अष्टमः सर्गः
श्री-महादेव उवाच
रामो मायाविनं हत्वा राक्षसं कामरूपिणम्।
प्रतस्थे स्वाश्रमं गन्तुं ततो दूराद्ददर्श तम्॥१॥
आयान्तं लक्ष्मणं दीनं मुखेन परिशुष्यता।
राघवश्चिन्तयामास स्वात्मन्येव महामतिः॥२॥
लक्ष्मणस्तन्न जानाति मायासीतां मया कृताम्।
ज्ञात्वाऽप्येनं वञ्चयित्वा शोचामि प्राकृतो यथा॥३॥
यद्यहं विरतो भूत्वा तूष्णीं स्थास्यामि मन्दिरे।
तदा राक्षसकोटीनां वधोपायः कथं भवेत्॥४॥
यदि शोचामि तां दुःखसन्तप्तः कामुको यथा।
तदा क्रमेणानुचिन्वन् सीतां यास्येऽसुरालयम्।
रावणं सकुलं हत्वा सीतामग्नौ स्थितां पुनः॥५॥
मयैव स्थापितां नीत्वा यातायोध्यामतन्द्रितः॥६॥
अहं मनुष्यभावेन जातोऽस्मि ब्रह्मणार्थितः।
मनुष्यभावमापन्नः किञ्चित्कालं वसामि कौ।
ततो मायामनुष्यस्य चरितं मेऽनुशृण्वताम्॥७॥
मुक्तिः स्यादप्रयासेन भक्तिमार्गानुवर्तिनाम्।
निश्चित्यैवं तदा दृष्ट्वा लक्ष्मणं वाक्यमब्रवीत्॥८॥
किमर्थमागतोऽसि त्वं सीतां त्यक्त्वा मम प्रियाम्।
नीता वा भक्षिता वाऽपि राक्षसैर्जनकात्मजा॥९॥
लक्ष्मणः प्राञ्जलिः प्राह सीताया दुर्वचो रुदन्।
हा लक्ष्मणेति वचनं राक्षसोक्तं श्रुतं तया॥१०॥
त्वद्वाक्यसदृशं श्रुत्वा मां गच्छेति त्वराब्रवीत्।
रुदन्ती सा मया प्रोक्ता देवि राक्षसभाषितम्।
नेदं रामस्य वचनं स्वस्था भव शुचिस्मिते॥११॥
इत्येवं सान्त्विता साध्वी मया प्रोवाच मां पुनः।
यदुक्तं दुर्वचो राम न वाच्यं पुरतस्तव॥१२॥
कर्णौ पिधाय निर्गत्य यातोऽहं त्वां समीक्षितुम्॥१३॥
रामस्तु लक्ष्मणं प्राह तथाऽप्यनुचितं कृतम्।
त्वया स्त्रीभाषितं सत्यं कृत्वा त्यक्ता शुभानना।
नीता वा भक्षिता वाऽपि राक्षसैर्नात्र संशयः॥१४॥
इति चिन्तापरो रामः स्वाश्रमं त्वरितो ययौ।
तत्रादृष्ट्वा जनकजां विललापातिदुःखितः॥१५॥
हा प्रिये क्व गतासि त्वं नासि पूर्ववदाश्रमे।
अथवा मद्विमोहार्थं लीलया क्व विलीयसे॥१६॥
इत्याचिन्वन् वनं सर्वं नापश्यज्जानकीं तदा।
वनदेव्यः कुतः सीतां ब्रुवन्तु मम वल्लभाम्॥१७॥
मृगाश्च पक्षिणो वृक्षा दर्शयन्तु मम प्रियाम्।
इत्येवं विलपन्नेव रामः सीतां न कुत्रचित्॥१८॥
सर्वज्ञः सर्वथा क्वापि नापश्यद् रघुनन्दनः।
आनन्दोऽप्यन्वशोचत्तामचलोऽप्यनुधावति॥१९॥
निर्ममो निरहङ्कारोऽप्यखण्डानन्दरूपवान्।
मम जायेति सीतेति विललापातिदुःखितः॥२०॥
एवं मायामनुचरन्नसक्तोऽपि रघूत्तमः।
आसक्त इव मूढानां भाति तत्त्वविदां न हि॥२१॥
एवं विचिन्वन् सकलं वनं रामः सलक्ष्मणः।
भग्नं रथं छत्रचापं कूबरं पतितं भुवि॥२२॥
दृष्ट्वा लक्ष्मणमाहेदं पश्य लक्ष्मण केनचित्।
नीयमानां जनकजां तं जित्वाऽन्यो जहार ताम्॥२३॥
ततः कञ्चिद्भुवो भागं गत्वा पर्वतसन्निभम्।
रुधिराक्तवपुर्दृष्ट्वा रामो वाक्यमथाब्रवीत्॥२४॥
एष वै भक्षयित्वा तां जानकीं शुभदर्शनाम्।
शेते विविक्तेऽतितृप्तः पश्य हन्मि निशाचरम्॥२५॥
चापमानय शीघ्रं मे बाणं च रघुनन्दन।
तच्छ्रुत्वा रामवचनं जटायुः प्राह भीतवत्॥२६॥
मां न मारय भद्रं ते म्रियमाणं स्वकर्मणा।
अहं जटायुस्ते भार्याहारिणं समनुद्रुतः॥२७॥
रावणं तत्र युद्धं मे बभूवारिविमर्दन।
तस्य वाहान् रथं चापं छित्त्वाऽहं तेन घातितः॥२८॥
पतितोऽस्मि जगन्नाथ प्राणान्स्त्यक्ष्यामि पश्य माम्।
तच्छ्रुत्वा राघवो दीनं कण्ठप्राणं ददर्श ह॥२९॥
हस्ताभ्यां संस्पृशन् रामो दुःखाश्रुवृतलोचनः॥३०॥
जटायो ब्रूहि मे भार्या केन नीता शुभानना।
मत्कार्यार्थं हतोऽसि त्वमतो मे प्रियबान्धवः॥३१॥
जटायुः सन्नया वाचा वक्त्राद्रक्तं समुद्वमन्।
उवाच रावणो राम राक्षसो भीमविक्रमः॥३२॥
आदाय मैथिलीं सीतां दक्षिणाभिमुखो ययौ।
इतो वक्तुं न मे शक्तिः प्राणान्स्त्यक्ष्यामि तेऽग्रतः॥३३॥
दिष्ट्या दृष्टोऽसि राम त्वं म्रियमाणेन मेऽनघ।
परमात्मासि विष्णुस्त्वं मायामनुजरूपधृक्॥३४॥
अन्तकालेऽपि दृष्ट्वा त्वां मुक्तोऽहं रघुसत्तम।
हस्ताभ्यां स्पृश मां राम पुनर्यास्यामि ते पदम्॥३५॥
तथेति रामः पस्पर्श तदङ्गं पाणिना स्मयन्।
ततः प्राणान् परित्यज्य जटायुः पतितो भुवि॥३६॥
रामस्तमनुशोचित्वा बन्धुवत् साश्रुलोचनः।
लक्ष्मणेन समानाय्य काष्ठानि प्रददाह॥३७॥
स्नात्वा दुःखेन रामोऽपि लक्ष्मणेन समन्वितः।
हत्वा वने मृगं तत्र मांसखण्डान् समन्ततः॥३८॥
शाद्वले प्राक्षिपद्रामः पृथक् पृथगनेकधा।
भक्षन्तु पक्षिणः सर्वे तृप्तो भवतु पक्षिराट्॥३९॥
इत्युक्त्वा राघवः प्राह जटायो गच्छ मत्पदम्।
मत्सारूप्यं भजस्वाद्य सर्वलोकस्य पश्यतः॥४०॥
ततोऽनन्तरमेवासौ दिव्यरूपधरः शुभः।
विमानवरमारुह्य भास्वरं भानुसन्निभम्॥४१॥
शङ्खचक्रगदापद्मकिरीटवरभूषणैः।
द्योतयन् स्वप्रकाशेन पीताम्बरधरोऽमलः॥४२॥
चतुर्भिः पार्षदैर्विष्णोस्तादृशैरभिपूजितः।
स्तूयमानो योगिगणैः राममाभाष्य सत्वरः।
कृताञ्जलिपुटो भूत्वा तुष्टाव रघुनन्दनम्॥४३॥
जटायुरुवाच
अगणितगुणमप्रमेयमाद्यं
सकलजगत्स्थितिसंयमादिहेतुम्।
उपरमपरमं परात्मभूतं
सततमहं प्रणतोऽस्मि रामचन्द्रम्॥४४॥
निरवधिसुखमिन्दिराकटाक्षं
क्षपितसुरेन्द्रचतुर्मुखादिदुःखम्।
नरवरमनिशं नतोऽस्मि रामं
वरदमहं वरचापबाणहस्तम्॥४५॥
त्रिभुवनकमनीयरूपमीड्यं
रविशतभासुरमीहितप्रदानम्।
शरणदमनिशं सुरागमूले
कृतनिलयं रघुनन्दनं प्रपद्ये॥४६॥
भवविपिनदवाग्निनामधेयं
भवमुखदैवतदैवतं दयालुम्।
दनुजपतिसहस्रकोटिनाशं
रवितनयासदृशं हरिं प्रपद्ये॥४७॥
अविरतभवभावनातिदूरं
भवविमुखैर्मुनिभिः सदैव दृश्यम्।
भवजलधिसुतारणाङ्घ्रिपोतं
शरणमहं रघुनन्दनं प्रपद्ये॥४८॥
गिरिशगिरिसुतामनोनिवासं
गिरिवरधारिणमीहिताभिरामम्।
सुरवरदनुजेन्द्रसेविताङ्घ्रिं
सुरवरदं रघुनायकं प्रपद्ये॥४९॥
परधनपरदारवर्जितानां
परगुणभूतिषु तुष्टमानसानाम्।
परहितनिरतात्मनां सुसेव्यं
रघुवरमम्बुजलोचनं प्रपद्ये॥५०॥
स्मितरुचिरविकासिताननाब्ज-
मतिसुलभं सुरराजनीलनीलम्।
सितजलरुहचारुनेत्रशोभं
रघुपतिमीशगुरोर्गुरुं प्रपद्ये॥५१॥
हरिकमलजशम्भुरूपभेदात्
त्वमिह विभासि गुणत्रयानुवृत्तः।
रविरिव जलपूरितोदपात्रे-
ष्वमरपतिस्तुतिपात्रमीशमीडे॥५२॥
रतिपतिशतकोटिसुन्दराङ्गं
शतपथगोचरभावनाविदूरम्।
यतिपतिहृदये सदा विभातं
रघुपतिमार्तिहरं प्रभुं प्रपद्ये॥५३॥
इत्येवं स्तुवतस्तस्य प्रसन्नोऽभूद् रघूत्तमः।
उवाच गच्छ भद्रं ते मम विष्णोः परं पदम्॥५४॥
शृणोति य इदं स्तोत्रं लिखेद् वा नियतः पठेत्।
स याति मम सारूप्यं मरणे मत्स्मृतिं लभेत्॥५५॥
इति राघवभाषितं तदा
श्रुतवान् हर्षसमाकुलो द्विजः।
रघुनन्दनसाम्यमास्थितः
प्रययौ ब्रह्मसुपूजितं पदम्॥५६॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अरण्यकाण्डे अष्टमः सर्गः॥
❀