द्वितीयः सर्गः

अथ राजा दशरथः कदाचिद्रहसि स्थितः।
वसिष्ठं स्वकुलाचार्यमाहूयेदमभाषत॥१॥
भगवन् राममखिलाः प्रशंसन्ति मुहुर्मुहुः।
पौराश्च निगमा वृद्धा मन्त्रिणश्च विशेषतः॥२॥
ततः सर्वगुणोपेतं रामं राजीवलोचनम्।
ज्येष्ठं राज्येऽभिषेक्ष्यामि वृद्धोऽहं मुनिपुङ्गव॥३॥
भरतो मातुलं द्रष्टुं गतः शत्रुघ्नसंयुतः।
अभिषेक्ष्ये श्व एवाशु भवान्स्तच्चानुमोदताम्॥४॥
सम्भाराः सम्भ्रियन्तां च गच्छ मन्त्रय राघवम्।
उच्छ्रीयन्तां पताकाश्च नानावर्णाः समन्ततः॥५॥
तोरणानि विचित्राणि स्वर्णमुक्तामयानि वै।
आहूय मन्त्रिणं राजा सुमन्त्रम्॥६॥
आज्ञापयति यद्यत्त्वां मुनिस्तत्तत्समानय।
यौवराज्येऽभिषेक्ष्यामि श्वोभूते रघुनन्दनम्॥७॥
तथेति हर्षात्स मुनिं किं करोमीत्यभाषत।
तमुवाच महातेजा वसिष्ठो ज्ञानिनां वरः॥८॥
श्वः प्रभाते मध्यकक्षे कन्यकाः स्वर्णभूषिताः।
तिष्ठन्तु षोडश गजाः स्वर्णरत्नादि भूषिताः॥९॥
चतुर्दन्तः समायातु ऐरावतकुलोद्भवः।
नानातीर्थोदकैः पूर्णाः स्वर्णकुम्भाः सहस्रशः॥१०॥
स्थाप्यन्तां नववैयाघ्रचर्माणि त्रीणि चानय।
श्वेतच्छत्रं रत्नदण्डं मुक्तामणिविराजितम्॥११॥
दिव्यमाल्यानि वस्त्राणि दिव्यान्याभरणानि च।
मुनयः सत्कृतास्तत्र तिष्ठन्तु कुशपाणयः॥१२॥
नर्तक्यो वारमुख्याश्च गायका वेणुकास्तथा।
नानावादित्रकुशला वादयन्तु नृपाङ्गणे॥१३॥
हस्त्यश्वरथपादाता बहिस्तिष्ठन्तु सायुधाः।
नगरे यानि तिष्ठन्ति देवतायतनानि च॥१४॥
तेषु प्रवर्ततां पूजा नानाबलिभिरावृता।
राजानः शीघ्रमायान्तु नानोपायनपाणयः॥१५॥
इत्यादिश्य मुनिः श्रीमान् सुमन्त्रं नृपमन्त्रिणम्।
स्वयं जगाम भवनं राघवस्यातिशोभनम्॥१६॥
रथमारुह्य भगवान् वसिष्ठो मुनिसत्तमः।
त्रीणि कक्षाण्यतिक्रम्य रथात्क्षितिमवातरत्॥१७॥
अन्तः प्रविश्य भवनं स्वाचार्यत्वादवारितः।
गुरुमागतमाज्ञाय रामस्तूर्णः कृताञ्जलिः॥१८॥
प्रत्युद्गम्य नमस्कृत्य दण्डवद्भक्तिसंयुतः।
स्वर्णपात्रेण पानीयमानिनायाऽऽशु जानकी॥१९॥
रत्नासने समावेश्य पादौ प्रक्षाल्य भक्तितः।
तदपः शिरसा धृत्वा सीताया सह राघवः॥२०॥
धन्योऽस्मीत्यब्रवीद् रामस्तव पादाम्बुधारणात्।
श्रीरामेणैवमुक्तस्तु प्रहसन् मुनिरब्रवीत्॥२१॥
त्वत्पादसलिलं धृत्वा धन्योऽभूद्गिरिजापतिः।
ब्रह्माऽपि मत्पिता ते हि पादतीर्थहताशुभः॥२२॥
इदानीं भाषसे यत्त्वं लोकानामुपदेशकृत्।
जानामि त्वां परात्मानं लक्ष्म्या सञ्जातमीश्वरम्॥२३॥
देवकार्यार्थसिद्ध्यर्थं भक्तानां भक्तिसिद्धये।
रावणस्य वधार्थाय जातं जानामि राघव॥२४॥
तथाऽपि देवकार्यार्थं गुह्यं नोद्घाटयाम्यहम्।
तथा त्वं मायया सर्वं करोषि रघुनन्दन॥२५॥
तथैवानुविधास्येऽहं शिष्यस्त्वं गुरुरप्यहम्।
गुरुर्गुरूणां त्वं देव पितॄणां त्वं पितामहः॥२६॥
अन्तर्यामी जगद्यात्रावाहकस्त्वमगोचरः।
शुद्धसत्त्वमयं देहं धृत्वा स्वाधीनसम्भवम्॥२७॥
मनुष्य इव लोकेऽस्मिन् भासि त्वं योगमायया।
पौरोहित्यमहं जाने विगर्ह्यं दूष्यजीवनम्॥२८॥
इक्ष्वाकूणां कुले रामः परमात्मा जनिष्यते।
इति ज्ञातं मया पूर्वं ब्रह्मणा कथितं पुरा॥२९॥
ततोऽहमाशया राम तव सम्बन्धकाङ्क्षया।
अकार्षं गर्हितमपि तवाचार्यत्वसिद्धये॥३०॥
ततो मनोरथो मेऽद्य फलितो रघुनन्दन।
त्वदधीना महामाया सर्वलोकैकमोहिनी॥३१॥
मां यथा मोहयेन्नैव तथा कुरु रघूद्वह।
गुरुनिष्कृतिकामस्त्वं यदि देह्येतदेव मे॥३२॥
प्रसङ्गात्सर्वमप्युक्तं न वाच्यं कुत्रचिन्मया।
राज्ञा दशरथेनाहं प्रेषितोऽस्मि रघूद्वह॥३३॥
त्वामामन्त्रयितुं राज्ये श्वोऽभिषेक्ष्यति राघव।
अद्य त्वं सीतया सार्धमुपवासं यथाविधि॥३४॥
कृत्वा शुचिर्भूमिशायी भव राम जितेन्द्रियः।
गच्छामि राजसान्निध्यं त्वं तु प्रातर्गमिष्यसि॥३५॥
इत्युक्त्वा रथमारुह्य ययौ राजगुरुर्द्रुतम्।
रामोऽपि लक्ष्मणं दृष्ट्वा प्रहसन्निदमब्रवीत्॥३६॥
सौमित्रे यौवराज्ये मे श्वोऽभिषेको भविष्यति।
निमित्तमात्रमेवाहं कर्ता भोक्ता त्वमेव हि॥३७॥
मम त्वं हि बहिःप्राणो नात्र कार्या विचारणा।
ततो वसिष्ठेन यथा भाषितं तत्तथाऽकरोत्॥३८॥
वसिष्ठोऽपि नृपं गत्वा कृतं सर्वं न्यवेदयत्।
वसिष्ठस्य पुरो राज्ञा ह्युक्तं रामाभिषेचनम्॥३९॥
यदा तदैव नगरे श्रुत्वा कश्चित्पुमान् जगौ।
कौसल्यायै राममात्रे सुमित्रायै तथैव च॥४०॥
श्रुत्वा ते हर्षसम्पूर्णे ददतुर्हारमुत्तमम्।
तस्मै ततः प्रीतमनाः कौसल्या पुत्रवत्सला॥४१॥
लक्ष्मीं पर्यचरद् देवीं रामस्यार्थप्रसिद्धये।
सत्यवादी दशरथः करोत्येव प्रतिश्रुतम्॥४२॥
कैकेयीवशगः किन्तु कामुकः किं करिष्यति।
इति व्याकुलचित्ता सा दुर्गां देवीमपूजयत्॥४३॥
एतस्मिन्नन्तरे देवा देवीं वाणीमचोदयन्।
गच्छ देवि भुवो लोकमयोध्यायां प्रयत्नतः॥४४॥
रामाभिषेकविघ्नार्थं यतस्व ब्रह्मवाक्यतः।
मन्थरां प्रविशस्वादौ कैकेयीं च ततः परम्॥४५॥
ततो विघ्ने समुत्पन्ने पुनरेहि दिवं शुभे।
तथेत्युक्त्वा तथा चक्रे प्रविवेशाथ मन्थराम्॥४६॥
साऽपि कुब्जा त्रिवक्रा तु प्रासादाग्रमथारुहत्।
नगरं परितो दृष्ट्वा सर्वतः समलङ्कृतम्॥४७॥
नानातोरणसम्बाधं पताकाभिरलङ्कृतम्।
दानोत्सवसमायुक्ता कौसल्या चातिहर्षिता॥४८॥
धात्रीं पप्रच्छ मातः किं नगरं समलङ्कृतम्।
दानोत्सवसमायुक्ता कौसल्या चातिहर्षिता॥४९॥
ददाति विप्रमुख्येभ्यो वस्त्राणि विविधानि च।
तामुवाच तदा धात्री रामचन्द्राभिषेचनम्॥५०॥
श्वो भविष्यति तेनाद्य सर्वतोऽलङ्कृतं पुरम्।
तच्छ्रुत्वा त्वरितं गत्वा कैकेयीं वाक्यमब्रवीत्॥५१॥
पर्यङ्कस्थां विशालाक्षीमेकान्ते पर्यवस्थिताम्।
किं शेषे दुर्भगे मूढे महद्भयमुपस्थितम्॥५२॥
न जानीषेऽतिसौन्दर्यमानिनी मत्तगामिनी॥५३॥
रामस्यानुग्रहाद्राज्ञः श्वोऽभिषेको भविष्यति।
तच्छ्रुत्वा सहसोत्थाय कैकेयी प्रियवादिनी॥५४॥
तस्यै दिव्यं ददौ स्वर्णनूपुरं रत्नभूषितम्।
हर्षस्थाने किमिति मे कथ्यते भयमागतम्॥५५॥
भरतादधिको रामः प्रियकृन्मे प्रियंवदः।
कौसल्यां मां समं पश्यन् सदा शुश्रूषते हि माम्॥५६॥
रामाद्भयं किमापन्नं तव मूढे वदस्व मे।
तच्छ्रुत्वा विषसादाथ कुब्जाऽकारणवैरिणी॥५७॥
शृणु मद्वचनं देवि यथार्थं ते महद्भयम्।
त्वां तोषयन् सदा राजा प्रियवाक्यानि भाषते॥५८॥
कामुकोऽतथ्यवादी च त्वां वाचा परितोषयन्।
कार्यं करोति तस्या वै राममातुः सुपुष्कलम्॥५९॥
मनस्येतन्निधायैव प्रेषयामास ते सुतम्।
भरतं मातुलकुले प्रेषयामास सानुजम्॥६०॥
सुमित्रायाः समीचीनं भविष्यति न संशयः।
लक्ष्मणो राममन्वेति राज्यं सोऽनुभविष्यति॥६१॥
भरतो राघवस्याग्रे किङ्करो वा भविष्यति।
विवास्यते वा नगरात्प्राणैर्वा हायतेऽचिरात्॥६२॥
त्वं तु दासीव कौसल्यां नित्यं परिचरिष्यसि।
ततोऽपि मरणं श्रेयो यत्सपत्न्याः पराभवः॥६३॥
अतः शीघ्रं यतस्वाद्य भरतस्याभिषेचने।
रामस्य वनवासार्थं वर्षाणि नव पञ्च च॥६४॥
ततो रूढोऽभये पुत्रस्तव राज्ञि भविष्यति।
उपायं ते प्रवक्ष्यामि पूर्वमेव सुनिश्चितम्॥६५॥
पुरा देवासुरे युद्धे राजा दशरथः स्वयम्।
इन्द्रेण याचितो धन्वी सहायार्थं महारथः॥६६॥
जगाम सेनया सार्धं त्वया सह शुभानने।
युद्धं प्रकुर्वतस्तस्य राक्षसैः सह धन्विनः॥६७॥
तदाऽक्षकीलो न्यपतच्छिन्नस्तस्य न वेद सः।
त्वं तु हस्तं समावेश्य कीलरन्ध्रेऽतिधैर्यतः॥६८॥
स्थितवत्यसितापाङ्गि पतिप्राणपरीप्सया।
ततो हत्वाऽसुरान् सर्वान् ददर्श त्वामरिन्दमः॥६९॥
आश्चर्यं परमं लेभे त्वामालिङ्ग्य मुदान्वितः।
वृणीष्व यत्ते मनसि वाञ्छितं वरदोऽस्म्यहम्॥७०॥
वरद्वयं वृणीष्व त्वमेवं राजावदत्स्वयम्।
त्वयोक्तो वरदो राजन् यदि दत्तं वरद्वयम्॥७१॥
त्वय्येव तिष्ठतु चिरं न्यासभूतं ममानघ।
यदा मेऽवसरो भूयात्तदा देहि वरद्वयम्॥७२॥
तथेत्युक्त्वा स्वयं राजा मन्दिरं व्रज सुव्रते।
त्वत्तः श्रुतं मया पूर्वमिदानीं स्मृतिमागतम्॥७३॥
अतः शीघ्रं प्रविश्याद्य क्रोधागारं रुषान्विता।
विमुच्य सर्वाभरणं सर्वतो विनिकीर्य च॥७४॥
भूमावेव शयाना त्वं तूष्णीमातिष्ठ भामिनि।
यावत्सत्यं प्रतिज्ञाय राजाभीष्टं करोति ते॥७५॥
श्रुत्वा त्रिवक्रयोक्तं तत्तदा केकयनन्दिनी।
तथ्यमेवाखिलं मेने दुःसङ्गाहितविभ्रमा॥७६॥
तामाह कैकेयी दुष्टा कुतस्ते बुद्धिरीदृशी।
एवं त्वां बुद्धिसम्पन्नां न जाने वक्रसुन्दरि॥७७॥
भरतो यदि राजा मे भविष्यति सुतः प्रियः।
ग्रामान् शतं प्रदास्यामि मम त्वं प्राणवल्लभा॥७८॥
इत्युक्त्वा कोपभवनं प्रविश्य सहसा रुषा।
विमुच्य सर्वाभरणं परिकीर्य समन्ततः॥७९॥
भूमौ शयाना मलिना मलिनाम्बरधारिणी।
प्रोवाच शृणु मे कुब्जे यावद्रामो वनं व्रजेत्॥८०॥
प्राणान्स्त्यक्ष्येऽथ वा वक्रे शयिष्ये तावदेव हि।
निश्चयं कुरु कल्याणि कल्याणं ते भविष्यति॥८१॥
इत्युक्त्वा प्रययौ कुब्जा गृहं साऽपि तथाऽकरोत्॥८२॥
धीरोऽत्यन्तदयान्वितोऽपि सगुणाचारान्वितो वाथवा
नीतिज्ञो विधिवाददेशिकपरो विद्याविवेकोऽथवा।
दुष्टानामतिपापभावितधियां सङ्गं सदा चेद्भजेत्
तद्बुद्ध्या परिभावितो व्रजति तत्साम्यं क्रमेण॥८३॥
अतः सङ्गः परित्याज्यो दुष्टानां सर्वदैव हि।
दुःसङ्गी च्यवते स्वार्थाद्यथेयं राजकन्यका॥८४॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे द्वितीयः सर्गः॥