सप्तमः सर्गः
श्री-महादेव उवाच
अथ रामोऽपि तत्सर्वं ज्ञात्वा रावणचेष्टितम्।
उवाच सीतामेकान्ते शृणु जानकि मे वचः॥१॥
रावणो भिक्षुरूपेण आगमिष्यति तेऽन्तिकम्।
त्वं तु छायां त्वदाकारां स्थापयित्वोटजे विश॥२॥
अग्नावदृश्यरूपेण वर्षं तिष्ठ ममाऽऽज्ञया।
रावणस्य वधान्ते मां पूर्ववत्प्राप्स्यसे शुभे॥३॥
श्रुत्वा रामोदितं वाक्यं साऽपि तत्र तथाऽकरोत्।
मायासीतां बहिः स्थाप्य स्वयमन्तर्दधेऽनले॥४॥
मायासीता तदाऽपश्यन्मृगं मायाविनिर्मितम्।
हसन्ती राममभ्येत्य प्रोवाच विनयान्विता॥५॥
पश्य राम मृगं चित्रं कानकं रत्नभूषितम्।
विचित्रबिन्दुभिर्युक्तं चरन्तमकुतोभयम्।
बद्ध्वा देहि मम क्रीडामृगो भवतु सुन्दरः॥६॥
तथेति धनुरादाय गच्छन् लक्ष्मणमब्रवीत्।
रक्ष त्वमतियत्नेन सीतां मत्प्राणवल्लभाम्॥७॥
मायिनः सन्ति विपिने राक्षसा घोरदर्शनाः।
अतोऽत्रावहितः साध्वीं रक्ष सीतामनिन्दिताम्॥८॥
लक्ष्मणो राममाहेदं देवायं मृगरूपधृक्।
मारीचोऽत्र न सन्देह एवम्भूतो मृगः कुतः॥९॥
श्रीराम उवाच
यदि मारीच एवायं तदा हन्मि न संशयः।
मृगश्चेदानयिष्यामि सीताविश्रमहेतवे॥१०॥
गमिष्यामि मृगं बद्ध्वा ह्यानयिष्यामि सत्वरः।
त्वं प्रयत्नेन सन्तिष्ठ सीतासंरक्षणोद्यतः॥११॥
इत्युक्त्वा प्रययौ रामो मायामृगमनुद्रुतः।
माया यदाश्रया लोकमोहिनी जगदाकृतिः॥१२॥
निर्विकारश्चिदात्माऽपि पूर्णोऽपि मृगमन्वगात्।
भक्तानुकम्पी भगवानिति सत्यं वचो हरिः॥१३॥
कर्तुं सीताप्रियार्थाय जानन्नपि मृगं ययौ।
अन्यथा पूर्णकामस्य रामस्य विदितात्मनः॥१४॥
मृगेण वा स्त्रिया वाऽपि किं कार्यं परमात्मनः॥१५॥
कदाचिद् दृश्यतेऽभ्याशे क्षणं धावति लीयते।
दृश्यते च ततो दूरादेवं राममपाहरत्।
ततो रामोऽपि विज्ञाय राक्षसोऽयमिति स्फुटम्॥१६॥
विव्याध शरमादाय राक्षसं मृगरूपिणम्।
पपात रुधिराक्तास्यो मारीचः पूर्वरूपधृक्॥१७॥
हा हतोऽस्मि महाबाहो त्राहि लक्ष्मण मां द्रुतम्।
इत्युक्त्वा रामवद् वाचा पपात रुधिराशनः॥१८॥
यन्नामाज्ञोऽपि मरणे स्मृत्वा तत्साम्यमाप्नुयात्।
किमुताग्रे हरिं पश्यन्स्तेनैव निहतोऽसुरः॥१९॥
तद्देहादुत्थितं तेजः सर्वलोकस्य पश्यतः।
राममेवाविशद् देवा विस्मयं परमं ययुः॥२०॥
किं कर्म कृत्वा किं प्राप्तः पातकी मुनिहिंसकः।
अथवा राघवस्यायं महिमा नात्र संशयः॥२१॥
रामबाणेन संविद्धः पूर्वं राममनुस्मरन्।
भयात्सर्वं परित्यज्य गृहवित्तादिकं च यत्॥२२॥
हृदि रामं सदा ध्यात्वा निर्धूताशेषकल्मषः।
अन्ते रामेण निहतः पश्यन् राममवाप सः॥२३॥
द्विजो वा राक्षसो वाऽपि पापी वा धार्मिकोऽपि वा।
त्यजन् कलेवरं रामं स्मृत्वा याति परं पदम्॥२४॥
इति तेऽन्योन्यमाभाष्य ततो देवा दिवं ययुः।
रामस्तच्चिन्तयामास म्रियमाणोऽसुराधमः॥२५॥
हा लक्ष्मणेति मद्वाक्यमनुकुर्वन् ममार किम्।
श्रुत्वा मद्वाक्यसदृशं वाक्यं सीताऽपि किं भवेत्॥२६॥
इति चिन्तापरीतात्मा रामो दूरान्न्यवर्तत।
सीता तद् भाषितं श्रुत्वा मारीचस्य दुरात्मनः॥२७॥
भीतातिदुःखसंविग्ना लक्ष्मणं त्विदमब्रवीत्।
गच्छ लक्ष्मण वेगेन भ्राता तेऽसुरपीडितः॥२८॥
हा लक्ष्मणेति वचनं भ्रातुस्ते न शृणोषि किम्।
तामाह लक्ष्मणो देवि रामवाक्यं न तद्भवेत्॥२९॥
यः कश्चिद्राक्षसो देवि म्रियमाणोऽब्रवीद् वचः।
रामस्त्रैलोक्यमपि यः क्रुद्धो नाशयति क्षणात्॥३०॥
स कथं दीनवचनं भाषतेऽमरपूजितः।
क्रुद्धा लक्ष्मणमालोक्य सीता बाष्पविलोचना॥३१॥
प्राह लक्ष्मण दुर्बुद्धे भ्रातुर्व्यसनमिच्छसि।
प्रेषितो भरतेनैव रामनाशाभिकाङ्क्षिणा॥३२॥
मां नेतुमागतोऽसि त्वं रामनाश उपस्थिते।
न प्राप्स्यसे त्वं मामद्य पश्य प्राणान्स्त्यजाम्यहम्॥३३॥
न जानातीदृशं रामस्त्वां भार्याहरणोद्यतम्।
रामादन्यं न स्पृशामि त्वां वा भरतमेव वा॥३४॥
इत्युक्त्वा वध्यमाना सा स्वबाहुभ्यां रुरोद ह।
तच्छ्रुत्वा लक्ष्मणः कर्णौ पिधायातीव दुःखितः॥३५॥
मामेवं भाषसे चण्डि धिक् त्वां नाशमुपैष्यसि।
इत्युक्त्वा वनदेवीभ्यः समर्प्य जनकात्मजाम्॥३६॥
ययौ दुःखातिसंविग्नो राममेव शनैः शनैः।
ततोऽन्तरं समालोक्य रावणो भिक्षुवेषधृक्॥३७॥
सीतासमीपमगमत् स्फुरद्दण्डकमण्डलुः।
सीता तमवलोक्याऽऽशु नत्वा सम्पूज्य भक्तितः॥३८॥
कन्दमूलफलादीनि दत्त्वा स्वागतमब्रवीत्।
मुने भुङ्क्ष्व फलादीनि विश्रमस्व यथासुखम्॥३९॥
इदानीमेव भर्ता मे ह्यागमिष्यति ते प्रियम्।
करिष्यति विशेषेण तिष्ठ त्वं यदि रोचते॥४०॥
भिक्षुरुवाच
का त्वं कमलपत्राक्षि को वा भर्ता तवानघे।
किमर्थमत्र ते वासो वने राक्षससेविते।
ब्रूहि भद्रे ततः सर्वं स्ववृत्तान्तं निवेदये॥४१॥
सीतोवाच
अयोध्याधिपतिः श्रीमान् राजा दशरथो महान्।
तस्य ज्येष्ठः सुतो रामः सर्वलक्षणलक्षितः॥४२॥
तस्याहं धर्मतः पत्नी सीता जनकनन्दिनी।
तस्य भ्राता कनीयान्श्च लक्ष्मणो भ्रातृवत्सलः॥४३॥
पितुराज्ञां पुरस्कृत्य दण्डके वस्तुमागतः।
चतुर्दश समास्त्वां तु ज्ञातुमिच्छामि मे वद॥४४॥
भिक्षुरुवाच
पौलस्त्यतनयोऽहं तु रावणो राक्षसाधिपः।
त्वत्कामपरितप्तोऽहं त्वां नेतुं पुरमागतः॥४५॥
मुनिवेषेण रामेण किं करिष्यसि मां भज।
भुङ्क्ष्व भोगान् मया सार्धं त्यज दुःखं वनोद्भवम्॥४६॥
श्रुत्वा तद्वचनं सीता भीता किञ्चिदुवाच तम्।
यद्येवं भाषसे मां त्वं नाशमेष्यसि राघवात्॥४७॥
आगमिष्यति रामोऽपि क्षणं तिष्ठ सहानुजः।
मां को धर्षयितुं शक्तो हरेर्भार्यां शशो यथा॥४८॥
रामबाणैर्विभिन्नस्त्वं पतिष्यसि महीतले॥४९॥
इति सीतावचः श्रुत्वा रावणः क्रोधमूर्च्छितः।
स्वरूपं दर्शयामास महापर्वतसन्निभम्।
दशास्यं विंशतिभुजं कालमेघसमद्युतिम्॥५०॥
तद्दृष्ट्वा वनदेव्यश्च भूतानि च वितत्रसुः।
ततो विदार्य धरणीं नखैरुद्धृत्य बाहुभिः॥५१॥
तोलयित्वा रथे क्षिप्त्वा ययौ क्षिप्रं विहायसा।
हा राम हा लक्ष्मणेति रुदती जनकात्मजा॥५२॥
भयोद्विग्नमना दीना पश्यन्ती भुवमेव सा।
श्रुत्वा तत्क्रन्दितं दीनं सीतायाः पक्षिसत्तमः॥५३॥
जटायुरुत्थितः शीघ्रं नगाग्रात्तीक्ष्णतुण्डकः।
तिष्ठ तिष्ठेति तं प्राह को गच्छति ममाग्रतः॥५४॥
मुषित्वा लोकनाथस्य भार्यां शून्याद्वनालयात्।
शुनको मन्त्रपूतं त्वं पुरोडाशमिवाध्वरे॥५५॥
इत्युक्त्वा तीक्ष्णतुण्डेन चूर्णयामास तद्रथम्।
वाहान् बिभेद पादाभ्यां चूर्णयामास तद्धनुः॥५६॥
ततः सीतां परित्यज्य रावणः खड्गमाददे।
चिच्छेद पक्षौ सामर्षः पक्षिराजस्य धीमतः॥५७॥
पपात किञ्चिच्छेषेण प्राणेन भुवि पक्षिराट्।
पुनरन्यरथेनाशु सीतामादाय रावणः॥५८॥
क्रोशन्ती रामरामेति त्रातारं नाधिगच्छति।
हा राम हा जगन्नाथ मां न पश्यसि दुःखिताम्॥५९॥
रक्षसा नीयमानां स्वां भार्यां मोचय राघव।
हा लक्ष्मण महाभाग त्राहि मामपराधिनीम्॥६०॥
वाकःशरेण हतस्त्वं मे क्षन्तुमर्हसि देवर।
इत्येवं क्रोशमानां तां रामागमनशङ्कया॥६१॥
जगाम वायुवेगेन सीतामादाय सत्वरः॥६२॥
विहायसा नीयमाना सीतापश्यदधोमुखी।
पर्वताग्रे स्थितान् पञ्च वानरान् वारिजानना।
उत्तरीयार्धखण्डेन विमुच्याभरणादिकम्॥६३॥
बद्ध्वा चिक्षेप रामाय कथयन्त्विति पर्वते॥६४॥
ततः समुद्रमुल्लङ्घ्य लङ्कां गत्वा स रावणः।
स्वान्तःपुरे रहस्ये तामशोकविपिनेऽक्षिपत्।
राक्षसीभिः परिवृतां मातृबुद्ध्यान्वपालयत्॥६५॥
कृशाऽतिदीना परिकर्मवर्जिता
दुःखेन शुष्यद्वदनाऽतिविह्वला।
हा राम रामेति विलप्यमाना
सीता स्थिता राक्षसवृन्दमध्ये॥६६॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अरण्यकाण्डे सप्तमः सर्गः॥
❀