दशमः सर्गः

श्री-महादेव उवाच

लब्ध्वा वरं स गन्धर्वः प्रयास्यन् राममब्रवीत्।
शबर्यास्ते पुरोभागे आश्रमे रघुनन्दन॥१॥
भक्त्या त्वत्पादकमले भक्तिमार्गविशारदा।
तां प्रयाहि महाभाग सर्वं ते कथयिष्यति॥२॥
इत्युक्त्वा प्रययौ सोऽपि विमानेनार्कवर्चसा।
विष्णोः पदं रामनामस्मरणे फलमीदृशम्॥३॥
त्यक्त्वा तद्विपिनं घोरं सिंहव्याघ्रादिदूषितम्।
शनैरथाश्रमपदं शबर्या रघुनन्दनः॥४॥
शबरी राममालोक्य लक्ष्मणेन समन्वितम्।
आयान्तमाराद्धर्षेण प्रत्युत्थायाचिरेण सा॥५॥
पतित्वा पादयोरग्रे हर्षपूर्णाश्रुलोचना।
स्वागतेनाभिनन्द्याथ स्वासने सन्न्यवेशयत्॥६॥
रामलक्ष्मणयोः सम्यक्पादौ प्रक्षाल्य भक्तितः।
तज्जलेनाभिषिच्याङ्गमथार्घ्यादिभिरादृता॥७॥
सम्पूज्य विधिवद्रामं ससौमित्रिं सपर्यया।
सङ्गृहीतानि दिव्यानि रामार्थं शबरी मुदा॥८॥
फलान्यमृतकल्पानि ददौ रामाय भक्तितः।
पादौ सम्पूज्य कुसुमैः सुगन्धैः सानुलेपनैः॥९॥
कृतातिथ्यं रघुश्रेष्ठमुपविष्टं सहानुजम्।
शबरी भक्तिसम्पन्ना प्राञ्जलिर्वाक्यमब्रवीत्॥१०॥
अत्राश्रमे रघुश्रेष्ठ गुरवो मे महर्षयः।
स्थिताः शुश्रूषणं तेषां कुर्वती समुपस्थिता॥११॥
बहुवर्षसहस्राणि गतास्ते ब्रह्मणः पदम्।
गमिष्यन्तोऽब्रुवन्मां त्वं वसात्रैव समाहिता॥१२॥
रामो दाशरथिर्जातः परमात्मा सनातनः।
राक्षसानां वधार्थाय ऋषीणां रक्षणाय च॥१३॥
आगमिष्यति चैकाग्रध्याननिष्ठा स्थिरा भव।
इदानीं चित्रकूटाद्रावाश्रमे वसति प्रभुः॥१४॥
यावदागमनं तस्य तावद्रक्ष कलेवरम्।
दृष्ट्वैव राघवं दग्ध्वा देहं यास्यसि तत्पदम्॥१५॥
तथैवाकरवं राम त्वद्ध्यानैकपरायणा।
प्रतीक्ष्यागमनं तेऽद्य सफलं गुरुभाषितम्॥१६॥
तव सन्दर्शनं राम गुरूणामपि मे न हि।
योषिन्मूढाऽप्रमेयात्मन् हीनजातिसमुद्भवा॥१७॥
तव दासस्य दासानां शतसङ्ख्योत्तरस्य वा।
दासीत्वे नाधिकारोऽस्ति कुतः साक्षात्तवैव हि॥१८॥
कथं रामाद्य मे दृष्टस्त्वं मनोवागगोचरः।
स्तोतुं न जाने देवेश किं करोमि प्रसीद मे॥१९॥

श्रीराम उवाच

पुंस्त्वे स्त्रीत्वे विशेषो वा जातिनामाश्रमादयः।
न कारणं मद्भजने भक्तिरेव हि कारणम्॥२०॥
यज्ञदानतपोभिर्वा वेदाध्ययनकर्मभिः।
नैव द्रष्टुमहं शक्यो मद्भक्तिविमुखैः सदा॥२१॥
तस्माद्भामिनि सङ्क्षेपाद्वक्ष्येऽहं भक्तिसाधनम्॥२२॥
सतां सङ्गतिरेवात्र साधनं प्रथमं स्मृतम्।
द्वितीयं मत्कथालापस्तृतीयं मद्गुणेरणम्।
व्याख्यातृत्वं मद्वचसां चतुर्थं साधनं भवेत्॥२३॥
आचार्योपासनं भद्रे सद्बुद्ध्याऽमायया सदा।
पञ्चमं पुण्यशीलत्वं यमादि नियमादि च॥२४॥
निष्ठा मत्पूजने नित्यं षष्ठं साधनमीरितम्।
मम मन्त्रोपासकत्वं साङ्गं सप्तममुच्यते॥२५॥
मद्भक्तेष्वधिका पूजा सर्वभूतेषु मन्मतिः।
बाह्यार्थेषु विरागित्वं शमादिसहितं तथा॥२६॥
अष्टमं नवमं तत्त्वविचारो मम भामिनि।
एवं नवविधा भक्तिः साधनं यस्य कस्य वा॥२७॥
स्त्रियो वा पुरुषस्यापि तिर्यग्योनिगतस्य वा।
भक्तिः सञ्जायते प्रेमलक्षणा शुभलक्षणे॥२८॥
भक्तौ सञ्जातमात्रायां मत्तत्त्वानुभवस्तदा।
ममानुभवसिद्धस्य मुक्तिस्तत्रैव जन्मनि॥२९॥
स्यात्तस्मात्कारणं भक्तिर्मोक्षस्येति सुनिश्चितम्।
प्रथमं साधनं यस्य भवेत्तस्य क्रमेण तु॥३०॥
भवेत् सर्वं ततो भक्तिर्मुक्तिरेव सुनिश्चितम्।
यस्मान्मद्भक्तियुक्ता त्वं ततोऽहं त्वामुपस्थितः॥३१॥
इतो मद्दर्शनान्मुक्तिस्तव नास्त्यत्र संशयः।
यदि जानासि मे ब्रूहि सीता कमललोचना॥३२॥
कुत्रास्ते केन वा नीता प्रिया मे प्रियदर्शना॥३३॥

शबर्युवाच

देव जानासि सर्वज्ञ सर्वं त्वं विश्वभावन।
तथाऽपि पृच्छसे यन्मां लोकाननुसृतः प्रभो॥३४॥
ततोऽहमभिधास्यामि सीता यत्राधुना स्थिता।
रावणेन हृता सीता लङ्कायां वर्ततेऽधुना॥३५॥
इतः समीपे रामाऽऽस्ते पम्पानाम सरोवरम्।
ऋष्यमूकगिरिर्नाम तत्समीपे महानगः॥३६॥
चतुर्भिर्मन्त्रिभिः सार्धं सुग्रीवो वानराधिपः।
भीतभीतः सदा यत्र तिष्ठत्यतुलविक्रमः॥३७॥
वालिनश्च भयाद् भ्रातुस्तदगम्यमृषेर्भयात्।
वालिनस्तत्र गच्छ त्वं तेन सख्यं कुरु प्रभो॥३८॥
सुग्रीवेण स सर्वं ते कार्यं सम्पादयिष्यति।
अहमग्निं प्रवेक्ष्यामि तवाग्रे रघुनन्दन॥३९॥
मुहूर्तं तिष्ठ राजेन्द्र यावद्दग्ध्वा कलेवरम्।
यास्यामि भगवन् राम तव विष्णोः परं पदम्॥४०॥
इति रामं समामन्त्र्य प्रविवेश हुताशनम्।
क्षणान्निर्धूय सकलमविद्याकृतबन्धनम्।
रामप्रसादाच्छबरी मोक्षं प्रापातिदुर्लभम्॥४१॥
किं दुर्लभं जगन्नाथे श्रीरामे भक्तवत्सले।
प्रसन्नेऽधमजन्माऽपि शबरी मुक्तिमाप सा॥४२॥
किं पुनर्ब्राह्मणा मुख्याः पुण्याः श्रीरामचिन्तकाः।
मुक्तिं यान्तीति तद्भक्तिर्मुक्तिरेव न संशयः॥४३॥
भक्तिर्मुक्तिविधायिनी भगवतः श्रीरामचन्द्रस्य हे
लोकाः कामदुघाङ्घ्रिपद्मयुगलं सेवध्वमत्युत्सुकाः।
नानाज्ञानविशेषमन्त्रविततिं त्यक्त्वा सुदूरे भृशं
रामं श्यामतनुं स्मरारिहृदये भान्तं भजध्वं बुधाः॥४४॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अरण्यकाण्डे दशमः सर्गः॥

इति श्रीमदध्यात्मरामायणे अरण्यकाण्डः समाप्तः॥

❀ ❀ ❀