प्रथमः सर्गः
एकदा सुखमासीनं रामं स्वान्तःपुराजिरे।
सर्वाभरणसम्पन्नं रत्नसिंहासने स्थितम्॥१॥
नीलोत्पलदलश्यामं कौस्तुभामुक्तकन्धरम्।
सीतया रत्नदण्डेन चामरेणाथ वीजितम्॥२॥
विनोदयन्तं ताम्बूलचर्वणादिभिरादरात्।
नारदोऽवतरद्द्रष्टुमम्बराद्यत्र राघवः॥३॥
शुद्धस्फटिकसङ्काशः शरच्चन्द्र इवामलः।
अतर्कितमुपायातो नारदो दिव्यदर्शनः॥४॥
तं दृष्ट्वा सहसोत्थाय रामः प्रीत्या कृताञ्जलिः।
ननाम शिरसा भूमौ सीतया सह भक्तिमान्॥५॥
उवाच नारदं रामः प्रीत्या परमया युतः।
संसारिणां मुनिश्रेष्ठ दुर्लभं तव दर्शनम्।
अस्माकं विषयासक्तचेतसां नितरां मुने॥६॥
अवाप्तं मे पूर्वजन्मकृतपुण्यमहोदयैः।
संसारिणाऽपि हि मुने लभ्यते सत्समागमः॥७॥
अतस्त्वद्दर्शनादेव कृतार्थोऽस्मि मुनीश्वर।
किं कार्यं ते मया कार्यं ब्रूहि तत्करवाणि भोः॥८॥
अथ तं नारदोऽप्याह राघवं भक्तवत्सलम्।
किं मोहयसि मां राम वाक्यैर्लोकानुसारिभिः॥९॥
संसार्यहमिति प्रोक्तं सत्यमेतत् त्वया विभो।
जगतामादिभूता या सा माया गृहिणी तव॥१०॥
त्वत्सन्निकर्षाज्जायन्ते तस्यां ब्रह्मादयः प्रजाः।
त्वदाश्रया सदा भाति माया या त्रिगुणात्मिका॥११॥
सूतेऽजस्रं शुक्लकृष्णलोहिताः सर्वदा प्रजाः।
लोकत्रयमहागेहे गृहस्थस्त्वमुदाहृतः॥१२॥
त्वं विष्णुर्जानकी लक्ष्मीः शिवस्त्वं जानकी शिवा।
ब्रह्मा त्वं जानकी वाणी सूर्यस्त्वं जानकी प्रभा॥१३॥
भवान् शशाङ्कः सीता तु रोहिणी शुभलक्षणा।
शक्रस्त्वमेव पौलोमी सीता स्वाहानलो भवान्॥१४॥
यमस्त्वं कालरूपश्च सीता संयमिनी प्रभो।
निरृतिस्त्वं जगन्नाथ तामसी जानकी शुभा॥१५॥
राम त्वमेव वरुणो भार्गवी जानकी शुभा।
वायुस्त्वं राम सीता तु सदागतिरितीरिता॥१६॥
कुबेरस्त्वं राम सीता सर्वसम्पत्प्रकीर्तिता।
रुद्राणी जानकी प्रोक्ता रुद्रस्त्वं लोकनाशकृत्॥१७॥
लोके स्त्रीवाचकं यावत्तत्सर्वं जानकी शुभा।
पुन्नामवाचकं यावत्तत्सर्वं त्वं हि राघव॥१८॥
तस्माल्लोकत्रये देव युवाभ्यां नास्ति किञ्चन॥१९॥
त्वदाभासोदिताज्ञानमव्याकृतमितीर्यते।
तस्मान्महान्स्ततः सूत्रं लिङ्गं सर्वात्मकं ततः॥२०॥
अहङ्कारश्च बुद्धिश्च पञ्चप्राणेन्द्रियाणि च।
लिङ्गमित्युच्यते प्राज्ञैर्जन्ममृत्युसुखादिमत्॥२१॥
स एव जीवसंज्ञश्च लोके भाति जगन्मयः।
अवाच्यानाद्यविद्यैव कारणोपाधिरुच्यते॥२२॥
स्थूलं सूक्ष्मं कारणाख्यमुपाधित्रितयं चितेः।
एतैर्विशिष्टो जीवः स्याद्वियुक्तः परमेश्वरः॥२३॥
जाग्रत्स्वप्नसुषुप्त्याख्या संसृतिर्या प्रवर्तते।
तस्या विलक्षणः साक्षी चिन्मात्रस्त्वं रघूत्तम॥२४॥
त्वत्त एव जगज्जातं त्वयि सर्वं प्रतिष्ठितम्।
त्वय्येव लीयते कृत्स्नं तस्मात्त्वं सर्वकारणम्॥२५॥
रज्जावहिमिवात्मानं जीवं ज्ञात्वा भयं भवेत्।
परात्माहमिति ज्ञात्वा भयदुःखैर्विमुच्यते॥२६॥
चिन्मात्रज्योतिषा सर्वाः सर्वदेहेषु बुद्धयः।
त्वया यस्मात्प्रकाश्यन्ते सर्वस्यात्मा ततो भवान्॥२७॥
अज्ञानान्न्यस्यते सर्वं त्वयि रज्जौ भुजङ्गवत्॥२८॥
त्वत्पादभक्तियुक्तानां विज्ञानं भवति क्रमात्।
तस्मात्त्वद्भक्तियुक्ता ये मुक्तिभाजस्त एव हि॥२९॥
अहं त्वद्भक्तभक्तानां तद् भक्तानां च किङ्करः।
अतो मामनुगृह्णीष्व मोहयस्व न मां प्रभो॥३०॥
त्वन्नाभिकमलोत्पन्नो ब्रह्मा मे जनकः प्रभो।
अतस्तवाहं पौत्रोऽस्मि भक्तं मां पाहि राघव॥३१॥
इत्युक्त्वा बहुशो नत्वा स्वानन्दाश्रुपरिप्लुतः।
उवाच वचनं राम ब्रह्मणा नोदितोऽस्म्यहम्॥३२॥
रावणस्य वधार्थाय जातोऽसि रघुसत्तम।
इदानीं राज्यरक्षार्थं पिता त्वामभिषेक्ष्यति॥३३॥
यदि राज्याभिसंसक्तो रावणं न हनिष्यसि।
प्रतिज्ञा ते कृता राम भूभारहरणाय वै॥३४॥
तत्सत्यं कुरु राजेन्द्र सत्यसन्धस्त्वमेव हि।
श्रुत्वैतद्गदितं रामो नारदं प्राह सस्मितम्॥३५॥
शृणु नारद मे किञ्चिद् विद्यतेऽविदितं क्वचित्।
प्रतिज्ञातं च यत्पूर्वं करिष्ये तन्न संशयः॥३६॥
किन्तु कालानुरोधेन तत्तत्प्रारब्धसङ्क्षयात्।
हरिष्ये सर्वभूभारं क्रमेणासुरमण्डलम्॥३७॥
रावणस्य विनाशार्थं श्वो गन्ता दण्डकाननम्।
चतुर्दश समास्तत्र ह्युषित्वा मुनिवेषधृक्॥३८॥
सीतामिषेण तं दुष्टं सकुलं नाशयाम्यहम्।
एवं रामे प्रतिज्ञाते नारदः प्रमुमोद ह॥३९॥
प्रदक्षिणत्रयं कृत्वा दण्डवत्प्रणिपत्य तम्।
अनुज्ञातश्च रामेण ययौ देवगतिं मुनिः॥४०॥
संवादं पठति शृणोति संस्मरेद् वा
यो नित्यं मुनिवररामयोः सभक्त्या।
सम्प्राप्नोत्यमरसुदुर्लभं विमोक्षं
कैवल्यं विरतिपुरःसरं क्रमेण॥४१॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे प्रथमः सर्गः॥
❀