द्वितीयः सर्गः

श्री-महादेव उवाच

विराधे स्वर्गते रामो लक्ष्मणेन च सीतया।
जगाम शरभङ्गस्य वनं सर्वसुखावहम्॥१॥
शरभङ्गस्ततो दृष्ट्वा रामं सौमित्रिणा सह।
आयान्तं सीतया सार्धं सम्भ्रमादुत्थितः सुधीः॥२॥
अभिगम्य सुसम्पूज्य विष्टरेषूपवेशयत्।
आतिथ्यमकरोत्तेषां कन्दमूलफलादिभिः॥३॥
प्रीत्याऽऽह शरभङ्गोऽपि रामं भक्तिपरायणम्।
बहुकालमिहैवाऽऽसं तपसे कृतनिश्चयः॥४॥
अद्य मत्तपसा सिद्धं यत्पुण्यं बहु विद्यते।
तत्सर्वं तव दास्यामि ततो मुक्तिं व्रजाम्यहम्॥५॥
समर्प्य रामस्य महत्सुपुण्यफलं
विरक्तः शरभङ्गयोगी।
चितिं समारोहयदप्रमेयं
रामं ससीतं सहसा प्रणम्य॥६॥
ध्यायन्श्चिरं राममशेषहृत्स्थं
दूर्वादलश्यामलमम्बुजाक्षम्।
चीराम्बरं स्निग्धजटाकलापं
सीतासहायं सहलक्ष्मणं तम्॥७॥
को वा दयालुः स्मृतकामधेनुरन्यो
जगत्यां रघुनायकादहो।
स्मृतो मया नित्यमनन्यभाजा
ज्ञात्वा स्मृतिं मे स्वयमेव यातः॥८॥
पश्यत्विदानीं देवेशो रामो दाशरथिः प्रभुः।
दग्ध्वा स्वदेहं गच्छामि ब्रह्मलोकमकल्मषः॥९॥
अयोध्याधिपतिर्मेऽस्तु हृदये राघवः सदा।
यद् वामाङ्के स्थिता सीता मेघस्येव तटिल्लता॥१०॥
इति रामं चिरं ध्यात्वा दृष्ट्वा च पुरतः स्थितम्।
प्रज्वाल्य सहसा वह्निं दग्ध्वा पञ्चात्मकं वपुः॥११॥
दिव्यदेहधरः साक्षाद्ययौ लोकपतेः पदम्।
ततो मुनिगणाः सर्वे दण्डकारण्यवासिनः।
आजग्मू राघवं द्रष्टुं शरभङ्गनिवेशनम्॥१२॥
दृष्ट्वा मुनिसमूहं तं जानकीरामलक्ष्मणाः।
प्रणेमुः सहसा भूमौ॥१३॥
आशीर्भिरभिनन्द्याथ रामं सर्वहृदि स्थितम्।
ऊचुः प्राञ्जलयः सर्वे धनुर्बाणधरं हरिम्॥१४॥
भूमेर्भारावताराय जातोऽसि ब्रह्मणार्थितः।
जानीमस्त्वां हरिं लक्ष्मीं जानकीं लक्ष्मणं तथा॥१५॥
शेषांशं शङ्खचक्रे द्वे भरतं सानुजं तथा।
अतश्चादौ ऋषीणां त्वं दुःखं मोक्तुमिहार्हसि॥१६॥
आगच्छ यामो मुनिसेवितानि
वनानि सर्वाणि रघूत्तम क्रमात्।
द्रष्टुं सुमित्रासुतजानकीभ्यां
तदा दयाऽस्मासु दृढा भविष्यति॥१७॥
इति विज्ञापितो रामः कृताञ्जलिपुटैर्विभुः।
जगाम मुनिभिः सार्धं द्रष्टुं मुनिवनानि सः॥१८॥
ददर्श तत्र पतितान्यनेकानि शिरांसि सः।
अस्थिभूतानि सर्वत्र रामो वचनमब्रवीत्॥१९॥
अस्थीनि केषामेतानि किमर्थं पतितानि वै।
तमूचुर्मुनयो राम ऋषीणां मस्तकानि हि॥२०॥
राक्षसैर्भक्षितानीश प्रमत्तानां समाधितः।
अन्तरायं मुनीनां ते पश्यन्तोऽनुचरन्ति हि॥२१॥
श्रुत्वा वाक्यं मुनीनां स भयदैन्यसमन्वितम्।
प्रतिज्ञामकरोद्रामो वधायाशेषरक्षसाम्॥२२॥
पूज्यमानः सदा तत्र मुनिभिर्वनवासिभिः।
जानक्या सहितो रामो लक्ष्मणेन समन्वितः॥२३॥
उवास कतिचित् तत्र वर्षाणि रघुनन्दनः।
एवं क्रमेण सम्पश्यन्नृषीणामाश्रमान् विभुः॥२४॥
सुतीक्ष्णस्याश्रमं प्रागात्प्रख्यातमृषिसङ्कुलम्।
सर्वर्तुगुणसम्पन्नं सर्वकालसुखावहम्॥२५॥
राममागतमाकर्ण्य सुतीक्ष्णः स्वयमागतः।
अगस्त्यशिष्यो रामस्य मन्त्रोपासनतत्परः।
विधिवत्पूजयामास भक्त्युत्कण्ठितलोचनः॥२६॥

सुतीक्ष्ण उवाच

त्वन्मन्त्रजाप्यहमनन्तगुणाप्रमेय
सीतापते शिवविरिञ्चिसमाश्रिताङ्घ्रे।
संसारसिन्धुतरणामलपोतपाद
रामाभिराम सततं तव दासदासः॥२७॥
मामद्य सर्वजगतामविगोचरस्त्वं
त्वन्मायया सुतकलत्रगृहान्धकूपे।
मग्नं निरीक्ष्य मलपुद्गलपिण्डमोह-
पाशानुबद्धहृदयं स्वयमागतोऽसि॥२८॥
त्वं सर्वभूतहृदयेषु कृतालयोऽपि
त्वन्मन्त्रजाप्यविमुखेषु तनोषि मायाम्।
त्वन्मन्त्रसाधनपरेष्वपयाति माया
सेवानुरूपफलदोऽसि यथा महीपः॥२९॥
विश्वस्य सृष्टिलयसंस्थितिहेतुरेकः
त्वं मायया त्रिगुणया विधिरीशविष्णू।
भासीश मोहितधियां विविधाकृतिस्त्वं
यद्वद्रविः सलिलपात्रगतो ह्यनेकः॥३०॥
प्रत्यक्षतोऽद्य भवतश्चरणारविन्दं
पश्यामि राम तमसः परतः स्थितस्य।
दृग्रूपतस्त्वमसतामविगोचरोऽपि
त्वन्मन्त्रपूतहृदयेषु सदा प्रसन्नः॥३१॥
पश्यामि राम तव रूपमरूपिणोऽपि
मायाविडम्बनकृतं सुमनुष्यवेषम्।
कन्दर्पकोटिसुभगं कमनीयचाप-
बाणं दयार्द्रहृदयं स्मितचारुवक्त्रम्॥३२॥
सीतासमेतमजिनाम्बरमप्रधृष्यं
सौमित्रिणा नियतसेवितपादपद्मम्।
नीलोत्पलद्युतिमनन्तगुणं प्रशान्तं
मद्भागधेयमनिशं प्रणमामि रामम्॥३३॥
जानन्तु राम तव रूपमशेषदेश-
कालाद्युपाधिरहितं घनचित्प्रकाशम्।
प्रत्यक्षतोऽद्य मम गोचरमेतदेव
रूपं विभातु हृदये न परं विकाङ्क्षे॥३४॥
इत्येवं स्तुवतस्तस्य रामः सस्मितमब्रवीत्।
मुने जानामि ते चित्तं निर्मलं मदुपासनात्॥३५॥
अतोऽहमागतो द्रष्टुं मदृते नान्यसाधनम्।
मन्मन्त्रोपासका लोके मामेव शरणं गताः॥३६॥
निरपेक्षा नान्यगतास्तेषां दृश्योऽहमन्वहम्।
स्तोत्रमेतत्पठेद्यस्तु त्वत्कृतं मत्प्रियं सदा॥३७॥
सद्भक्तिर्मे भवेत्तस्य ज्ञानं च विमलं भवेत्।
त्वं ममोपासनादेव विमुक्तोऽसीह सर्वतः॥३८॥
देहान्ते मम सायूज्यं लप्स्यसे नात्र संशयः।
गुरुं ते द्रष्टुमिच्छामि ह्यगस्त्यं मुनिनायकम्।
किञ्चित्कालं तत्र वस्तुं मनो मे त्वरयत्यलम्॥३९॥
सुतीक्ष्णोऽपि तथेत्याह श्वो गमिष्यसि राघव।
अहमप्यागमिष्यामि चिराद् दृष्टो महामुनिः॥४०॥
अथ प्रभाते मुनिना समेतो
रामः ससीतः सह लक्ष्मणेन।
अगस्त्यसम्भाषणलोलमानसः
शनैरगस्त्यानुजमन्दिरं ययौ॥४१॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अरण्यकाण्डे द्वितीयः सर्गः॥