा॥४४॥
समागमं प्रतीक्षस्व न दुःखैः पीड्यसे चिरम्।
न सदैकत्र संवासः कर्ममार्गानुवर्तिनाम्॥४५॥
यथा प्रवाहपतितप्लवानां सरितां तथा।
चतुर्दशसमा सङ्ख्या क्षणार्धमिव जायते॥४६॥
अनुमन्यस्व मामम्ब दुःखं सन्त्यज्य दूरतः।
एवं चेत्सुखसंवासो भविष्यति वने मम॥४७॥
इत्युक्त्वा दण्डवन्मातुः पादयोरपतच्चिरम्।
उत्थाप्याङ्के समावेश्य आशीर्भिरभ्यनन्दयत्॥४८॥
सर्वे देवाः सगन्धर्वा ब्रह्मविष्णुशिवादयः।
रक्षन्तु त्वां सदा यान्तं तिष्ठन्तं निद्रया युतम्॥४९॥
इति प्रस्थापयामास समालिङ्ग्य पुनः पुनः।
लक्ष्मणोऽपि तदा रामं नत्वा हर्षाश्रुगद्गदः॥५०॥
आह राम ममान्तःस्थः संशयोऽयं त्वया हृतः।
यास्यामि पृष्ठतो राम सेवां कर्तुं तदादिश॥५१॥
अनुगृह्णीष्व मां राम नोचेत्प्राणान्स्त्यजाम्यहम्।
तथेति राघवोऽप्याह लक्ष्मणं याहि मा चिरम्॥५२॥
प्रतस्थे तां समाधातुं गतः सीतापतिर्विभुः।
आगतं पतिमालोक्य सीता सुस्मितभाषिणी॥५३॥
स्वर्णपात्रस्थसलिलैः पादौ प्रक्षाल्य भक्तितः।
पप्रच्छ पतिमालोक्य देव किं सेनया विना॥५४॥
आगतोऽसि गतः कुत्र श्वेतच्छत्रं च ते कुतः।
वादित्राणि न वाद्यन्ते किरीटादिविवर्जितः॥५५॥
सामन्तराजसहितः सम्भ्रमान्नागतोऽसि किम्।
इति स्म सीतया पृष्टो रामः सस्मितमब्रवीत्॥५६॥
राज्ञा मे दण्डकारण्ये राज्यं दत्तं शुभेऽखिलम्।
अतस्तत्पालनार्थाय शीघ्रं यास्यामि भामिनि॥५७॥
अद्यैव यास्यामि वनं त्वं तु श्वश्रूसमीपगा।
शुश्रूषां कुरु मे मातुर्न मिथ्यावादिनो वयम्॥५८॥
इति ब्रुवन्तं श्रीरामं सीता भीताब्रवीद् वचः।
किमर्थं वनराज्यं ते पित्रा दत्तं महात्मना॥५९॥
तामाह रामः कैकेय्यै राजा प्रीतो वरं ददौ।
भरताय ददौ राज्यं वनवासं ममानघे॥६०॥
चतुर्दश समास्तत्र वासो मे किल याचितः।
तया देव्या ददौ राजा सत्यवादी दयापरः॥६१॥
अतः शीघ्रं गमिष्यामि मा विघ्नं कुरु भामिनि।
श्रुत्वा तद्रामवचनं जानकी प्रीतिसंयुता॥६२॥
अहमग्रे गमिष्यामि वनं पश्चात्त्वमेष्यसि।
इत्याह मां विना गन्तुं तव राघव नोचितम्॥६३॥
तामाह राघवः प्रीतः स्वप्रियां प्रियवादिनीम्।
कथं वनं त्वां नेष्येऽहं बहुव्याघ्रमृगाकुलम्॥६४॥
राक्षसा घोररूपाश्च सन्ति मानुषभोजिनः।
सिंहव्याघ्रवराहाश्च सञ्चरन्ति समन्ततः॥६५॥
कट्वम्लफलमूलानि भोजनार्थं सुमध्यमे।
अपूपान्नव्यञ्जनानि विद्यन्ते न कदाचन॥६६॥
काले काले फलं वाऽपि विद्यते कुत्र सुन्दरि।
मार्गो न दृश्यते क्वापि शर्कराकण्टकान्वितः॥६७॥
गुहागह्वरसम्बाधं झिल्लीदंशादिभिर्युतम्।
एवं बहुविधं दोषं वनं दण्डकसंज्ञितम्॥६८॥
पादचारेण गन्तव्यं शीतवातातपादिमत्।
राक्षसादीन् वने दृष्ट्वा जीवितं हास्यसेऽचिरात्॥६९॥
तस्माद् भद्रे गृहे तिष्ठ शीघ्रं द्रक्ष्यसि मां पुनः।
रामस्य वचनं श्रुत्वा सीता दुःखसमन्विता॥७०॥
प्रत्युवाच स्फुरद्वक्त्रा किञ्चित्कोपसमन्विता।
कथं मामिच्छसे त्यक्तुं धर्मपत्नीं पतिव्रताम्॥७१॥
त्वदनन्यामदोषां मां धर्मज्ञोऽसि दयापरः।
त्वत्समीपे स्थितां राम को वा मां धर्षयेद्वने॥७२॥
फलमूलादिकं यद्यत् तव भुक्तावशेषितम्।
तदेवामृततुल्यं मे तेन तुष्टा रमाम्यहम्॥७३॥
त्वया सह चरन्त्या मे कुशाः काशाश्च कण्टकाः।
पुष्पास्तरणतुल्या मे भविष्यन्ति न संशयः॥७४॥
अहं त्वां क्लेशये नैव भवेयं कार्यसाधिनी।
बाल्ये मां वीक्ष्य कश्चिन्मां ज्योतिःशास्त्रविशारदः॥७५॥
प्राह ते विपिने वासः पत्या सह भविष्यति।
सत्यवादी द्विजो भूयाद् गमिष्यामि त्वया सह॥७६॥
अन्यत् किञ्चित् प्रवक्ष्यामि श्रुत्वा मां नय काननम्।
रामायणानि बहुशः श्रुतानि बहुभिर्द्विजैः॥७७॥
सीतां विना वनं रामो गतः किं कुत्रचिद्वद।
अतस्त्वया गमिष्यामि सर्वथा त्वत्सहायिनी॥७८॥
यदि गच्छसि मां त्यक्त्वा प्राणान्स्त्यक्ष्यामि तेऽग्रतः।
इति तं निश्चयं ज्ञात्वा सीताया रघुनन्दनः॥७९॥
अब्रवीद् देवि गच्छ त्वं वनं शीघ्रं मया सह।
अरुन्धत्यै प्रयच्छाशु हारानाभरणानि च॥८०॥
ब्राह्मणेभ्यो धनं सर्वं दत्त्वा गच्छामहे वनम्।
इत्युक्त्वा लक्ष्मणेनाशु द्विजानाहूय भक्तितः॥८१॥
ददौ गवां वृन्दशतं धनानि
वस्त्राणि दिव्यानि विभूषणानि।
कुटुम्बवद्भ्यः श्रुतशीलवद्भ्यो
मुदा द्विजेभ्यो रघुवंशकेतुः॥८२॥
अरुन्धत्यै ददौ सीता मुख्यान्याभरणानि च।
रामो मातुः सेवकेभ्यो ददौ धनमनेकधा॥८३॥
स्वकान्तःपुरवासिभ्यः सेवकेभ्यस्तथैव च।
पौरजानपदेभ्यश्च ब्राह्मणेभ्यः सहस्रशः॥८४॥
लक्ष्मणोऽपि सुमित्रां तु कौसल्यायै समर्पयत्।
धनुष्पाणिः समागत्य रामस्याग्रे व्यवस्थितः॥८५॥
रामः सीता लक्ष्मणश्च जग्मुः सर्वे नृपालयम्॥८६॥
श्रीरामः सह सीतया नृपपथे गच्छन् शनैः सानुजः
पौरान् जानपदान् कुतूहलदृशः सानन्दमुद्वीक्षयन्
श्यामः कामसहस्रसुन्दरवपुः कान्त्या दिशो भासयन्
पादन्यासपवित्रिताऽखिलजगत् प्रापालयं तत्पितुः
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे चतुर्थः सर्गः॥
❀