पञ्चमः सर्गः
श्री-महादेव उवाच
तस्मिन् काले महारण्ये राक्षसी कामरूपिणी।
विचचार महासत्त्वा जनस्थाननिवासिनी॥१॥
एकदा गौतमीतीरे पञ्चवट्यां समीपतः।
पद्मवज्राङ्कुशाङ्कानि पदानि जगतीपतेः॥२॥
दृष्ट्वा कामपरीतात्मा पादसौन्दर्यमोहिता।
पश्यन्ती सा शनैरायाद्राघवस्य निवेशनम्॥३॥
तत्र सा तं रमानाथं सीतया सह संस्थितम्।
कन्दर्पसदृशं रामं दृष्ट्वा कामविमोहिता॥४॥
राक्षसी राघवं प्राह कस्य त्वं कः किमाश्रमे।
युक्तो जटावल्कलाद्यैः साध्यं किं तेऽत्र मे वद॥५॥
अहं शूर्पणखा नाम राक्षसी कामरूपिणी।
भगिनी राक्षसेन्द्रस्य रावणस्य महात्मनः॥६॥
खरेण सहिता भ्रात्रा वसाम्यत्रैव कानने।
राज्ञा दत्तं च मे सर्वं मुनिभक्षा वसाम्यहम्॥७॥
त्वां तु वेदितुमिच्छामि वद मे वदतां वर।
तामाह रामनामाहमयोध्याधिपतेः सुतः॥८॥
एषा मे सुन्दरी भार्या सीता जनकनन्दिनी।
स तु भ्राता कनीयान् मे लक्ष्मणोऽतीवसुन्दरः॥९॥
किं कृत्यं ते मया ब्रूहि कार्यं भुवनसुन्दरि।
इति रामवचः श्रुत्वा कामार्ता साब्रवीदिदम्॥१०॥
एहि राम मया सार्धं रमस्व गिरिकानने।
कामार्ताहं न शक्नोमि त्यक्तुं त्वां कमलेक्षणम्॥११॥
रामः सीतां कटाक्षेण पश्यन् सस्मितमब्रवीत्।
भार्या ममैषा कल्याणी विद्यते ह्यनपायिनी॥१२॥
त्वं तु सापत्न्यदुःखेन कथं स्थास्यसि सुन्दरि।
बहिरास्ते मम भ्राता लक्ष्मणोऽतीव सुन्दरः॥१३॥
तवानुरूपो भविता पतिस्तेनैव सञ्चर।
इत्युक्ता लक्ष्मणं प्राह पतिर्मे भव सुन्दर॥१४॥
भ्रातुराज्ञां पुरस्कृत्य सङ्गच्छावोऽद्य मा चिरम्।
इत्याह राक्षसी घोरा लक्ष्मणं काममोहिता॥१५॥
तामाह लक्ष्मणः साध्वि दासोऽहं तस्य धीमतः।
दासी भविष्यसि त्वं तु ततो दुःखतरं नु किम्॥१६॥
तमेव गच्छ भद्रं ते स तु राजाखिलेश्वरः।
तच्छ्रुत्वा पुनरप्यागाद्राघवं दुष्टमानसा॥१७॥
क्रोधाद्राम किमर्थं मां भ्रामयस्यनवस्थितः।
इदानीमेव तां सीतां भक्षयामि तवाग्रतः॥१८॥
इत्युक्त्वा विकटाकारा जानकीमनुधावति।
ततो रामाज्ञया खड्गमादाय परिगृह्य ताम्॥१९॥
चिच्छेद नासां कर्णौ च लक्ष्मणो लघुविक्रमः।
ततो घोरध्वनिं कृत्वा रुधिराक्तवपुर्द्रुतम्॥२०॥
क्रन्दमाना पपाताग्रे खरस्य परुषाक्षरा।
किमेतदिति तामाह खरः खरतराक्षरः॥२१॥
केनैवं कारितासि त्वं मृत्योर्वक्त्रानुवर्तिना।
वद मे तं वधिष्यामि कालकल्पमपि क्षणात्॥२२॥
तमाह राक्षसी रामः सीतालक्ष्मणसंयुतः।
दण्डकं निर्भयं कुर्वन्नास्ते गोदावरीतटे॥२३॥
मामेवं कृतवान्स्तस्य भ्राता तेनैव चोदितः।
यदि त्वं कुलजातोऽसि वीरोऽसि जहि तौ रिपू॥२४॥
तयोस्तु रुधिरं पास्ये भक्षयैतौ सुदुर्मदौ।
नो चेत्प्राणान् परित्यज्य यास्यामि यमसादनम्॥२५॥
तच्छ्रुत्वा त्वरितं प्रागात्खरः क्रोधेन मूर्च्छितः।
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्॥२६॥
चोदयामास रामस्य समीपं वधकाङ्क्षया।
खरश्च त्रिशिराश्चैव दूषणश्चैव राक्षसः॥२७॥
सर्वे रामं ययुः शीघ्रं नानाप्रहरणोद्यताः।
श्रुत्वा कोलाहलं तेषां रामः सौमित्रिमब्रवीत्॥२८॥
श्रूयते विपुलः शब्दो नूनमायान्ति राक्षसाः।
भविष्यति महद्युद्धं नूनमद्य मया सह॥२९॥
सीतां नीत्वा गुहां गत्वा तत्र तिष्ठ महाबल।
हन्तुमिच्छाम्यहं सर्वान् राक्षसान् घोररूपिणः॥३०॥
अत्र किञ्चिन्न वक्तव्यं शापितोऽसि ममोपरि।
तथेति सीतामादाय लक्ष्मणो गह्वरं ययौ॥३१॥
रामः परिकरं बद्ध्वा धनुरादाय निष्ठुरम्।
तूणीरावक्षयशरौ बद्ध्वायत्तोऽभवत्प्रभुः॥३२॥
तत आगत्य रक्षांसि रामस्योपरि चिक्षिपुः।
आयुधानि विचित्राणि पाषाणान् पादपानपि॥३३॥
तानि चिच्छेद रामोऽपि लीलया तिलशः क्षणात्।
ततो बाणसहस्रेण हत्वा तान् सर्वराक्षसान्॥३४॥
खरं त्रिशिरसं चैव दूषणं चैव राक्षसम्।
जघान प्रहरार्धेन सर्वानेव रघूत्तमः॥३५॥
लक्ष्मणोऽपि गुहामध्यात्सीतामादाय राघवे।
समर्प्य राक्षसान् दृष्ट्वा हतान् विस्मयमाययौ॥३६॥
सीता रामं समालिङ्ग्य प्रसन्नमुखपङ्कजा।
शस्त्रव्रणानि चाङ्गेषु ममार्ज जनकात्मजा॥३७॥
साऽपि दुद्राव दृष्ट्वा तान् हतान् राक्षसपुङ्गवान्।
लङ्कां गत्वा सभामध्ये क्रोशन्ती पादसन्निधौ॥३८॥
रावणस्य पपातोर्व्यां भगिनी तस्य रक्षसः।
दृष्ट्वा तां रावणः प्राह भगिनीं भयविह्वलाम्॥३९॥
उत्तिष्ठोत्तिष्ठ वत्से त्वं विरूपकरणं तव।
कृतं शक्रेण वा भद्रे यमेन वरुणेन वा॥४०॥
कुबेरेणाथवा ब्रूहि भस्मीकुर्यां क्षणेन तम्।
राक्षसी तमुवाचेदं त्वं प्रमत्तो विमूढधीः॥४१॥
पानासक्तः स्त्रीविजितः षण्ढः सर्वत्र लक्ष्यसे।
चारचक्षुर्विहीनस्त्वं कथं राजा भविष्यसि॥४२॥
खरश्च निहतः सङ्ख्ये दूषणस्त्रिशिरास्तथा।
चतुर्दश सहस्राणि राक्षसानां महात्मनाम्॥४३॥
निहतानि क्षणेनैव रामेणासुरशत्रुणा।
जनस्थानमशेषेण मुनीनां निर्भयं कृतम्।
न जानासि विमूढस्त्वमत एव मयोच्यते॥४४॥
रावण उवाच
को वा रामः किमर्थं वा कथं तेनासुरा हताः।
सम्यक्कथय मे तेषां मूलघातं करोम्यहम्॥४५॥
शूर्पणखोवाच
जनस्थानादहं याता कदाचित् गौतमीतटे।
तत्र पञ्चवटी नाम पुरा मुनिजनाश्रया॥४६॥
तत्राश्रमे मया दृष्टो रामो राजीवलोचनः।
धनुर्बाणधरः श्रीमान् जटावल्कलमण्डितः॥४७॥
कनीयाननुजस्तस्य लक्ष्मणोऽपि तथाविधः।
तस्य भार्या विशालाक्षी रूपिणी श्रीरिवापरा॥४८॥
देवगन्धर्वनागानां मनुष्याणां तथाविधा।
न दृष्टा न श्रुता राजन् द्योतयन्ती वनं शुभा॥४९॥
आनेतुमहमुद्युक्ता तां भार्यार्थं तवानघ।
लक्ष्मणो नाम तद्भ्राता चिच्छेद मम नासिकाम्॥५०॥
कर्णौ च नोदितस्तेन रामेण स महाबलः।
ततोऽहमतिदुःखेन रुदती खरमन्वगाम्॥५१॥
सोऽपि रामं समासाद्य युद्धं राक्षसयूथपैः।
अतः क्षणेन रामेण तेनैव बलशालिना॥५२॥
सर्वे तेन विनष्टा वै राक्षसा भीमविक्रमाः।
यदि रामो मनः कुर्यात्त्रैलोक्यं निमिषार्धतः॥५३॥
भस्मीकुर्यान्न सन्देह इति भाति मम प्रभो।
यदि सा तव भार्या स्यात्सफलं तव जीवितम्॥५४॥
अतो यतस्व राजेन्द्र यथा ते वल्लभा भवेत्।
सीता राजीवपत्राक्षी सर्वलोकैकसुन्दरी॥५५॥
साक्षाद्रामस्य पुरतः स्थातुं त्वं न क्षमः प्रभो।
मायया मोहयित्वा तु प्राप्स्यसे तां रघूत्तमम्॥५६॥
श्रुत्वा तत्सूक्तवाक्यैश्च दानमानादिभिस्तथा।
आश्वास्य भगिनीं राजा प्रविवेश स्वकं गृहम्।
तत्र चिन्तापरो भूत्वा निद्रां रात्रौ न लब्धवान्॥५७॥
एकेन रामेण कथं मनुष्य-
मात्रेण नष्टः सबलः खरो मे।
भ्राता कथं मे बलवीर्यदर्प-
युतो विनष्टो बत राघवेण॥५८॥
यद् वा न रामो मनुजः परेशो
मां हन्तुकामः सबलं बलौघैः।
सम्प्रार्थितोऽयं द्रुहिणेन पूर्वं
मनुष्यरूपोऽद्य रघोः कुलेऽभूत्॥५९॥
वध्यो यदि स्यां परमात्मनाऽहं
वैकुण्ठराज्यं परिपालयेऽहम्।
नो चेदिदं राक्षसराज्यमेव
भोक्ष्ये चिरं राममतो व्रजामि॥६०॥
इत्थं विचिन्त्याखिलराक्षसेन्द्रो
रामं विदित्वा परमेश्वरं हरिम्।
विरोधबुद्ध्यैव हरिं प्रयामि
द्रुतं न भक्त्या भगवान् प्रसीदेत्॥६१॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अरण्यकाण्डे पञ्चमः सर्गः॥
❀