षष्ठः सर्गः
विचिन्त्यैवं निशायां स प्रभाते रथमास्थितः।
रावणो मनसा कार्यमेकं निश्चित्य बुद्धिमान्॥१॥
ययौ मारीचसदनं परं पारमुदन्वतः।
मारीचस्तत्र मुनिवज्जटावल्कलधारकः॥२॥
ध्यायन् हृदि परात्मानं निर्गुणं गुणभासकम्।
समाधिविरमेऽपश्यद्रावणं गृहमागतम्॥३॥
द्रुतमुत्थाय चालिङ्ग्य पूजयित्वा यथाविधि।
कृतातिथ्यं सुखासीनं मारीचो वाक्यमब्रवीत्॥४॥
समागमनमेतत्ते रथेनैकेन रावण।
चिन्तापर इवाभासि हृदि कार्यं विचिन्तयन्॥५॥
ब्रूहि मे न हि गोप्यं चेत्करवाणि तव प्रियम्।
न्याय्यं चेद्ब्रूहि राजेन्द्र वृजिनं मां स्पृशेन्न हि॥६॥
रावण उवाच
अस्ति राजा दशरथः साकेताधिपतिः किल।
रामनामा सुतस्तस्य ज्येष्ठः सत्यपराक्रमः॥७॥
विवासयामास सुतं वनं वनजनप्रियम्।
भार्यया सहितं भ्रात्रा लक्ष्मणेन समन्वितम्॥८॥
स आस्ते विपिने घोरे पञ्चवट्याश्रमे शुभे।
तस्य भार्या विशालाक्षी सीता लोकविमोहिनी॥९॥
रामो निरपराधान्मे राक्षसान् भीमविक्रमान्।
खरं च हत्वा विपिने सुखमास्तेऽतिनिर्भयः॥१०॥
भगिन्याः शूर्पणखाया निर्दोषायाश्च नासिकाम्।
कर्णौ चिच्छेद दुष्टात्मा वने तिष्ठति निर्भयः॥११॥
अतस्त्वया सहायेन गत्वा तत्प्राणवल्लभाम्।
आनयिष्यामि विपिने रहिते राघवेण ताम्॥१२॥
त्वं तु मायामृगो भूत्वा ह्याश्रमादपनेष्यसि।
रामं च लक्ष्मणं चैव तदा सीतां हराम्यहम्॥१३॥
त्वं तु तावत्सहायं मे कृत्वा स्थास्यसि पूर्ववत्।
इत्येवं भाषमाणं तं रावणं वीक्ष्य विस्मितः॥१४॥
केनेदमुपदिष्टं ते मूलघातकरं वचः।
स एव शत्रुर्वध्यश्च यस्त्वन्नाशं प्रतीक्षते॥१५॥
रामस्य पौरुषं स्मृत्वा चित्तमद्यापि रावण।
बालोऽपि मां कौशिकस्य यज्ञसंरक्षणाय सः॥१६॥
आगतस्त्विषुणैकेन पातयामास सागरे।
योजनानां शतं रामस्तदादि भयविह्वलः॥१७॥
स्मृत्वा स्मृत्वा तदेवाहं रामं पश्यामि सर्वतः॥१८॥
दण्डकेऽपि पुनरप्यहं वने
पूर्ववैरमनुचिन्तयन् हृदि।
तीक्ष्णशृङ्गमृगरूपमेकदा
मादृशैर्बहुभिरावृतोऽभ्ययाम्॥१९॥
राघवं जनकजासमन्वितं
लक्ष्मणेन सहितं त्वरान्वितः।
आगतोऽहमथ हन्तुमुद्यतो
मां विलोक्य शरमेकमक्षिपत्॥२०॥
तेन विद्धहृदयोऽहमुद्भ्रमनः
राक्षसेन्द्र पतितोऽस्मि सागरे।
तत्प्रभृत्यहमिदं समाश्रितः
स्थानमूर्जितमिदं भयार्दितः॥२१॥
राममेव सततं विभावये
भीतभीत इव भोगराशितः।
राजरत्नरमणीरथादिकं
श्रोत्रयोर्यदि गतं भयं भवेत्॥२२॥
राम आगत इहेतिशङ्कया
बाह्यकार्यमपि सर्वमत्यजम्।
निद्रया परिवृतो यदा स्वपे
राममेव मनसानुचिन्तयन्॥२३॥
स्वप्नदृष्टिगतराघवं तदा
बोधितो विगतनिद्र आस्थितः।
तद् भवानपि विमुच्य चाग्रहं
राघवं प्रति गृहं प्रयाहि भोः॥२४॥
रक्ष राक्षसकुलं चिरागतं
तत्स्मृतौ सकलमेव नश्यति।
तव हितं वदतो मम भाषितं
परिगृहाण परात्मनि राघवे॥२५॥
त्यज विरोधमतिं भज भक्तितः
परमकारुणिको रघुनन्दनः।
अहमशेषमिदं मुनिवाक्यतः
अशृणवमादियुगे परमेश्वरः।
ब्रह्मणार्थित उवाच तं हरिः
किं तवेप्सितमहं करवाणि तत्॥२६॥
ब्रह्मणोक्तमरविन्दलोचन
त्वं प्रयाहि भुवि मानुषं वपुः।
दशरथात्मजभावमञ्जसा
जहि रिपुं दशकन्धरं हरे॥२७॥
अतो न मानुषो रामः साक्षान्नारायणोऽव्ययः।
मायामानुषवेषेण वनं यातोऽतिनिर्भयः॥२८॥
भूभारहरणार्थाय गच्छ तात गृहं सुखम्।
श्रुत्वा मारीचवचनं रावणः प्रत्यभाषत॥२९॥
परमात्मा यदा रामः प्रार्थितो ब्रह्मणा किल।
मां हन्तुं मानुषो भूत्वा यत्नादिह समागतः॥३०॥
करिष्यत्यचिरादेव सत्यसङ्कल्प ईश्वरः।
अतोऽहं यत्नतः सीतामानेष्याम्येव राघवात्॥३१॥
वधे प्राप्ते रणे वीर प्राप्स्यामि परमं पदम्।
यद् वा रामं रणे हत्वा सीतां प्राप्स्यामि निर्भयः॥३२॥
तदुत्तिष्ठ महाभाग विचित्रमृगरूपधृक्।
रामं सलक्ष्मणं शीघ्रमाश्रमादतिदूरतः॥३३॥
आक्रम्य गच्छ त्वं शीघ्रं सुखं तिष्ठ यथा पुरा।
अतः परं चेद्यत्किञ्चिद् भाषसे मद्विभीषणम्॥३४॥
हनिष्याम्यसिनानेन त्वामत्रैव न संशयः।
मारीचस्तद्वचः श्रुत्वा स्वात्मन्येवान्वचिन्तयत्॥३५॥
यदि मां राघवो हन्यात्तदा मुक्तो भवार्णवात्।
मां हन्याद्यदि चेद् दुष्टस्तदा मे निरयो ध्रुवम्॥३६॥
इति निश्चित्य मरणं रामादुत्थाय वेगतः।
अब्रवीद् रावणं राजन् करोम्याज्ञां तव प्रभो॥३७॥
इत्युक्त्वा रथमास्थाय गतो रामाश्रमं प्रति।
शुद्धजाम्बूनदप्रख्यो मृगोऽभूद्रौप्यबिन्दुकः॥३८॥
रत्नशृङ्गो मणिखुरो नीलरत्नविलोचनः।
विद्युत्प्रभो विमुग्धास्यो विचचार वनान्तरे॥३९॥
रामाश्रमपदस्यान्ते सीतादृष्टिपथे चरन्॥४०॥
क्षणं च धावत्यवतिष्ठते क्षणं
समीपमागत्य पुनर्भयावृतः।
एवं स मायामृगवेषरूपधृकः
चचार सीतां परिमोहयन् खलः॥४१॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अरण्यकाण्डे षष्ठः सर्गः॥
❀