तृतीयः सर्गः

अथ रामः सुतीक्ष्णेन जानक्या लक्ष्मणेन च।
अगस्त्यस्यानुजस्थानं मध्याह्ने समपद्यत॥१॥
तेन सम्पूजितः सम्यग्भुक्त्वा मूलफलादिकम्।
परेद्युः प्रातरुत्थाय जग्मुस्तेऽगस्त्यमण्डलम्॥२॥
सर्वर्तुफलपुष्पाढ्यं नानामृगगणैर्युतम्।
पक्षिसङ्घैश्च विविधैर्नादितं नन्दनोपमम्॥३॥
ब्रह्मर्षिभिर्देवर्षिभिः सेवितं मुनिमन्दिरैः।
सर्वतोऽलङ्कृतं साक्षाद् ब्रह्मलोकमिवापरम्॥४॥
बहिरेवाश्रमस्याथ स्थित्वा रामोऽब्रवीन्मुनिम्।
सुतीक्ष्ण गच्छ त्वं शीघ्रमागतं मां निवेदय॥५॥
अगस्त्यमुनिवर्याय सीतया लक्ष्मणेन च।
महाप्रसाद इत्युक्त्वा सुतीक्ष्णः प्रययौ गुरोः॥६॥
आश्रमं त्वरया तत्र ऋषिसङ्घसमावृतम्।
उपविष्टं रामभक्तैर्विशेषेण समायुतम्॥७॥
व्याख्यातराममन्त्रार्थं शिष्येभ्यश्चातिभक्तितः।
दृष्ट्वाऽगस्त्यं मुनिश्रेष्ठं सुतीक्ष्णः प्रययौ मुनेः॥८॥
दण्डवत्प्रणिपत्याह विनयावनतः सुधीः।
रामो दाशरथिर्ब्रह्मन् सीतया लक्ष्मणेन च।
आगतो दर्शनार्थं ते बहिस्तिष्ठति साञ्जलिः॥९॥

अगस्त्य उवाच

शीघ्रमानय भद्रं ते रामं मम हृदिस्थितम्।
तमेव ध्यायमानोऽहं काङ्क्षमाणोऽत्र संस्थितः॥१०॥
इत्युक्त्वा स्वयमुत्थाय मुनिभिः सहितो द्रुतम्।
अभ्यगात्परया भक्त्या गत्वा राममथाब्रवीत्॥११॥
आगच्छ राम भद्रं ते दिष्ट्या तेऽद्य समागमः।
प्रियातिथिर्मम प्राप्तोऽस्यद्य मे सफलं दिनम्॥१२॥
रामोऽपि मुनिमायान्तं दृष्ट्वा हर्षसमाकुलः।
सीतया लक्ष्मणेनापि दण्डवत्पतितो भुवि॥१३॥
द्रुतमुत्थाप्य मुनिराड् राममालिङ्ग्य भक्तितः।
तद्गात्रस्पर्शजाह्लादस्रवन्नेत्रजलाकुलः॥१४॥
गृहीत्वा करमेकेन करेण रघुनन्दनम्।
जगाम स्वाश्रमं हृष्टो मनसा मुनिपुङ्गवः॥१५॥
सुखोपविष्टं सम्पूज्य पूजया बहुविस्तरम्।
भोजयित्वा यथान्यायं भोज्यैर्वन्यैरनेकधा॥१६॥
सुखोपविष्टमेकान्ते रामं शशिनिभाननम्।
कृताञ्जलिरुवाचेदमगस्त्यो भगवानृषिः॥१७॥
त्वदागमनमेवाहं प्रतीक्षन् समवस्थितः।
यदा क्षीरसमुद्रान्ते ब्रह्मणा प्रार्थितः पुरा॥१८॥
भूमेर्भारापनुत्त्यर्थं रावणस्य वधाय च।
तदादि दर्शनाकाङ्क्षी तव राम तपश्चरन्।
वसामि मुनिभिः सार्धं त्वामेव परिचिन्तयन्॥१९॥
सृष्टेः प्रागेक एवासीर्निर्विकल्पोऽनुपाधिकः।
त्वदाश्रया त्वद्विषया माया ते शक्तिरुच्यते॥२०॥
त्वामेव निर्गुणं शक्तिरावृणोति यदा तदा।
अव्याकृतमिति प्राहुर्वेदान्तपरिनिष्ठिताः॥२१॥
मूलप्रकृतिरित्येके प्राहुर्मायेति केचन।
अविद्या संसृतिर्बन्ध इत्यादि बहुधोच्यते॥२२॥
त्वया सङ्क्षोभ्यमाणा सा महत्तत्त्वं प्रसूयते।
महत्तत्त्वादहङ्कारस्त्वया सञ्चोदितादभूत्॥२३॥
अहङ्कारो महत्तत्त्वसंवृतस्त्रिविधोऽभवत्।
सात्त्विको राजसश्चैव तामसश्चेति भण्यते॥२४॥
तामसात्सूक्ष्मतन्मात्राण्यासन् भूतान्यतः परम्।
स्थूलानि क्रमशो राम क्रमोत्तरगुणानि ह॥२५॥
राजसानीन्द्रियाण्येव सात्त्विका देवता मनः।
तेभ्योऽभवत्सूत्ररूपं लिङ्गं सर्वगतं महत्॥२६॥
ततो विराट् समुत्पन्नः स्थूलाद्भूतकदम्बकात्।
विराजः पुरुषात्सर्वं जगत्स्थावरजङ्गमम्॥२७॥
देवतिर्यङ्मनुष्याश्च कालकर्मक्रमेण तु।
त्वं रजोगुणतो ब्रह्मा जगतः सर्वकारणम्॥२८॥
सत्त्वाद्विष्णुस्त्वमेवास्य पालकः सद्भिरुच्यते।
लये रुद्रस्त्वमेवास्य त्वन्मायागुणभेदतः॥२९॥
जाग्रत्स्वप्नसुषुप्त्याख्या वृत्तयो बुद्धिजैर्गुणैः।
तासां विलक्षणो राम त्वं साक्षी चिन्मयोऽव्ययः॥३०॥
सृष्टिलीलां यदा कर्तुमीहसे रघुनन्दन।
अङ्गीकरोषि मायां त्वं तदा वै गुणवानिव॥३१॥
राम माया द्विधा भाति विद्याऽविद्येति ते सदा।
प्रवृत्तिमार्गनिरता अविद्यावशवर्तिनः।
निवृत्तिमार्गनिरता वेदान्तार्थविचारकाः॥३२॥
त्वद्भक्तिनिरता ये च ते वै विद्यामयाः स्मृताः।
अविद्यावशगा ये तु नित्यं संसारिणश्च ते।
विद्याभ्यासरता ये तु नित्यमुक्तास्त एव हि॥३३॥
लोके त्वद्भक्तिनिरतास्त्वन्मन्त्रोपासकाश्च ये।
विद्या प्रादुर्भवेत्तेषां नेतरेषां कदाचन॥३४॥
अतस्त्वद्भक्तिसम्पन्ना मुक्ता एव न संशयः।
त्वद्भक्त्यमृतहीनानां मोक्षः स्वप्नेऽपि नो भवेत्॥३५॥
किं राम बहुनोक्तेन सारं किञ्चिद् ब्रवीमि ते।
साधुसङ्गतिरेवात्र मोक्षहेतुरुदाहृता॥३६॥
साधवः समचित्ता ये निःस्पृहा विगतैषिणः।
दान्ताः प्रशान्तास्त्वद्भक्ता निवृत्ताखिलकामनाः॥३७॥
इष्टप्राप्तिविपत्त्योश्च समाः सङ्गविवर्जिताः।
सन्न्यस्ताखिलकर्माणः सर्वदा ब्रह्मतत्पराः॥३८॥
यमादिगुणसम्पन्नाः सन्तुष्टा येन केनचित्।
सत्सङ्गमो भवेद्यर्हि त्वत्कथाश्रवणे रतिः॥३९॥
समुदेति ततो भक्तिस्त्वयि राम सनातने।
त्वद्भक्तावुपपन्नायां विज्ञानं विपुलं स्फुटम्॥४०॥
उदेति मुक्तिमार्गोऽयमाद्यश्चतुरसेवितः।
तस्माद्राघव सद्भक्तिस्त्वयि मे प्रेमलक्षणा॥४१॥
सदा भूयाद्धरे सङ्गस्त्वद्भक्तेषु विशेषतः।
अद्य मे सफलं जन्म भवत्सन्दर्शनादभूत्॥४२॥
अद्य मे क्रतवः सर्वे बभूवुः सफलाः प्रभो।
दीर्घकालं मया तप्तमनन्यमतिना तपः।
तस्येह तपसो राम फलं तव यदर्चनम्॥४३॥
सदा मे सीतया सार्धं हृदये वस राघव।
गच्छतस्तिष्ठतो वाऽपि स्मृतिः स्यान्मे सदा त्वयि॥४४॥
इति स्तुत्वा रमानाथमगस्त्यो मुनिसत्तमः।
ददौ चापं महेन्द्रेण रामार्थे स्थापितं पुरा॥४५॥
अक्षय्यौ बाणतूणीरौ खड्गो रत्नविभूषितः।
जहि राघव भूभारभूतं राक्षसमण्डलम्॥४६॥
यदर्थमवतीर्णोऽसि मायया मनुजाकृतिः।
इतो योजनयुग्मे तु पुण्यकाननमण्डितः॥४७॥
अस्ति पञ्चवटीनाम्ना आश्रमो गौतमीतटे।
नेतव्यस्तत्र ते कालः शेषो रघुकुलोद्वह॥४८॥
तत्रैव बहुकार्याणि देवानां कुरु सत्पते॥४९॥
श्रुत्वा तदाऽगस्त्यसुभाषितं वचः
स्तोत्रं च तत्त्वार्थसमन्वितं विभुः।
मुनिं समाभाष्य मुदान्वितो ययौ
प्रदर्शितं मार्गमशेषविद्धरिः॥५०॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अरण्यकाण्डे तृतीयः सर्गः॥