नवमः सर्गः

श्री-महादेव उवाच

ततो रामो लक्ष्मणेन जगाम विपिनान्तरम्।
पुनर्दुःखं समाश्रित्य सीतान्वेषणतत्परः॥१॥
तत्राद्भुतसमाकारो राक्षसः प्रत्यदृश्यत।
वक्षस्येव महावक्त्रश्चक्षुरादिविवर्जितः॥२॥
बाहू योजनमात्रेण व्यापृतौ तस्य रक्षसः।
कबन्धो नाम दैत्येन्द्रः सर्वसत्त्वविहिंसकः॥३॥
तद्बाह्वोर्मध्यदेशे तौ चरन्तौ रामलक्ष्मणौ।
ददर्शतुर्महासत्त्वं तद्बाहुपरिवेष्टितौ॥४॥
रामः प्रोवाच विहसन् पश्य लक्ष्मण राक्षसम्।
शिरःपादविहीनोऽयं यस्य वक्षसि चाननम्॥५॥
बाहुभ्यां लभ्यते यद्यत्तत्तद् भक्षन् स्थितो ध्रुवम्।
आवामप्येतयोर्बाह्वोर्मध्ये सङ्कलितौ ध्रुवम्॥६॥
गन्तुमन्यत्र मार्गो न दृश्यते रघुनन्दन।
किं कर्तव्यमितोऽस्माभिरिदानीं भक्षयेत्स नौ॥७॥
लक्ष्मणस्तमुवाचेदं किं विचारेण राघव।
आवामेकैकमव्यग्रौ छिन्द्यावास्य भुजौ ध्रुवम्॥८॥
तथेति रामः खड्गेन भुजं दक्षिणमच्छिनत्।
तथैव लक्ष्मणो वामं चिच्छेद भुजमञ्जसा॥९॥
ततोऽतिविस्मितो दैत्यः कौ युवां सुरपुङ्गवौ।
मद्बाहुच्छेदकौ लोके दिवि देवेषु वा कुतः॥१०॥
ततोऽब्रवीद् धसन्नेव रामो राजीवलोचनः।
अयोध्याधिपतिः श्रीमान् राजा दशरथो महान्॥११॥
रामोऽहं तस्य पुत्रोऽसौ भ्राता मे लक्ष्मणः सुधीः।
मम भार्या जनकजा सीता त्रैलोक्यसुन्दरी॥१२॥
आवां मृगयया यातौ तदा केनापि रक्षसा।
नीतां सीतां विचिन्वन्तौ चागतौ घोरकानने॥१३॥
बाहुभ्यां वेष्टितावत्र तव प्राणरिरक्षया।
छिन्नौ तव भुजौ त्वं च को वा विकटरूपधृक्॥१४॥

कबन्ध उवाच

धन्योऽहं यदि रामस्त्वमागतोऽसि ममान्तिकम्।
पुरा गन्धर्वराजोऽहं रूपयौवनदर्पितः॥१५॥
विचरन्ल्लोकमखिलं वरनारीमनोहरः।
तपसा ब्रह्मणो लब्धमवध्यत्वं रघूत्तम॥१६॥
अष्टावक्रं मुनिं दृष्ट्वा कदाचिदहसं पुरा।
क्रुद्धोऽसावाह दुष्ट त्वं राक्षसो भव दुर्मते॥१७॥
अष्टावक्रः पुनः प्राह वन्दितो मे दयापरः।
शापस्यान्तं च मे प्राह तपसा द्योतितप्रभः॥१८॥
त्रेतायुगे दाशरथिर्भूत्वा नारायणः स्वयम्।
आगमिष्यति ते बाहू छिद्येते योजनायतौ॥१९॥
तेन शापाद्विनिर्मुक्तो भविष्यसि यथा पुरा।
इति शप्तोऽहमद्राक्षं राक्षसीं तनुमात्मनः॥२०॥
कदाचिद् देवराजानमभ्यद्रवमहं रुषा।
सोऽपि वज्रेण मां राम शिरोदेशेऽभ्यताडयत्॥२१॥
तदा शिरो गतं कुक्षिं पादौ च रघुनन्दन।
ब्रह्मदत्तवरान्मृत्युर्नाभून्मे वज्रताडनात्॥२२॥
मुखाभावे कथं जीवेदयमित्यमराधिपम्।
ऊचुः सर्वे दयाविष्टा मां विलोक्याऽऽस्यवर्जितम्॥२३॥
ततो मां प्राह मघवा जठरे ते मुखं भवेत्।
बाहू ते योजनायामौ भविष्यत इतो व्रज॥२४॥
इत्युक्तोऽत्र वसन्नित्यं बाहुभ्यां वनगोचरान्।
भक्षयाम्यधुना बाहू खण्डितौ मे त्वयाऽनघ॥२५॥
इतः परं मां श्वभ्रास्ये निक्षिपाग्नीन्धनावृते।
अग्निना दह्यमानोऽहं त्वया रघुकुलोत्तम॥२६॥
पूर्वरूपमनुप्राप्य भार्यामार्गं वदामि ते॥२७॥
इत्युक्ते लक्ष्मणेनाशु श्वभ्रं निर्मित्य तत्र तम्।
निक्षिप्य प्रादहत्काष्ठैस्ततो देहात्समुत्थितः।
कन्दर्पसदृशाकारः सर्वाभरणभूषितः॥२८॥
रामं प्रदक्षिणं कृत्वा साष्टाङ्गं प्रणिपत्य च।
कृताञ्जलिरुवाचेदं भक्तिगद्गदया गिरा॥२९॥

गन्धर्व उवाच

स्तोतुमुत्सहते मेऽद्य मनो रामातिसम्भ्रमात्।
त्वामनन्तमनाद्यन्तं मनोवाचामगोचरम्॥३०॥
सूक्ष्मं ते रूपमव्यक्तं देहद्वयविलक्षणम्।
दृग्रूपमितरत्सर्वं दृश्यं जडमनात्मकम्।
तत्कथं त्वां विजानीयाद्व्यतिरिक्तं मनः प्रभो॥३१॥
बुद्ध्यात्माभासयोरैक्यं जीव इत्यभिधीयते।
बुद्ध्यादि साक्षी ब्रह्मैव तस्मिन्निर्विषयेऽखिलम्॥३२॥
आरोप्यतेऽज्ञानवशान्निर्विकारेऽखिलात्मनि।
हिरण्यगर्भस्ते सूक्ष्मं देहं स्थूलं विराट् स्मृतम्॥३३॥
भावनाविषयो राम सूक्ष्मं ते ध्यातृमङ्गलम्।
भूतं भव्यं भविष्यच्च यत्रेदं दृश्यते जगत्॥३४॥
स्थूलेऽण्डकोशे देहे ते महदादिभिरावृते।
सप्तभिरुत्तरगुणैर्वैराजो धारणाश्रयः॥३५॥
त्वमेव सर्वकैवल्यं लोकास्तेऽवयवाः स्मृताः।
पातालं ते पादमूलं पार्ष्णिस्तव महातलम्॥३६॥
रसातलं ते गुल्फौ तु तलातलमितीर्यते।
जानुनी सुतलं राम ऊरू ते वितलं तथा॥३७॥
अतलं च मही राम जघनं नाभिगं नभः।
उरःस्थलं ते ज्योतींषि ग्रीवा ते मह उच्यते॥३८॥
वदनं जनलोकस्ते तपस्ते शङ्खदेशगम्।
सत्यलोको रघुश्रेष्ठ शीर्षण्यास्ते सदा प्रभो॥३९॥
इन्द्रादयो लोकपाला बाहवस्ते दिशः श्रुती।
अश्विनौ नासिके राम वक्त्रं तेऽग्निरुदाहृतः॥४०॥
चक्षुस्ते सविता राम मनश्चन्द्र उदाहृतः।
भ्रूभङ्ग एव कालस्ते बुद्धिस्ते वाक्पतिर्भवेत्॥४१॥
रुद्रोऽहङ्काररूपस्ते वाचश्छन्दांसि तेऽव्यय।
यमस्ते दंष्ट्रदेशस्थो नक्षत्राणि द्विजालयः॥४२॥
हासो मोहकरी माया सृष्टिस्तेऽपाङ्गमोक्षणम्।
धर्मः पुरस्तेऽधर्मश्च पृष्ठभाग उदीरितः॥४३॥
निमिषोन्मेषणे रात्रिर्दिवा चैव रघूत्तम।
समुद्राः सप्त ते कुक्षिर्नाड्यो नद्यस्तव प्रभो॥४४॥
रोमाणि वृक्षौषधयो रेतो वृष्टिस्तव प्रभो।
महिमा ज्ञानशक्तिस्ते एवं स्थूलं वपुस्तव॥४५॥
यदस्मिन् स्थूलरूपे ते मनः सन्धार्यते नरैः।
अनायासेन मुक्तिः स्यादतोऽन्यन्नहि किञ्चन॥४६॥
अतोऽहं राम रूपं ते स्थूलमेवानुभावये।
यस्मिन् ध्याते प्रेमरसः सरोमपुलको भवेत्॥४७॥
तदैव मुक्तिः स्याद्राम यदा ते स्थूलभावकः।
तदप्यास्तां तवैवाहमेतद्रूपं विचिन्तये॥४८॥
धनुर्बाणधरं श्यामं जटावल्कलभूषितम्।
अपीच्यवयसं सीतां विचिन्वन्तं सलक्ष्मणम्॥४९॥
इदमेव सदा मे स्यान्मानसे रघुनन्दन॥५०॥
सर्वज्ञः शङ्करः साक्षात्पार्वत्या सहितः सदा।
त्वद्रूपमेव सततं ध्यायन्नास्ते रघूत्तम।
मुमूर्षूणां तदा काश्यां तारकं ब्रह्मवाचकम्॥५१॥
रामरामेत्युपदिशन् सदा सन्तुष्टमानसः।
अतस्त्वं जानकीनाथ परमात्मा सुनिश्चितः॥५२॥
सर्वे ते मायया मूढास्त्वां न जानन्ति तत्त्वतः।
नमस्ते रामभद्राय वेधसे परमात्मने॥५३॥
अयोध्याधिपते तुभ्यं नमः सौमित्रिसेवित।
त्राहि त्राहि जगन्नाथ मां माया नावृणोतु ते॥५४॥

श्रीराम उवाच

तुष्टोऽहं देवगन्धर्व भक्त्या स्तुत्या च तेऽनघ।
याहि मे परमं स्थानं योगिगम्यं सनातनम्॥५५॥
जपन्ति ये नित्यमनन्यबुद्ध्या
भक्त्या त्वदुक्तं स्तवमागमोक्तम्।
तेऽज्ञानसम्भूतभवं विहाय
मां यान्ति नित्यानुभवानुमेयम्॥५६॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अरण्यकाण्डे नवमः सर्गः॥