प्रथमः सर्गः
श्री-महादेव उवाच
अथ तत्र दिनं स्थित्वा प्रभाते रघुनन्दनः।
स्नात्वा मुनिं समामन्त्र्य प्रयाणायोपचक्रमे॥१॥
मुने गच्छामहे सर्वे मुनिमण्डलमण्डितम्।
विपिनं दण्डकं यत्र त्वमाज्ञातुमिहार्हसि॥२॥
मार्गप्रदर्शनार्थाय शिष्यानाज्ञप्तुमर्हसि।
श्रुत्वा रामस्य वचनं प्रहस्यात्रिर्महायशाः।
प्राह तत्र रघुश्रेष्ठं राम राम सुराश्रय॥३॥
सर्वस्य मार्गद्रष्टा त्वं तव को मार्गदर्शकः।
तथाऽपि दर्शयिष्यन्ति तव लोकानुसारिणः॥४॥
इति शिष्यान् समादिश्य स्वयं किञ्चित्तमन्वगात्।
रामेण वारितः प्रीत्या अत्रिः स्वभवनं ययौ॥५॥
क्रोशमात्रं ततो गत्वा ददर्श महतीं नदीम्।
अत्रेः शिष्यानुवाचेदं रामो राजीवलोचनः॥६॥
नद्याः सन्तरणे कश्चिदुपायो विद्यते न वा।
ऊचुस्ते विद्यते नौका सुदृढा रघुनन्दन॥७॥
तारयिष्यामहे युष्मान् वयमेव क्षणादिह।
ततो नावि समारोप्य सीतां राघवलक्ष्मणौ॥८॥
क्षणात्सन्तारयामासुर्नदीं मुनिकुमारकाः।
रामाभिनन्दिताः सर्वे जग्मुरत्रेरथाश्रमम्॥९॥
तावेत्य विपिनं घोरं झिल्लीझङ्कारनादितम्।
नानामृगगणाकीर्णं सिंहव्याघ्रादिभीषणम्॥१०॥
राक्षसैर्घोररूपैश्च सेवितं रोमहर्षणम्।
प्रविश्य विपिनं घोरं रामो लक्ष्मणमब्रवीत्॥११॥
इतः परं प्रयत्नेन गन्तव्यं सहितेन मे।
धनुर्गुणेन संयोज्य शरानपि करे दधत्॥१२॥
अग्रे यास्याम्यहं पश्चात्त्वमन्वेहि धनुर्धर।
आवयोर्मध्यगा सीता मायेवाऽऽत्मपरात्मनोः॥१३॥
चक्षुश्चारय सर्वत्र दृष्टं रक्षोभयं महत्।
विद्यते दण्डकारण्ये श्रुतपूर्वमरिन्दम॥१४॥
इत्येवं भाषमाणौ तौ जग्मतुः सार्धयोजनम्।
तत्रैका पुष्करिण्यास्ते कल्हारकुमुदोत्पलैः॥१५॥
अम्बुजैः शीतलोदेन शोभमाना व्यदृश्यत।
तत्समीपमथो गत्वा पीत्वा तत्सलिलं शुभम्॥१६॥
ऊषुस्ते सलिलाभ्याशे क्षणं छायामुपाश्रिताः।
ततो ददृशुरायान्तं महासत्त्वं भयानकम्॥१७॥
करालदंष्ट्रवदनं भीषयन्तं स्वगर्जितैः।
वामांसे न्यस्तशूलाग्रग्रथितानेकमानुषम्॥१८॥
भक्षयन्तं गजव्याघ्रमहिषं वनगोचरम्।
ज्यारोपितं धनुर्धृत्वा रामो लक्ष्मणमब्रवीत्॥१९॥
पश्य भ्रातर्महाकायो राक्षसोऽयमुपागतः।
आयात्यभिमुखं नोऽग्रे भीरूणां भयमावहन्॥२०॥
सज्जीकृतधनुस्तिष्ठ मा भैर्जनकनन्दिनि।
इत्युक्त्वा बाणमादाय स्थितो राम इवाचलः॥२१॥
स तु दृष्ट्वा रमानाथं लक्ष्मणं जानकीं तदा।
अट्टहासं ततः कृत्वा भीषयन्निदमब्रवीत्॥२२॥
कौ युवां बाणतूणीरजटावल्कलधारिणौ।
मुनिवेषधरौ बालौ स्त्रीसहायौ सुदुर्मदौ॥२३॥
सुन्दरौ बत मे वक्त्रप्रविष्टकवलोपमौ।
किमर्थमागतौ घोरं वनं व्यालनिषेवितम्॥२४॥
श्रुत्वा रक्षोवचो रामः स्मयमान उवाच तम्।
अहं रामस्त्वयं भ्राता लक्ष्मणो मम सम्मतः॥२५॥
एषा सीता मम प्राणवल्लभा वयमागताः।
पितृवाक्यं पुरस्कृत्य शिक्षणार्थं भवादृशाम्॥२६॥
शृत्वा तद्रामवचनमट्टहासमथाकरोत्।
व्यादाय वक्त्रं बाहुभ्यां शूलमादाय सत्वरः॥२७॥
मां न जानासि राम त्वं विराधं लोकविश्रुतम्।
मद्भयान्मुनयः सर्वे त्यक्त्वा वनमितो गताः॥२८॥
यदि जीवितुमिच्छास्ति त्यक्त्वा सीतां निरायुधौ।
पलायत न चेच्छीघ्रं भक्षयामि युवामहम्॥२९॥
इत्युक्त्वा राक्षसः सीतामादातुमभिदुद्रुवे।
रामश्चिच्छेद तद्बाहू शरेण प्रहसन्निव॥३०॥
ततः क्रोधपरीतात्मा व्यादाय विकटं मुखम्।
राममभ्यद्रवद्रामश्चिच्छेद परिधावतः॥३१॥
पदद्वयं विराधस्य तदद्भुतमिवाभवत्॥३२॥
ततः सर्प इवास्येन ग्रसितुं राममापतत्।
ततोऽर्धचन्द्राकारेण बाणेनास्य महच्छिरः॥३३॥
चिच्छेद रुधिरौघेण पपात धरणीतले।
ततः सीता समालिङ्ग्य प्रशशंस रघूत्तमम्॥३४॥
ततो दुन्दुभयो नेदुर्दिवि देवगणेरिताः।
ननृतुश्चाप्सरा हृष्टा जगुर्गन्धर्वकिन्नराः॥३५॥
विराधकायादतिसुन्दराकृतिः
विभ्राजमानो विमलाम्बरावृतः।
प्रतप्तचामीकरचारुभूषणो
व्यदृश्यताग्रे गगने रविर्यथा॥३६॥
प्रणम्य रामं प्रणतार्तिहारिणं
भवप्रवाहोपरमं घृणाकरम्।
प्रणम्य भूयः प्रणनाम दण्डवतः
प्रपन्नसर्वार्तिहरं प्रसन्नधीः॥३७॥
विराध उवाच
श्रीराम राजीवदलायताक्ष
विद्याधरोऽहं विमलप्रकाशः।
दुर्वाससाकारणकोपमूर्तिना
शप्तः पुरा सोऽद्य विमोचितस्त्वया॥३८॥
इतः परं त्वच्चरणारविन्दयोः
स्मृतिः सदा मेऽस्तु भवोपशान्तये।
त्वन्नामसङ्कीर्तनमेव वाणी
करोतु मे कर्णपुटं त्वदीयम्॥३९॥
कथामृतं पातु करद्वयं ते
पादारविन्दार्चनमेव कुर्यात्।
शिरश्च ते पादयुगप्रणामं
करोतु नित्यं भवदीयमेवम्॥४०॥
नमस्तुभ्यं भगवते विशुद्धज्ञानमूर्तये।
आत्मारामाय रामाय सीतारामाय वेधसे॥४१॥
प्रपन्नं पाहि मां राम यास्यामि त्वदनुज्ञया।
देवलोकं रघुश्रेष्ठ माया मां मा वृणोतु ते॥४२॥
इति विज्ञापितस्तेन प्रसन्नो रघुनन्दनः।
ददौ वरं तदा प्रीतो विराधाय महामतिः॥४३॥
गच्छ विद्याधराशेषमायादोषगुणा जिताः।
त्वया मद्दर्शनात्सद्यो मुक्तो ज्ञानवतां वरः॥४४॥
मद्भक्तिर्दुर्लभा लोके जाता चेन्मुक्तिदा यतः।
अतस्त्वं भक्तिसम्पन्नः परं याहि ममाऽऽज्ञया॥४५॥
रामेण रक्षोनिधनं सुघोरं
शापाद्विमुक्तिर्वरदानमेवम्।
विद्याधरत्वं पुनरेव लब्धं
रामं गृणन्नेति नरोऽखिलार्थान्॥४६॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अरण्यकाण्डे प्रथमः सर्गः॥
❀