तृतीयः सर्गः

ततो दशरथो राजा रामाभ्युदयकारणात्।
आदिश्य मन्त्रिप्रकृतीः सानन्दो गृहमाविशत्॥१॥
तत्रादृष्ट्वा प्रियां राजा किमेतदिति विह्वलः।
या पुरा मन्दिरं तस्याः प्रविष्टे मयि शोभना॥२॥
हसन्ती मामुपायाति सा किं नैवाद्य दृश्यते।
इत्यात्मन्येव सञ्चिन्त्य मनसातिविदूयता॥३॥
पप्रच्छ दासीनिकरं कुतो वः स्वामिनी शुभा।
नायाति मां यथापूर्वं मत्प्रिया प्रियदर्शना॥४॥
ता ऊचुः क्रोधभवनं प्रविष्टा नैव विद्महे।
कारणं तत्र देव त्वं गच्छ निश्चेतुमर्हसि॥५॥
इत्युक्तो भयसन्त्रस्तो राजा तस्याः समीपगः।
उपविश्य शनैर्देहं स्पृशन्वै पाणिनाब्रवीत्॥६॥
किं शेषे वसुधापृष्ठे पर्यङ्कादीन् विहाय च।
मां त्वं खेदयसे भीरु यतो मां नावभाषसे॥७॥
अलङ्कारं परित्यज्य भूमौ मलिनवाससा।
किमर्थं ब्रूहि सकलं विधास्ये तव वाञ्छितम्॥८॥
को वा तवाहितं कर्ता नारी वा पुरुषोऽपि वा।
स मे दण्ड्यश्च वध्यश्च भविष्यति न संशयः॥९॥
ब्रूहि देवि यथा प्रीतिस्तदवश्यं ममाग्रतः।
तदिदानीं साधयिष्ये सुदुर्लभमपि क्षणात्॥१०॥
जानासि त्वं मम स्वान्तं प्रियं मां स्ववशे स्थितम्।
तथाऽपि मां खेदयसे वृथा तव परिश्रमः॥११॥
ब्रूहि किं धनिनं कुर्यां दरिद्रं ते प्रियङ्करम्।
धनिनं क्षणमात्रेण निर्धनं च तवाहितम्॥१२॥
ब्रूहि कं वा वधिष्यामि वधार्हो वा विमोक्ष्यते।
किमत्र बहुनोक्तेन प्राणान् दास्यामि ते प्रिये॥१३॥
मम प्राणात्प्रियतरो रामो राजीवलोचनः।
तस्योपरि शपे ब्रूहि त्वद्धितं तत्करोम्यहम्॥१४॥
इति ब्रुवाणं राजानं शपन्तं राघवोपरि।
शनैर्विमृज्य नेत्रे सा राजानं प्रत्यभाषत॥१५॥
यदि सत्यप्रतिज्ञोऽसि शपथं कुरुषे यदि।
याच्ञां मे सफलां कर्तुं शीघ्रमेव त्वमर्हसि॥१६॥
पूर्वं देवासुरे युद्धे मया त्वं परिरक्षितः।
तदा वरद्वयं दत्तं त्वया मे तुष्टचेतसा॥१७॥
तद्द्वयं न्यासभूतं मे स्थापितं त्वयि सुव्रत।
तत्रैकेन वरेणाशु भरतं मे प्रियं सुतम्॥१८॥
एभिः सम्भृतसम्भारैर्यौवराज्येऽभिषेचय।
अपरेण वरेणाशु रामो गच्छतु दण्डकान्॥१९॥
मुनिवेषधरः श्रीमान् जटावल्कलभूषणः।
चतुर्दश समास्तत्र कन्दमूलफलाशनः॥२०॥
पुनरायातु तस्यान्ते वने वा तिष्ठतु स्वयम्।
प्रभाते गच्छतु वनं रामो राजीवलोचनः॥२१॥
यदि किञ्चिद् विलम्बेत प्राणान्स्त्यक्ष्ये तवाग्रतः।
भव सत्यप्रतिज्ञस्त्वमेतदेव मम प्रियम्॥२२॥
श्रुत्वैतद्दारुणं वाक्यं कैकेय्या रोमहर्षणम्।
निपपात महीपालो वज्राहत इवाचलः॥२३॥
शनैरुन्मील्य नयने विमृज्य परया भिया।
दुःस्वप्नो वा मया दृष्टो ह्यथवा चित्तविभ्रमः॥२४॥
इत्यालोक्य पुरः पत्नीं व्याघ्रीमिव पुरः स्थिताम्।
किमिदं भाषसे भद्रे मम प्राणहरं वचः॥२५॥
रामः कमपराधं ते कृतवान् कमलेक्षणः।
ममाग्रे राघवगुणान् वर्णयस्यनिशं शुभान्॥२६॥
कौसल्यां मां समं पश्यन् शुश्रूषा कुरुते सदा।
इति ब्रुवन्ती त्वं पूर्वमिदानीं भाषसेऽन्यथा॥२७॥
राज्यं गृहाण पुत्राय रामस्तिष्ठतु मन्दिरे।
अनुगृह्णीष्व मां वामे रामान्नास्ति भयं तव॥२८॥
इत्युक्त्वाऽश्रुपरीताक्षः पादयोर्निपपात ह।
कैकेयी प्रत्युवाचेदं साऽपि रक्तान्तलोचना॥२९॥
राजेन्द्र किं त्वं भ्रान्तोऽसि उक्तं तद् भाषसेऽन्यथा।
मिथ्या करोषि चेत्स्वीयं भाषितं नरको भवेत्॥३०॥
वनं न गच्छेद्यदि रामचन्द्रः
प्रभातकालेऽजिनचीरयुक्तः।
उद्बन्धनं वा विषभक्षणं वा
कृत्वा मरिष्ये पुरतस्तवाहम्॥३१॥
सत्यप्रतिज्ञोऽहमितीह लोके
विडम्बसे सर्वसभान्तरेषु।
रामोपरि त्वं शपथं च कृत्वा
मिथ्याप्रतिज्ञो नरकं प्रयाहि॥३२॥
इत्युक्तः प्रियया दीनो मग्नो दुःखार्णवे नृपः।
मूर्च्छितः पतितो भूमौ विसंज्ञो मृतको यथा॥३३॥
एवं रात्रिर्गता तस्य दुःखात्संवत्सरोपमा।
अरुणोदयकाले तु वन्दिनो गायका जगुः॥३४॥
निवारयित्वा तान् सर्वान् कैकेयी रोषमास्थिता।
ततः प्रभातसमये मध्यकक्षमुपस्थिताः॥३५॥
ब्राह्मणाः क्षत्रिया वैश्या ऋषयः कन्यकास्तथा।
छत्रं च चामरं दिव्यं गजो वाजी तथैव च॥३६॥
अन्याश्च वारमुख्या याः पौरजानपदास्तथा।
वसिष्ठेन यथाज्ञप्तं तत्सर्वं तत्र संस्थितम्॥३७॥
स्त्रियो बालाश्च वृद्धाश्च रात्रौ निद्रां न लेभिरे।
कदा द्रक्ष्यामहे रामं पीतकौशेयवाससम्॥३८॥
सर्वाभरणसम्पन्नं किरीटकटकोज्ज्वलम्।
कौस्तुभाभरणं श्यामं कन्दर्पशतसुन्दरम्॥३९॥
अभिषिक्तं समायातं गजारूढं स्मिताननम्।
श्वेतच्छत्रधरं तत्र लक्ष्मणं लक्षणान्वितम्॥४०॥
रामं कदा वा द्रक्ष्यामः प्रभातं वा कदा भवेत्।
इत्युत्सुकधियः सर्वे बभूवुः पुरवासिनः॥४१॥
नेदानीमुत्थितो राजा किमर्थं चेति चिन्तयन्।
सुमन्त्रः शनकैः प्रायाद्यत्र राजाऽवतिष्ठते॥४२॥
वर्धयन् जयशब्देन प्रणमन् शिरसा नृपम्।
अतिखिन्नं नृपं दृष्ट्वा कैकेयीं समपृच्छत॥४३॥
देवि कैकेयि वर्धस्व किं राजा दृश्यतेऽन्यथा।
तमाह कैकेयी राजा रात्रौ निद्रां न लब्धवान्॥४४॥
राम रामेति रामेति राममेवानुचिन्तयन्।
प्रजागरेण वै राजा ह्यस्वस्थ इव लक्ष्यते।
राममानय शीघ्रं त्वं राजा द्रष्टुमिहेच्छति॥४५॥
अश्रुत्वा राजवचनं कथं गच्छामि भामिनि।
तच्छ्रुत्वा मन्त्रिणो वाक्यं राजा मन्त्रिणमब्रवीत्॥४६॥
सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम्।
इत्युक्तस्त्वरितं गत्वा सुमन्त्रो राममन्दिरम्॥४७॥
अवारितः प्रविष्टोऽयं त्वरितं राममब्रवीत्।
शीघ्रमागच्छ भद्रं ते राम राजीवलोचन॥४८॥
पितुर्गेहं मया सार्धं राजा त्वां द्रष्टुमिच्छति।
इत्युक्तो रथमारुह्य सम्भ्रमात्त्वरितो ययौ॥४९॥
रामः सारथिना सार्धं लक्ष्मणेन समन्वितः।
मध्यकक्षे वसिष्ठादीन् पश्यन्नेव त्वरान्वितः॥५०॥
पितुः समीपं सङ्गम्य ननाम चरणौ पितुः।
राममालिङ्गितुं राजा समुत्थाय ससम्भ्रमः॥५१॥
बाहू प्रसार्य रामेति दुःखान्मध्ये पपात ह।
हा हेति रामस्तं शीघ्रमालिङ्ग्याङ्के न्यवेशयत्॥५२॥
राजानं मूर्च्छितं दृष्ट्वा चुक्रुशुः सर्वयोषितः।
किमर्थं रोदनमिति वसिष्ठोऽपि समाविशत्॥५३॥
रामः पप्रच्छ किमिदं राज्ञो दुःखस्य कारणम्।
एवं पृच्छति रामे सा कैकेयी राममब्रवीत्॥५४॥
त्वमेव कारणं ह्यत्र राज्ञो दुःखोपशान्तये।
किञ्चित्कार्यं त्वया राम कर्तव्यं नृपतेर्हितम्॥५५॥
कुरु सत्यप्रतिज्ञस्त्वं राजानं सत्यवादिनम्।
राज्ञा वरद्वयं दत्तं मम सन्तुष्टचेतसा॥५६॥
त्वदधीनं तु तत्सर्वं वक्तुं त्वां लज्जते नृपः।
सत्यपाशेन सम्बद्धं पितरं त्रातुमर्हसि॥५७॥
पुत्रशब्देन चैतद्धि नरकात्त्रायते पिता।
रामस्तयोदितं श्रुत्वा शूलेनाभिहतो यथा॥५८॥
व्यथितः कैकेयीं प्राह किं मामेवं प्रभाषसे।
पित्रर्थे जीवितं दास्ये पिबेयं विषमुल्बणम्॥५९॥
सीतां त्यक्ष्येऽथ कौसल्यां राज्यं चापि त्यजाम्यहम्।
अनाज्ञप्तोऽपि कुरुते पितुः कार्यं स उत्तमः॥६०॥
उक्तः करोति यः पुत्रः स मध्यम उदाहृतः।
उक्तोऽपि कुरुते नैव स पुत्रो मल उच्यते॥६१॥
अतः करोमि तत्सर्वं यन्मामाह पिता मम।
सत्यं सत्यं करोम्येव रामो द्विर्नाभिभाषते॥६२॥
इति रामप्रतिज्ञां सा श्रुत्वा वक्तुं प्रचक्रमे।
राम त्वदभिषेकार्थं सम्भाराः सम्भृताश्च ये॥६३॥
तैरेव भरतोऽवश्यमभिषेच्यः प्रियो मम।
अपरेण वरेणाशु चीरवासा जटाधरः॥६४॥
वनं प्रयाहि शीघ्रं त्वमद्यैव पितुराज्ञया।
चतुर्दश समास्तत्र वस मुन्यन्नभोजनः॥६५॥
एतदेव पितुस्तेऽद्य कार्यं त्वं कर्तुमर्हसि।
राजा तु लज्जते वक्तुं त्वामेवं रघुनन्दन॥६६॥

श्रीराम उवाच

भरतस्यैव राज्यं स्यादहं गच्छामि दण्डकान्।
किन्तु राजा न वक्तीह मां न जानेऽत्र कारणम्॥६७॥
श्रुत्वैतद्रामवचनं दृष्ट्वा रामं पुरः स्थितम्।
प्राह राजा दशरथो दुःखितो दुःखितं वचः॥६८॥
स्त्रीजितं भ्रान्तहृदयमुन्मार्गपरिवर्तिनम्।
निगृह्य मां गृहाणेदं राज्यं पापं न तद् भवेत्॥६९॥
एवं चेदनृतं नैव मां स्पृशेद् रघुनन्दन।
इत्युक्त्वा दुःखसन्तप्तो विललाप नृपस्तदा॥७०॥
हा राम हा जगन्नाथ हा मम प्राणवल्लभ।
मां विसृज्य कथं घोरं विपिनं गन्तुमर्हसि॥७१॥
इति रामं समालिङ्ग्य मुक्तकण्ठो रुरोद ह।
विमृज्य नयने रामः पितुः सजलपाणिना॥७२॥
आश्वासयामास नृपं शनैः स नयकोविदः।
किमत्र दुःखेन विभो राज्यं शासतु मेऽनुजः॥७३॥
अहं प्रतिज्ञां निस्तीर्य पुनर्यास्यामि ते पुरम्।
राज्यात्कोटिगुणं सौख्यं मम राजन् वने सतः॥७४॥
त्वत्सत्यपालनं देव कार्यं चापि भविष्यति।
कैकेय्याश्च प्रियो राजन् वनवासो महागुणः॥७५॥
इदानीं गन्तुमिच्छामि व्येतु मातुश्च हृज्ज्वरः।
सम्भारश्चोपह्रीयन्तामभिषेकार्थमाहृताः॥७६॥
मातरं समनुश्वास्य अनुनीय च जानकीम्।
आगत्य पादौ वन्दित्वा तव यास्ये सुखं वनम्॥७७॥
इत्युक्त्वा तु परिक्रम्य मातरं द्रष्टुमाययौ।
कौसल्याऽपि हरेः पूजां कुरुते रामकारणात्॥७८॥
होमं च कारयामास ब्राह्मणेभ्यो ददौ धनम्।
ध्यायते विष्णुमेकाग्रमनसा मौनमास्थिता॥७९॥
अन्तःस्थमेकं घनचित्प्रकाशं
निरस्तसर्वातिशयस्वरूपम्।
विष्णुं सदानन्दमयं हृदब्जे
सा भावयन्ती न ददर्श रामम्॥८०॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे तृतीयः सर्गः॥